संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|नरवाहनजन्मनामा चतुर्थो लम्बकः| देवदत्ताख्यायिका नरवाहनजन्मनामा चतुर्थो लम्बकः देवदत्ताख्यायिका ब्राह्मणीसमागमकथा जीमूतवाहनाख्यायिका सिंहपराक्रमाख्यायिका नरवाहनजन्मनामा देवदत्ताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत देवदत्ताख्यायिका Translation - भाषांतर N/Aप्रथमो गुच्छः । ललाटलोचनं पायात्प्रदीप्तं त्रिपुरद्विषः । कुमारक्षासिन्दूरं वितरन्किरणैरिव ॥१॥ स सार्वभौमविभवं प्राप्य भूमिपुरंदरः । बभार वल्लभा कान्तिनलिनी राजहंसताम् ॥२॥ सभास्थानसमासीनमभ्येत्यावाप्तसत्कृतिः । जगाद नारदो दन्तद्युत्या धवलयन्दिशः ॥३॥ अपि राजेन्द्र कार्येषु प्राप्य लक्ष्मीं न मुह्यसि । ऐश्वर्यमदमत्ता हि न पश्यन्ति नृपद्विपाः ॥४॥ अपि संकोचमायाति न श्रीर्व्यसनवारिदैः । जडिकृतप्रतापस्य हेमन्ते नलिनीवने ॥५॥ स पाण्डुः पृथिवीपालस्तव पूर्वपितामहः । मृगयाव्यसनासक्तो मुनिं हरिणरूपिणम् । निर्गमं नाम बाणेन जघान रतिमोहितम् ॥६॥ तस्मात्स रतिपर्यन्तजीवितं शापमाप्तवान् । इति राज्ञां विनाशाय व्यसनं महतामपि ॥७॥ कुलाधिकं पदं वीर संप्राप्तोऽसि किमुच्यते । सर्वविद्याधराधीशो भविष्यति तवात्मजः ॥८॥ कुमारजनकं देवमाराध्य शशिशेखरम् । देवी वासवदत्तेयं जनयिष्यति तं सुतम् ॥९॥ हरनेत्राग्निनिर्धूतः स्मरः सोऽवतरिष्यति । रतिव्रतैः प्रसन्नेन शंकरेण विनिर्मितः ॥१०॥ उक्त्वेति नारदमुनौ क्षिप्रमेव तिरोहिते । वत्सराजोऽभवच्चैवममन्दानन्दमानसः ॥११॥ ततः कदाचिद्दारिद्र्यविध्वस्ता यमजौ सुतौ । गृहीत्वा शरणं प्रायाद्ब्राह्मणी वत्सभूपतिम् ॥१२॥ विसृष्टान्तःपुरं राज्ञा सा कृपापूर्णचेतसा । न्यस्तेव संपदामङ्गीकृता वास्वदत्तया ॥१३॥ पुत्रीणां बत धन्यासि निजां कथय मे कथाम् । देव्या पृष्टेति सा स्वैरं ब्राह्मणी प्राह निर्वृता ॥१४॥ कृच्छ्रेण महता देवि दारिद्र्यं रक्षितं मया । न हि धर्तुं समायाति शीलं प्रोषितयोषिताम् ॥१५॥ उत्तरस्यां दिशि पुरा जयदत्तोऽभवन्नृपः । देवदत्ताभिधस्तस्य पुत्रो दुश्चरितः कुले ॥१६॥ स राजा पवनालोलकदलीदलचञ्चलाम् । नृपश्रियमिति ज्ञात्वा वणिजां चाक्षयां श्रियम् ॥१७॥ महाधनवणिक्पुत्र्या पुत्रस्योद्वाहमादधे । धनकाञ्चनरत्नौघैः प्राप व्याकोशकोशताम् ॥१८॥ ततः कालेन भूपाले दिवं याते तदात्मजः । स गोत्रशत्रुविजितो जीवशेषो ययौ निशि ॥१९॥ स मात्रा प्रेरितो दुःखाद्गच्छ श्वशुरमन्दिरम् । महाधनः स हि वणिक्त्वां ध्रुवं पूरयिष्यति ॥२०॥ इति मातुर्गिरा गत्वा पुरं पाटलिपुत्रकम् । श्वशुरावसथं प्राप्य न विवेश ह्रिया नतः ॥२१॥ स पान्थसत्रशालायां शयानस्तद्गृहान्तिके । निजजायां ददर्शाथ निशि केनापि संगताम् ॥२२॥ तां चौर्यसुरताकम्पक्कणन्मुखमेखलाम् । दृष्ट्वापि दुर्गतिं ध्यायन्न चकम्पे चुकोप वा ॥२३॥ ततः सा रतिसंमर्दभ्रष्टं हेमविभूषणम् । नाज्ञासीन्मणिताटङ्कं रागान्धः को हि पश्यति ॥२४॥ तद्वज्रमणिसंछन्नं प्राप्य कर्णविभूषणम् । ययौ लक्ष्मीं कृतारम्भो राजपुत्रोऽप्यलक्षितः ॥२५॥ बन्धे निधाय बहुना द्रविणेन तदुत्तम म् । क्रीत्वा तुरङ्गान्राजानं परमेश्वरमभ्यगा(या)त् ॥२६॥ तमुपाश्रित्य बलिनं हत्वा शत्रुगणान्युधि । पित्रुपैतामहं राज्यमवाप विमलद्युतिः ॥२७॥ ततोऽन्यां राजतनयां परिणीय कुलोचिताम् । वणिजः प्राहिणॊत्क्षिप्रं ताटङ्कं दुहितुश्च्युतम् ॥२८॥ तदालोक्येव सा भर्त्रा प्रहितं रत्नभूषितम् । स्मृत्वा दुर्विनयं भीता सहसा पञ्चतां गता । इति विप्रोषितं स्त्रीभिः शीलं दुःखेन रक्ष्यते ॥२९॥ इति देवदत्ताख्यायिका ॥१॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP