संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|नरवाहनजन्मनामा चतुर्थो लम्बकः| जीमूतवाहनाख्यायिका नरवाहनजन्मनामा चतुर्थो लम्बकः देवदत्ताख्यायिका ब्राह्मणीसमागमकथा जीमूतवाहनाख्यायिका सिंहपराक्रमाख्यायिका नरवाहनजन्मनामा जीमूतवाहनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत जीमूतवाहनाख्यायिका Translation - भाषांतर कदाचिदथ दृष्ट्वैव देवी वातायनस्थिता । कुम्भकार्याः सुतान्पञ्च प्रदध्यौ दुःखिता क्षणम् ॥३६॥ अपि पामरनारिभ्यो विधिः पुत्रान्प्रयच्छति । ननु मे मन्दभाग्यायास्तनयावाप्तिसंकथा ॥३७॥ इत्युदश्रुमुखीं देवीं विलोक्य प्राह पिङ्गला । समरश्रीरिव जयं देवि पुत्रमवाप्स्यसि ॥३८॥ रथ्याशूकरतुल्यानां पापिनां बहुलोऽन्वयः । दैवात्तु सत्त्वमहतां जन्म पुण्यवतां क्कचित् ॥३९॥ ब्राह्मणीवचसा किंचिदवाप्ता शोकतानवम् । स्वयं वत्सेश्वरोऽभ्येत्य देवीं चक्रे धॄतेः पदम् ॥४०॥ साथ पुत्रार्थिनी देवमाराध्य तपसा शिवम् । स्मरावतारं तनयं प्राप्स्यसीत्याप तद्वरम् ॥४१॥ स्वप्ने च शुभ्रमहसा जटामण्डलधारिणा । दत्तं दिव्यफलं प्राप्य राज्ञे सर्वं न्यवेदयत् ॥४२॥ अथादत्तशुचिच्छाया गर्भं भूपालवल्लभम् । चन्द्रं क्षीरोदवेलेन जाह्नवीव षडाननम् ॥४३॥ सा व्यक्तदौहृदा चेन्दुमुखी जॄम्भालसंस्थितिः । बभार भग्नत्रिवलीलेखारम्यतरं वपुः ॥४४॥ तस्या दौहृदसंकल्पो बभूवोन्नतिसूचकः । आकाशगमनोत्साहे तस्यामन्यत भूपतिः ॥४५॥ विधाय यन्त्ररचितं विमानं जवनैर्हयैः । व्यधाद्वासवदताया नभःक्रीडारतिं नृपः ॥४६॥ विद्याधरकथाश्चर्यश्रवणे जातकौतुकाम् । यौगन्धरायणोऽभ्येत्य तामाह नृपसंनिधौ ॥४७॥ अवश्यमुन्नताचारसत्त्वं पुत्रमवाप्स्यसि । कुतोऽन्यथा व्योमगतौ शुभाख्याने च ते मतिः ॥४८॥ श्रृणु विद्याधरकथां हर्षपीयूषवर्षिणीम् । भावी कल्याणवसुधे फलितं त्वन्मनोरथैः ॥४९॥ अस्ति साधुमनःस्वच्छास्फटिको हिमभूभृतः । विद्याधराणां वसतिः कैलासो नाम शेखरः ॥५०॥ जीमूतकेतुरभवत्तत्र विद्याधरेश्वरः । वंशे कल्पतरुर्यस्य संपूरितमनोरथः ॥५१॥ जीमूतवाहनस्तस्य पुत्रोऽभूत्सत्त्वसागरः ।यद्यशश्चन्द्रिकाधौतमद्यापि भुवनत्रयम् ॥५२॥ पित्रा दताभिषेकोऽसौ विततार सुरद्रुम म् । हेमवर्षणमर्थिभ्यः करुणापूर्णमानसः ॥५३॥ दत्तकल्पतरोस्तस्य पापा राज्यजिहीर्षवः । विद्याधराधिपास्तस्थुः संहताश्छद्मनिश्चयाः ॥५४॥ जीमूतवाहनो ज्ञात्वा तेषां कुटिलचेष्टितम् । स्वयं शक्तोऽपि तत्याज राज्यं वैरपराङ्मुखः ॥५५॥ स पित्रा सहितं प्रायाद्विरक्तो मलयाचलम् । मरुताण्डवितोद्दण्डश्रीखण्डतरुमण्डलम् ॥५६॥ तत्र निर्झरहुङ्कारिरमणीयशिलातले । आसीनः संददर्शाग्रे दिव्यं सिद्धकुमारकम् ॥५७॥ विलोक्य कौतुकाविष्टस्तं पप्रच्छ महाद्युतिम् । कस्त्वं कस्य सुतो वेति स च पृष्टोऽभ्यभाषत ॥५८॥ विश्वावसोः सिद्धपतेरहं मित्रावसुः सुतः । स्वसा मलयवत्यस्ति मम लावण्यकौमुदी ॥५९॥ जाने विद्याधरेन्द्रं त्वां देव जीमूतवाहनम् । योग्यां तवैव तां मन्ये रतिं रतिपतेरिव ॥६०॥ इति प्रियं वचः श्रुत्वा प्राह जीमूतवाहनः । स्मरामि पूर्वभार्यासौ दयिता तव चेत्स्वसा ॥६१॥ श्रूणु जन्मान्तरकथां ममेमां तत्समागमे । निर्माल्योल्लङ्घनाच्छंभोः पुरा मानुषतां गतः ॥६२॥ महाधनस्य वणिजः संप्राप्तः पुत्रतामहम् । वसुदत्ताभिधानोऽहं विसृष्टो द्रविणार्जने ॥६३॥ पित्रा विन्ध्याटवीं घोरामविशं शबराकुलाम् । तत्र दस्युबलैर्बध्वा नीतोऽहं चण्डिकागृहे । दृष्टः शबराराजेन तद्वन्धाच्च विमोक्षितः ॥६४॥ ततः प्रतिनिवृत्तोऽहं पित्रे सर्वं निवेद्य त्त । स्थितस्तत्प्रत्युपकृतिध्यानस्तिमितमानसः ॥६५॥ ततः कदाचिद्वलिनो राज्ञस्तं वशमागतम् । कृतोपकारं शबरं धनेनाहममोचयम् ॥६६॥ स वधान्मोचितो यत्नात्कृतज्ञः शबरो मया । कन्या पृष्टा मया भद्र प्रतिकर्तुं ममाह च ॥६७॥ ततोऽहं स्वयमुत्तालतमालसरलाकुलम् । नीतः प्रालेयशैलेयच्छायाशबलिताम्बरः ॥६८॥ तत्र यामाह शबरः पुरा दृष्टेह कन्यका । मया मदनमाङ्गल्यमालिकालोचनामृतम् ॥६९॥ सिंहाधिरूढा गौरीव हराराधनसंगता । सोत्सुका धनमभ्येत्य मया त्वत्कथया कृता ॥७०॥ इत्युक्त्वा नलिनीखण्डमण्डितोपान्तमादरात् । सोऽदर्शयत्तदा चारु मम शंभुनिकेतनम् ॥७१॥ ध्रवं शिवार्चनरता न चिरादेष्यतीत्यहम् । ध्यात्वा चिरं स्थितस्तत्र कृतस्नानहरार्चनः ॥७२॥ अथ पञ्चाननारूढामागतां तत्र कन्यकाम् । दर्शितां शबरेणारादपश्यं मन्मथोत्सवम् ॥७३॥ शीतांशुशुभ्रवसनां तारहारकरोज्ज्वलाम् । तुषारशिखरीन्द्रस्य प्रत्यक्षामिव देवताम् ॥७४॥अयाचं तामहं कान्तां पूर्वं रचितसंविदम् । शबरेण कुरङ्गाक्षीमचिरेण मनोवतीम् ॥७५॥ तामादाय ततः कान्तां गत्वा निजपुरीं शनैः । अभजं शबरोपेतः कायं विभ्रमवान्स्त्रियम् ॥७६॥ ततः स सिंहः सहसा भूत्वा विद्याधराकृतिः । उवाच नष्टशापो मे दिष्ट्या युष्मत्समागताम् ॥७७॥ अहं चित्राङ्गदो नाम जवादुल्लङ्घ्य नारदम् । तच्छापात्सिंहतां यातः पुरा विद्याधराधिपः ॥७८॥ इयं मनोवती नाम तनया मम सुन्दरी । तव भार्या चिरं स्पृष्टा धृता केसरिणा मया ॥७९॥ यदा तव सुतां कश्चित्परिणेष्यति मानुषः । तदा विमोक्ष्यसे शापान्मामुवाचेति नारदः ॥८०॥ तदेतन्मुक्तशापोऽहं गच्छामीत्यभिधाय सः । प्रययौ भूषणमणिच्छायाशबलिताम्बरः ॥८१॥ [ ततोऽहमपि कालेन भुक्त्वा मर्त्यसुखश्रियम् । हिरण्यदत्तमासाद्य पुत्रं वंशविवर्धनम् ॥८२॥ ] मनोवतीसखो गत्वा पुण्यं कालंजरं गिरिम् । शबरानुगतो ध्यात्वा शंकरं तनुमत्यजम् ॥८३॥ जीमूतवाहनः सोऽहं कन्या मलयवत्यपि । प्रिया मनोवती सैव शबरस्त्वं स मे सुहृत् ॥८४॥ इति मित्रावसुः श्रुत्वा विद्याधरपतेर्वचः । पित्रे निवेद्य वृत्तान्तं विवाहं विदधे स्वसुः ॥८५॥ अवाप्य सिद्धतनयां मानसोल्लासचन्द्रिकाम् । लावण्यविभ्रममहीं मनोरथशतोचिताम् ॥८६॥ स्मरसंभोगसुभगस्तद्विलासरसाकुलः ।अमन्दानन्दसंदोहं भेजे जीमूतवाहनः ॥८७॥ ततः कदाचिद्विहरन्स मित्रावसुना सह । ददर्श दुःखनिभृतध्यानं फणिकुमारकम् ॥८८॥ स तेन शङ्खचूडाख्यः पृष्टः प्राह भयाकुलः । कद्रूश्च विनता चेति कश्यपस्य प्रिये पुरा ॥८९॥ बालधौ भास्कराश्वानां सितासितविवादतः । पणं दास्याय चक्राते प्रतिज्ञाकृतनिश्चये ॥९०॥ कृष्णबालान्विधायाश्वान्कद्रूपुत्रैर्भुजंगमैः । दास्यं निनाय विनतां व्याजाद्गरुडमातरम् ॥९१॥ तस्या निशम्य दास्यं तत्पीयूषाहरणावधिः । वैनतेयो वहन्नागान्मातुर्दास्यमवारयत् ॥९२॥ जवात्पीयूषमाहृत्य जित्वा शक्रं खगेश्वरः । प्रदाय काद्रवेयेभ्यो दासभावादमुच्यत ॥९३॥ धृतं पीयूषकलशं कुशेष्वभ्येत्य वासवः । जहार तत्क्षणार्द्रांश्च लिलिहुः पन्नगाः कुशान् ॥९४॥ ततो द्विजिह्वतां प्राप्ताः खरदर्भावलेहनैः । विष्णोर्वरात्सुपर्णस्य भक्ष्यतां पन्नगा ययुः ॥९५॥ ततः कुलक्षयभवात्त्वसौ वारेण कल्पितः । नागो वासुकिना नित्यं स वारोऽद्य मम क्रमात् ॥९६॥ इत्याकर्ण्यैव करुणापूर्णो जीमूतवाहनः । अहं तार्क्ष्यं भवद्वेषो गच्छामीत्यभ्यभाषत ॥९७॥ निर्वैरिता विनयता प्रियवादिता च प्राणैरपि प्रणयिनां प्रियपूरणं च । इत्युग्रमोहमदमानविषोल्बणस्य संसारघोरजलधेरमृतच्छटेव ॥९८॥ मित्रावसुं विसृज्याथ व्यपदेशेन सत्वरः । शङ्खचूडं च सत्त्वस्थे वैनतेयशिलां ययौ ॥९९॥तत्र नागास्थिसंघाते निर्यद्भूरिवसाकुले । गरुडागमनाकाङ्क्षी तस्थौ विगतसंभ्रमः ॥१००॥ ततं प्रलयसंभ्रान्तकल्पान्तपवनाकुलम् । [ अकम्पत जगत्तुङ्गतरङ्गोत्तुङ्गसागरम् ॥१०१॥ ] अथादृश्यत मार्तण्डमण्डलोद्दण्डतेजसा । गरुत्मान्काञ्चनमयीः कुर्वन्निव दिशो दश ॥१०२॥ स चण्डचञ्चुचरणाघातविश्लिष्टविग्रहम् । जीमूतवाहनं चक्रे सहसा पतगेश्वरः ॥१०३॥ अभ्रष्टवदनच्छायं तमालोक्य निराकुलम् । धुर्यः सत्त्ववतां कोऽयमिति तार्क्ष्यो व्यचिन्तयत् ॥१०४॥ पृष्टः कोऽसीति वृत्तान्तं स्वयं तस्मै न्यवेदयत् । तुष्टश्च वरदोऽस्मीति तमाह भुजगान्तकः ॥१०५॥ हतानामस्थिभूतानां जीवितं फणिनां ततः । नागाशननिवृत्तिं च सोऽयाचत वरं वरम् ॥१०६॥ पतगेन्द्रे तथेत्युक्त्वा गते सिक्त्वा सुधारसैः । पित्रा मलयवत्या च संगतो बान्धवैरपि ॥१०७॥ विद्याधरैः समभ्येत्य प्रार्थितस्तुहिनाचले । चक्रवर्तिपदं भेजे निजं जीमूतवाहनः ॥१०८॥ श्रुत्वेति राजमहिषि विद्याधरकथाद्भुता । बभूव हर्षसंपूर्णा ध्यायन्ती तस्य चेष्टितम् ॥१०९॥ इति जीमूतवाहनाख्यायिका ॥३॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP