( ततः प्रविशति सौदामिनी । )
सौदामिनी - एषास्मि सौदामिनी भगवतः श्रीपर्वतादुपेत्य पद्मावतीं तत्र मालतीविरहिणो माधवस्य संस्तुतप्रदेशदर्शनासहिष्णोः संस्त्यायं परित्यज्य सह सुहृद्वर्गेण बृहद्द्रोणीशैलकान्तारप्रदेशमुपश्रुत्याधुना तदन्तिकं प्रयामि । भोः, तथाहमुत्पति यथा सकल एव गिरिनगरग्रामसरिदरण्यव्यतिकरश्चक्षुषा परिषिच्यते । ( पश्चाद्विलोक्य । ) साधु साधु ।
पद्मावती विमलवारिविशालसिन्धु -
पारासरित्परिकरच्छलतो बिभर्ति ।
उत्तुङ्गसौधसुरमन्दिरगोपुराट्ट -
संघट्टपाटितविमुक्तमिवान्तरिक्षम् ॥१॥
अपि च ।
सैषा विभाति लवणा वलितोर्मिपङ्क्ति -
रभ्रागंए जनपदप्रमदाय यस्याह ।
गोगर्भिणीप्रियनवोलपमालभारि -
सेव्योपकण्ठविपिनावलयो विभान्ति ॥२॥
( अन्यतो विलोक्य । ) स एष भगवत्याः सिन्धोर्दारितरसातलस्तटप्रपातः ।
यत्रत्य एष तुमुलध्वनिरम्बुगर्भ -
गम्भीरनूतनघनस्तनितप्रचण्डः ।
पर्यन्तभूधरनिकुञ्जविजृम्भणेन
हेरम्बकण्ठरसितप्रतिमानमेति ॥३॥
एताश्चन्दनाश्वकर्णसरलपाटलाप्रायतरुगहनाः परिणतमालूरसुरभयोऽरण्यगिरिभूमयः स्मारयन्ति तरुणकदम्बजम्बूवनावबन्द्धान्धकारगुरुगिरिनिकुञ्जगुञ्जद्गम्भीरगद्गदोद्गारघोरघोषणगोदावरीमुखरितविशालमेखलाभुवो दक्षिणारण्यभूधरान् । अयं च मधुमतिसिन्धुसंभेदपावनो भगवान्भवानीपतिरपौरुषेयप्रतिष्ठः सुवर्नबिन्दुरित्याख्यायते । ( प्रणम्य । )
जयदेव भुवनभावन जय भगवन्नखिलवरद निगमनिघे ।
जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ॥४॥
( गमनमभिनीय । )
अयमभिनवमेघश्यामलोत्तुङ्गसानु -
र्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा
वितरति बृहद्श्मा पर्वतः प्रीतिमक्ष्णोः ॥५॥
दधति कुहरभाजामत्र भल्लूकयूना -
मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीना -
मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥६॥
( ऊर्ध्वमवलोक्य । ) अये, कथं मध्याहः । तथा हि संप्रति
काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते
तीराश्मन्तकशिम्बिचुम्बितमुखा धाअन्त्यपःपूर्णिकाः ।
दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं
वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुभाः ॥७॥
तद्भवतु । माधवमकरन्दावन्विष्य यथाप्रस्तुतं साधयामि । ( इति निष्क्रान्तः । )
शुद्धविष्कम्भः ।
( ततः प्रविशति माधवो मकरन्दश्च । )
मकरन्द :- ( सकरुणं निःश्वस्य । )
न यत्र प्रत्याशामनुपतत नो वा रहयति
प्रतिक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् ।
अकिंचित्कुर्वाणाः पशव इव तस्यां वयमहो
विधातुर्वामत्वादिपदि परिवर्तामह इमे ॥८॥
माधव :- हा प्रिये, मालति, कासि । कथमविज्ञाततत्त्वमद्भुततमं झटिति पर्यवसितासि । नन्वकरुणे, संभ्हावय माम् ।
प्रियमाधवे किमसि मय्यवत्सला
ननु सोऽहमेव यमनन्दयत्पुरा ।
स्वयमागृहीतकमनीयकङ्कण -
स्तव मूर्तिमानिव महोत्सवः करः ॥९॥
वयस्य मकरन्द, दुर्लभः खलु जगति तावतः स्नेहस्य संभवः ।
सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर -
श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः ।
तृणमिव ततः प्राणान्मोक्तुं मनो विधृतं तया
किमपरमतो निर्व्यूढं यत्कारार्पणसाहसम् ॥१०॥
अपि च ।
मयि विगलितप्रत्याशत्वाद्विवाहविघेः पुरा
विकलकरणैर्मर्मच्छेदव्यथाविधुरैरिव ।
स्मरसि रुदितैः स्नेहाकूतं तथाप्यतनोदसा -
बहमपि यथाभूवं पीडातरङ्गितमानसः ॥११॥
( सावेगम् ) अहो न खलु भोः,
दलति हृदयं गाडोद्वेगं द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुच्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोनि न भस्मसा -
त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥१२॥
मकरन्द :- निरवग्रहो दहति दैवमिव दारुणो विवस्वान् । इयं च ते शरीरावस्था । तदस्य पद्मसरसः परिसरे मुहूर्तमास्यताम् । अत्र हि
उन्नालबालकमलाकरमाकरन्द -
निष्यन्दसंवलितमांसलगन्धबन्धुः ।
त्वां प्राणयिष्यति पुरः परिवर्तमान -
कल्लोलशिकरतुषारजडः समीरः ॥१३॥
( परिक्रम्योपविशतः ।
मकरन्द :- ( स्वगतम् । ) भवतु । एवं तावदाक्षिणामि । ( प्रकाशम् । ) वयस्य माधव,
एतस्मिन्मदकमल्लिकाक्षपक्ष -
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले
दृश्यन्तामविरहितश्रियो विभागाः ॥१४॥
( माधवः सोद्वेगमुत्तिष्ठति । )
मकरन्द :- कथं निष्प्रतिपतिशून्यमुत्थायान्यतः प्रवृत्तः ।
( निःष्वस्योत्थाय । ) सखे, प्रसीद । पश्य ।
वानीरप्रसवैर्निकुञ्जसरितामासक्तवासं पयः
पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः ।
उन्मीलत्कुटजप्रहासिषु गिरेरालम्ब्य सानूनितः
प्राग्भागेषु शिखण्डिताण्डवविधौ मेघैर्वितानायते ॥१५॥
अपि च । जृम्भाजर्जरडिम्बिडम्बरधनश्रीमत्कदम्बद्रुमाः
शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः ।
उद्यत्कन्दलकान्तकेतकभृतः कच्छाः सरित्स्रोतसा -
माविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा बनानां ततिः ॥१६॥
माधव :- सखे, पश्यामि । किंतु दुरालोकरमणीयः संप्रत्यरण्यगिरितटभूमयः तत्किमेतत् । ( सास्रम् । ) अथवा किमन्यत् ।
उत्फुल्लार्जुनसर्जवासितबहत्पौरस्त्यझञ्झामरु -
त्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना
धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥१७॥
हा प्रिये मालति,
तरुणतमालनीलबहुलोन्नमदम्बुधराः
शिशिरसमीरणावधुतनूतनवारिकणाः ।
कथमवलोकयेयमधुना हरिहेतिमती -
र्मदकलनीलकण्ठलहैर्मुखराः ककुभः ॥१८॥
( निःश्वस्य शोकार्ति नाटयति । )
मकरन्द :- कोऽप्यतिदारुणो दशाविपाको वयस्यस्य संप्रति वर्तते । ( सास्रम् । ) मया पुनरज्ञानेन वज्रमयेन किल विनोदः प्रारब्धः । ( निःश्वस्य । ) एवं च पर्यवसितप्रायेव नो माधवप्रत्याशा । ( सभयं विलोक्य । ) कथं प्रमुग्ध एव । हा सखि मालति, किमपरम् । निरनुक्रोशासि ।
अपहस्तितबान्धवे त्वया
विहितं साहसमस्य तृष्णया ।
तदिहानपराधिनि प्रिये
सखि कोऽयं करुणोज्झितः क्रमः ॥१९॥
कथमद्यापि नोच्छ्वसिति । हन्त, मुषितोऽस्मि ।
मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविकलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥२०॥
कष्टं भोः, कष्टम् ।
बन्धुताहृदयकौमुदीमहो
मालतीनयनमुग्धचन्द्रमाः ।
सोऽयमद्य मकरन्दनन्दनो
जीवलोकतिलकः प्रलीयते ॥२१॥
हा वयस्य माधव,
गात्रेषु चन्दनरसो दृशि शारदेन्दु -
रानन्द एव हृदये मम यस्त्वमासीः ।
तं त्वां निकामकमनीयमकाण्ड एव
कालेन जीवितमिवोद्धरता हतोऽस्मि ॥२२॥
( स्पृशन् । )
अकरुण वितर स्मितोज्ज्वलां
दृशमतिदारुण देहि मे गिरम् ।
सहचरमनुरक्तचेतसं
प्रियमकरन्द कथं न मन्यसे ॥२३॥
( माधवः संज्ञां लभते । )
मकरन्द :- ( सोच्छ्वासम् । ) अयमचिरधौतराजपट्टरुचिरमांसलच्छविर्नवजलधरस्तोयशीकरासारेण संजीवयति मे प्रियवयस्यम् ।
दिष्ट्यासमुच्छ्वसितस्तावत् ।
माधव :- तत्किमिवात्र विपिने प्रियावार्ताहरं करोमि ।
फलभरपरिणामश्यामजम्बूनिकुञ्ज -
स्खलनतनुतरङ्गामुत्तरेण स्रवन्तीम् ।
उपचितघनमालप्रौधतापिच्छनीलः
श्रयति शिखरमद्रेर्नूतनस्तोयवाहः ॥२४॥
( सरभसमुत्थायोन्मुखः कृताञ्जलिः । )
कच्चित्सौम्य प्रियसंहचरी विद्युदालिङ्गति त्वा -
माविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते ।
पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभि -
र्विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीवदेतत् ॥२५॥
( आकर्ण्य । ) अये, अयं प्रतिरवभरितकन्दरानन्दितोत्कण्ठनीलकण्ठकलकेकानुबन्धिनां मन्द्रहुंकृतेन मामनुमन्यते यावदभ्यर्थये । भगवन् जीमूत,
दैवात्पश्येर्जगति विचरन्मत्प्रियां मालतीं चे -
दाश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् ।
आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः
प्राणत्राणं कथमपि करोत्यायताक्ष्याः स एकः ॥२६॥
( सहर्षम् । ) अये, प्रचलितः । तदन्यतः संभावयामि । ( इति परिक्रामति । )
मकरन्द :- ( सोद्वेगम् । ) कथमिदानीमुन्मादोपराग एव माधवेन्दुमास्कन्दति । हा तात, हा अम्ब, हा भगवति, परित्रायस्व माम् ।
पश्य माधवस्यावस्थाम् ।
माधव :- धिक्प्रमादः ।
नवेषु लोध्रप्रसवेषु कान्ति -
र्दृशः कुरङ्गेषु गतं गजेषु ।
लतासु नम्रत्वमिति प्रमथ्य
व्यक्तं विभक्ता विपिने प्रिया मे ॥२७॥
हा प्रिये मालति ।
मकरन्द :-
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे
कथमिव सहपांसुक्रीडनप्रौढसख्ये ।
प्रियजनविरहाधिव्याधिखेदं दधाने
हतहृदय विदीर्य त्व द्विधा न प्रयासि ॥२८॥
माधव :- सुलभानुकारः खलु जगति वेधसो निर्माणसंनिवेशः ।
भवत्वेवं तावत् । ( उच्चैः । ) अयमहं भोः ( प्रणिपत्य । ) भूधरारण्यवासिनः सत्त्वान्विज्ञापयामि । मुहूर्तमवधानदानेन मामनुगृह्णन्तु भवन्तः ।
भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधू -
रिहस्थैर्दृष्टा वा विदितमथवास्याः किमभवत् ।
वयोऽवस्थां तस्याः श्रृणुत सुहृदो यत्र मदनः
प्रगल्भव्यापारश्चरति हृदि मुग्धश्च वपुषि ॥२९॥
कष्टं भोः ।
केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः
कान्तामन्तःप्रमोदादभिसरति मदभ्रान्ततारश्चकोरः ।
गोलाङ्गूलः कपोलं छुरयति रजसा कौसुमेन प्रियायाः
कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभावः ॥३०॥
अयं च
दन्तच्छदारुणिमरञ्जितदन्तमाल -
मुन्नम्य चुम्बति वलीवदनः प्रियायाः ।
काम्पिल्यकप्रसवपाटलगण्डपालि -
पाकारुणस्फुटितदाडिमकान्ति वक्रम् ॥३१॥
अयं च रोहिणानोकहस्कन्धविश्रान्तकण्ठः करी । कथमत्राप्यनवसरः ।
कण्डूकुङ्मलितेक्षणां सहचरीं दन्तस्य कोट्या लिख -
न्पर्यायव्यतिकीर्णकर्नपवनैराह्लादिभिर्वीजयन् ।
जग्धार्धैर्नवसल्लकीकिसलयैरस्याः स्थितीं कल्पय -
न्नन्यो वन्यमतङ्गजः परिचयप्रागल्भ्यमभ्यस्यति ॥३२॥
( अन्यतो विलोक्य । ) अय़ं तु
नान्तर्वर्धयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं
नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ।
दानज्यानिविषादमूकमधुपव्यासङ्गदीनाननो
नूनं प्रानसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥३३॥
अलमनेनाप्यायासितेन । ( सानन्दम् । ) एष सानन्दसहचरीसमाकर्ण्यमानमधुरगम्भीरकण्ठगर्जितध्वनिरपरोऽपि मत्तमातङ्गवर्गपालकः प्रत्यग्रविकसितकदम्बसंवादिसुरभिशीतलामोदबहुलसंवलितमांसलकपोलनिष्यन्दकर्दमिततीरं समुद्धृतकमलिनीखण्डप्रकीर्णकेसरमृणालकन्दाङ्कुरनिकरमनवरतप्रवृत्तकमनीयकर्णतालताण्डवप्रचलकर्णजर्जरिततरलतरङ्गविततनीहारवित्रस्तअकुररसारसं सरोऽगाह्य क्रीडति । भवतु । एनमाभाषे । महाभाग नागपते, श्लाघ्ययौवनः खल्वसि । कान्तानुवृत्तिचातुर्यमप्यस्ति भवतः । ( सापवादम् । )
लीलोत्खातमृणालकाण्डकवलछेदेषु संपादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन -
र्न स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥३४॥
कथमवधीरणानीरसं व्रजति । हन्त, मूढ एवास्मि, योऽस्मिन्वनचरेऽपि वयस्यमकरन्दोचितं व्याहरामि । हा प्रियवयस्य मकरन्द,
धिगुच्छ्वसितवैशसं मम यदित्थमेकाकिनो
धिगेव रमणीयवस्त्वनुभवाद्वृथाभाविनः ।
त्वया सह न यस्तया च दिवसः स विध्वंसतां
प्रमोदमृगतृष्णिकां धिगपरत्र कामनुषे ॥३५॥
मकरन्द :- अये, उन्मादमोहान्तरितोऽपि मां प्रति कुतश्चिव्द्यञ्जकात्प्रबुद्ध एवास्य सहजस्नेहसंस्कारः । तत्संनिहितमेव मां मन्यते । ( पुरतः स्थित्वा । ) एष पार्श्वचर एव ते स मकरन्दो मन्दभाग्यः ।
माधव :- हा प्रियवयस्य, संभावय । परिष्वजस्व माम् । प्रिया मालतीं प्रति तु निराश एव संवृत्तोऽस्मि ।
मकरन्द :- एषोऽहं संभावयामि जीवितेश्वरम् । ( विलोक्य सकरुणम् । ) कष्टम् । कथमाविर्भूतमत्परिष्वङ्गोत्कण्ठ एव निश्चेतनः संवृत्तः । तत्कृतमिदानीं जीविताशाव्यसनेन । सर्वथा नास्ति मे प्रियवयस्य इति युक्तः परिच्छेदः । हा वयस्य,
यत्स्नेहसंज्वरवता हृदयेन नित्य -
माबद्धवेपथु विनापि निमित्तयोगात् ।
त्वय्यापदो गणयता भयमन्वभावि
तत्सर्वमेकपद एव मम प्रणष्टम् ॥३६॥
अथवा वरं त एवातिक्रान्ता मुहूर्ताः, येषु तथाविधमपि भवन्तं चेतयमानमनुभूतवानस्मि । इदानीं तु मम
भारः कायो जीवितं वज्रकीलं
काष्ठाः शून्या निष्फलानीन्द्रियाणि ।
कष्टः कालो मां प्रति त्वत्प्रयाणे
शान्तालोकः सर्वतो जीवलोकः ॥३७॥
( विचिन्त्य । ) तत्किं नु माधवास्तमयसाक्षिणा भवितव्यमित्यतो जीवामि । तदस्माद्गिरिशिखरात्पाटलावत्यां निपत्य मादह्वस्य मरणाग्रेसरो भवामि । ( सकरुणं परिवृत्त्यावलोक्य च । ) कष्टम् ।
तदेतदसितोत्पलद्युति शरीरमस्मिन्नभू -
न्ममापि दृढपीडनैरपि न तृप्तिरालिङ्गनैः ।
यदुल्लसितविभ्रमा बत निपीतवत्यः पुरा
नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥३८॥
हन्त भोः, एकस्यां तनावेतावतो गुणसमाहारस्य संनिवेशः कथमिवाभूत् । सखे माधव,
आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं
संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् ।
निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना
त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥३९॥
तत्परिष्वजे तावदेवं गतमपि प्रियवयस्यम् । अर्थितश्चानेन संप्रत्ययमेवार्थः । ( परिष्वज्य । ) हा वयस्य, विमलकलानिधे गुणगुरो, हा मालतीस्वयंग्राहजीवितेश्वर, हा कामन्दकीमकरन्दानन्दजनक माधव, अयमत्र ते जन्मन्यपश्चिमः पश्चिमावस्थाप्रार्थितो मकरन्दबाहुपरिष्वङ्गः । सखे, संप्रति मुहूर्तमपि मकरन्दो जीवतीति मैव मंस्थाः । कुतः ।
आ जन्मनः सह निवासितया मयैव
मातुः पयोधरपयोऽपि समं निपीय ।
त्वं पुण्डरीकमुखबन्धुतया निरस्त -
मेको निवापसलिलं पिबसीत्ययुक्तम् ॥४०॥
( सकरुणं विमुच्य । परिक्रम्य । ) इयमधस्तात्पाटलावती । भगवत्यापगे,
प्रियस्य सुहृदो यत्र मम तत्रैव संभवः ।
भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥४१॥
( इति पतितुमिच्छति । )
सौदामिनी - ( प्रविश्य सहसा वारयित्वा । ) वत्स, कृतं साहसेन ।
मकरन्द :- ( विलोक्य । ) अम्ब, कासि । किमर्थं त्वयाहं प्रतिषिद्धः ।
सौदामिनी - आयुष्मन्, किं त्वं मकरन्दः ।
मकरन्द :- मुञ्च । स एवास्मि मन्दभाग्यः ।
सौदामिनी - वत्स, योगिन्यस्मि । मालतीप्रत्यभिज्ञानं च धारयामि । ( बकुलमालाम दर्शयति । )
मकरन्द :- ( सोच्छ्वासं सकरुणम् । ) अपि जीवति मालती ।
सौदामिनी - अथ किम् । वत्स, किमत्याहितं माधवस्य । यदनिष्टं व्यवसितोऽसीत्याकम्पितास्मि ।
मकरन्द :- आर्ये, तमहं प्रमुग्धमेव वैराग्यात्परित्यज्यागतः । तदेहि । तूर्णं संभावयावः ।
( त्वरितं परिकामतः । )
मकरन्द :- ( विलोक्य । ) दिष्ट्या प्रत्यापन्नचेतनो वयस्यः ।
सौदामिनी - संवदत्युभयोर्मालतीनिवेदितः शरीराकारः ।
माधव :- ( आश्वस्य । ) अये, प्रतिबोधितवानस्मि केनपि । ( विचिन्त्य । ) नूनमस्यायं नवजलधरप्रभञ्जनस्यानवेक्षितास्मदवस्थो व्यापारः । भगवन् पौरस्त्य वायो,
भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका -
न्कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् ।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा -
मकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे ॥४२॥
मकरन्द :- सुविहितमनेनाखिलजन्तुजीवनेन मातरिश्वना ।
अपि च ।
एते केतकसूनसौरभजुषः पौरप्रगल्भाङ्गना -
व्यालोलालकवल्लरीविलुठनव्याजोपभुक्ताननाः ।
किंचोन्निद्रकदम्बकुङ्मलपुटीधूलीलुठत्षट्पद -
व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥४३॥
माधव :- देव वायो, तथापि भवन्तमेवं प्रार्थये ।
विकसत्कदम्बनिकुरुम्बपांसुना
सह जीवितं घटय मे प्रिया यतः ।
अथवा तदङ्गपरिवासशीतलं
मयि किंचिदर्पय भवांस्तु मे गतिः ॥४४॥
( कृताञ्जलिः प्रणमति । )
सौदामिनी - सुसमाहितः खल्वभिज्ञार्पनस्यावसरः । ( अञ्जलौ बकुलमालामर्पयति । )
माधव :- ( साकूतं सहर्षं सविस्मयं च । ) कथमियमस्मद्विरचिता प्रियास्तनोन्नाहदुर्ललितमूर्तिरनङ्गमन्दिराङ्गणबकुलपादपकुसुममाला । ( सम्यङ्गिरूप्य । ) कः संदेहः । तथा हि स एवायमस्याः
मुग्धेन्दुसुन्दरतदीयमुखावलोक -
हेलाविश्रृङ्खलकुतूहलनिह्नवाय ।
दुर्न्यस्तपुष्परचितोऽपि लवङ्गिकाया -
स्तोषं ततान विषमग्रथितो विभागः ॥४५॥
( सहर्षोन्मादमुत्थाय । चण्डि मालति, इयं विलोक्यसे । ( सकोपमिव । ) अयि मदवस्थानभिज्ञे
प्रयान्तीव प्राणाः सुतनु हृदयं ध्वंसत इव
ज्वलन्तीवाङ्गानि प्रसरति समन्तादिव तमः ।
त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय -
स्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा ॥४६॥
( सर्वतो दृष्ट्वा सनिर्वेदम् । ) कुतोऽत्र मालती । ( बकुलमालां प्रति । ) अये प्रियाप्रणयिनि, परमोपकारिण्यसि ।
निष्प्रत्यूहाः प्रियसखि यदा दुःसहाः संबभूवु -
र्मोहोद्दामव्यसनगुरवो मन्मथोन्मादवेगाः ।
तस्मिन्काले कुवलयदृशस्त्वत्समाश्लेषणं वा
प्राणत्राणं प्रगुणमभवन्मत्परिष्वङ्गकल्पः ॥४७॥
( सकरुणं निःश्वस्य । )
आनन्दनानि मदनज्वरदीपनानि
गाढानुरागरसवन्ति तदा तदा च ।
स्नेहाकाअणि मम मुग्धदृशश्च कण्ठे
कष्टं स्मरामि तव तानि गतागतानि ॥४८॥
( हृदये निधाय मूर्च्छति । )
मकरन्द :- ( उपसृत्य । ) सखे, समाश्वसिहि ।
माधव :- ( समाश्वस्य । ) मकरन्द, किं न पश्यसि कुतोऽपि सहसैव मालतीस्नेहस्वहस्तस्य लाभः । तत्कथं मन्यसे किमेतदिति ।
मकरन्द :- इयमार्या योगीश्वर्यस्य मालत्यभिज्ञानस्योपनेत्री ।
माधव :- ( सकरुणं कृताञ्जलिः । ) आय्रे, प्रसीद । कथय, जीवति मे प्रिया सा ।
सौदामिनी - वत्स, समाश्वसिहि । जीवति सा कल्याणी ।
माधवमकरन्दौ - ( समुच्छ्वास्य । ) आर्ये, यंद्येवं कथय क एष वृत्तान्त इति ।
सौदामिनी - अस्ति पुरा करालयतनेऽघोरघण्टः कृपाणपाणिर्व्यापादितः ।
माधव :- ( सावेगम् । ) आर्ये, विरम । ज्ञातो वृत्तान्तः ।
मकरन्द :- सखे, क इव ।
माधव :- किमन्यत् । सकामा कपालकुण्डला ।
मकरन्द :- आय्रे, अप्येवम् ।
सौदामिनी - एवं यथा निवेदितं वत्सेन ।
मकरन्द :- भोः, कष्टम् ।
कुमुदाकरेण शरदिन्दुचन्द्रिका
यदि रामणीयकगुणाय संगता ।
सुकृतं तदस्तु कतमस्त्वयं विधि -
र्यदकालमेघविततिर्व्ययूयुजत् ॥४९॥
माधव :- हा प्रिये मालति, कष्टमतिबीभत्समापन्नासि ।
कथमपि तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्ता ।
उत्पातधूमरेखाक्रान्तेन कला शशधरस्य ॥५०॥
भगवति कपालकुण्डले,
निर्माणमेव हि तदा तव लालनीयं
मा पूतनात्वमुपगाः शिवतातिरेव ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि ॥५१॥
सौदामिनी - वत्स, अलमावेगेन ।
अकरिष्यदसौ पापमतिदुष्करुणैव सा ।
नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥५२॥
उभौ - ( प्रणम्य । ) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्वमस्माकमेवंविधो बन्धुः ।
सौदामिनी - ज्ञास्यथ खल्वेतत् । ( उत्थाय । ) इयमिदानीमहं
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् ।
इमामाकर्षिणीं सिद्धिमातनोमि शिवाय वः ॥५३॥
( समाधवा निष्क्रान्ता । )
मकरन्द :- आश्चर्यम् ।
व्यतिकर इव भीमस्तामसोवैद्युतश्च
क्षणमुपहतचक्षुर्वृत्तिरुद्धूय शान्तः ।
( विलोक्य । सभयम् । )
कथमिव न वयस्यस्तत्किमेतत्किमन्यत्
( विचिन्त्य । )
प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥५४॥
( सवितर्कम् । ) किमयमनर्थ इति संप्रति मूढोऽस्मि । अपि च ।
अस्तोकविस्मयमविस्मृतपूर्ववृत्त -
मुद्भूतनूतनभयज्वरजर्जरं नः ।
एकक्षणत्रुटितसंघटितप्रमोह -
मानन्दशोकशबलं समुपैति चेतः ॥५५॥
तदत्र कान्तारावसाने समास्मद्वर्गेण प्रविष्टां भगवतीमनुसृत्य वृत्तान्तमेनं कथयामि ।
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे नवमोऽङ्कः ।