संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|चतुर्दारिकानामा पञ्चमो लम्बकः| शक्तिदेवसमागमकथा चतुर्दारिकानामा पञ्चमो लम्बकः शक्तिदेवसमागमकथा शिवमाधवाख्यायिका हरस्वाम्याख्यायिका शक्तिदेवप्रवहणभङ्गकथा अशोकदत्ताख्यायिका देवदत्ताख्यायिका शक्तिदेवकथा चतुर्दारिकनामा शक्तिदेवसमागमकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शक्तिदेवसमागमकथा Translation - भाषांतर प्रथमो गुच्छः । त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं वेल्लत्कपालाकुलं पायाद्वः श्वसदङ्गदोरुभुजगं चण्डीपतेस्ताण्डवम् । यस्योभ्द्रान्तभुजप्रबन्धवलनावातोत्सलत्सागर - स्फाराम्भःपटलैः पुरं पटमिवासक्तं समातन्वत ॥१॥ अथ हृष्टं महीपालं प्राह यौगन्धरायणः । सुरोचितसुतावाप्त्या देव दिष्ट्या विवर्धसे ॥२॥ रक्षायै तव पुत्रस्य स्वयमेत्य पिनाकिना । नियुक्तः स्तम्भको नाम दुरितस्तम्भको गणः ॥३॥ अवतीर्णं प्रभुं ज्ञात्वा सर्वे विद्याधराधिपाः । वर्तन्ते भवतः सूनोरभिषेकप्रतीक्षिणः ॥४॥ इति नारदनिर्दिष्टं निवेद्यामात्यपुंगवः । विदधे राजपुत्रस्य विद्याविनयसंपदम् ॥५॥ प्रकृष्टानन्तसामन्तमौलिभास्वत्प्रभां सभाम् । अध्यासीनेऽथ नृपतौ हिमवर्षमभून्नभः ॥६॥ ततोऽवतीर्य नभसा सभां विद्याधरोऽविशत् । शक्रचापशतैः कुर्वन्भूषणांशुशतैर्दिशः ॥७॥ गण्डताण्डवितानीलरत्नकुन्तलकान्तयः । मुखेन्दौ चक्रिरे तस्य लक्ष लेखा शशभ्रम म् ॥८॥ श्यामलाकाशखङ्गांशुभूषितः स बभौ मुहुः । अदभ्रमिव बिभ्राणो नीलोत्पलदलस्रजम् ॥९॥ तमागतमभिप्रेक्ष्य विस्मयान्निभृतो नृपः । लोलहारः समुत्तस्थौ संरम्भरणिताङ्गदः ॥१०॥ प्राप्तपूजासने तस्मिन्राज्ञा सह सभासदः । तन्मुखन्यस्तनयना बभूवुर्लिखिता इव ॥११॥ पृष्टः कोऽसीति स प्राह शुभ्रदन्तांशुसंचयः । कैलासवासिप्रीत्येव रचयन्स्फाटिकीं सभाम् ॥१२॥ नेत्रोत्सवं श्रुतिसुखं कल्याणानां च संपदम् । किरन्ति दर्शनालापसंगतानि भवादृशाम् ॥१३॥ शक्तिदेवाभिधानोऽहं देव विद्याधरेश्वरः । कैलासवासस्तत्पूर्वं स्वामिनं द्रष्टुमागतः ॥१४॥ सर्वविद्याभृतामेष चक्रवर्ती भविष्यति । हरप्रसादादाकर्ण्य स्मरः साक्षात्तवात्मजः ॥१५॥ इत्याकर्ण्य सुधाधारसिक्ताङ्ग इव भूपतिः । अदर्शयत्सुतं तस्मै देव्या उत्सङ्गभूषिणम् ॥१६॥ ततः पृष्टो निजकथां भूपालेनाभ्यभाषत । प्रणम्य राजतनयं शक्तिदेवः कृताञ्जलिः ॥१७॥ इति शक्तिदेवसमागमकथा ॥१॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP