संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|चतुर्दारिकानामा पञ्चमो लम्बकः| शिवमाधवाख्यायिका चतुर्दारिकानामा पञ्चमो लम्बकः शक्तिदेवसमागमकथा शिवमाधवाख्यायिका हरस्वाम्याख्यायिका शक्तिदेवप्रवहणभङ्गकथा अशोकदत्ताख्यायिका देवदत्ताख्यायिका शक्तिदेवकथा चतुर्दारिकनामा शिवमाधवाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शिवमाधवाख्यायिका Translation - भाषांतर राजा परोपकारीति वर्धमानपुरेऽभवत् । तस्य हेमप्रभा नाम वल्लभाभूदनङ्गभूः ॥१८॥ कन्या कनकलेखाख्या तस्यां तेन महीभुजा । उपपादि जगज्जैत्रयात्रा लक्ष्मीर्मनोभुवः ॥१९॥ कनकाख्या ननु पुरी दृष्टा येन स मे पतिः । इत्युद्वाहविधौ चक्रे सा व्रतं दृढनिश्चया ॥२०॥ पुत्र्याः प्रतिज्ञां जिज्ञाय प्रौढयौवनसंपदः । अज्ञातां च पुरीं मत्वा नृपः शोकाकुलोऽभवत् ॥२१॥ दृष्ट्वा कनकपुर्याख्या येन लक्ष्मीं सुतां स मे । संप्राप्स्यतीति विदधे नृपः पटहघोषणम् ॥२२॥ न दृष्टा न श्रुता वापि सा पुरीति महीतले । वचो निशम्य लोकानां राजाभूद्भृशदुःखितः ॥२३॥ अत्रान्तरे शक्तिदेवो द्विजन्मा द्यूतकृन्मृषा । भूपालमब्रवीदेत्य मया दृष्टेति सा पुरी ॥२४॥ इति ब्रुवाणं तं राजा नीत्वा स्वतनयान्तिकम् । अनेन पुत्रि सा दृष्टा पुरीति प्राह सादरम् ॥२५॥ क्क वा कथं वा दृष्टेति पृष्टः कनकलेखया । पुरीमकथयन्मिथ्या वर्णनानिपुणोऽथ सः ॥२६॥ असकृद्बहुजल्पोऽयमिति मिथ्यावचः क्रुधा । स तया भ्रुकुटिभ्रान्त्या चेटिकाभिस्तिरस्कृतः ॥२७॥ स निरस्तोऽवमानाग्निप्लुष्टो दुर्गतिपीडितः । कनकाख्यां पुरीं द्रष्टुं प्रययौ कृतनिश्चयः ॥२८॥ तं समुत्सारितं कृत्वा चिन्तासंतापितो नृपः । शुशोच तनयां पश्यन्फुल्लयौवनशालिनीम् ॥२९॥ .......................................... । ............................................ ॥३०॥अवाप्तकन्यकारत्नं पुरोहितमनुस्थितम् । यत्कौसलेन नगरे धनवान्कोक न वञ्चितः ॥३१॥ ततो महाधनं ज्ञात्वा भूमिपालपुरोहितम् । निर्जरे रत्नमालेव कथं दुःखा [च] मे सुता ॥३२॥ किं निरस्तस्त्वया पुत्रि स दृष्टा येन सा पुरी । पितुः श्रुत्वेति सा प्राह कन्या कमललोचना ॥३३॥ धूर्तः स कितवो देव न तत्त्वं किंचिदुक्तवान् । साधुभ्रान्त्या हि मुष्णन्ति धूर्ताः सरलवञ्चकः ॥३४॥ पुरा रत्नपुरे धूर्तावभूतां शिवमाधवौ । उज्जयिन्यां पृथग्वेषौ जग्मतुर्वञ्चनोद्यतौ ॥३५॥ पूर्वं शिवः समभ्येत्य स्वैरं दम्भव्रतं श्रितः । शिप्रातीरे जपरतस्तस्थौ विश्वासयञ्जनम् ॥३६॥ विभृष्टराजवंशेन धूर्तश्च स हि माधवः । तं पुरोहितमभ्येत्य दत्तोपायनमभ्यधात् ॥३७॥ त्वया सौहार्दमाधाय सेवे राजानमुत्तम म् । इति शंकरदत्ताख्यः श्रुत्वा वाचं पुरोहितः ॥३८॥ अहं स्वदेशविभ्रष्टो राजपुत्रो महाधनः । तथेत्युक्त्वास्य विदधे राजसिंहेन संगम म् ॥३९॥ सेवमानो नरपतिं पुरोहितगृहस्थितः । स कदाचिदनिर्देश्य रोगान्मिथ्यातुरोऽभवत् ॥४०॥ अस्वस्थमथ विज्ञाय दुःखाक्रान्तः पुरोहितः । पुनः पुनः समभ्येत्य तमपृच्छदनामयम् ॥४१॥ सोऽब्रवीद्राजयोग्यं मे विद्यते रत्नभूषणम् । पात्रमानय यस्मै तद्दत्त्वा यास्यामि सद्गतिम् ॥४२॥ यियासोः पञ्चतां पुंसः सुहृदां भिषजां पुरः । दीर्घान्धकारे पततो दानमेव परा गति ॥४३॥ इत्याकर्ण्य वचस्तस्य सरलात्मा पुरोहितः । आनिनाय बहून्विप्रान्स च तान्नाभ्यमन्यत ॥४४॥ ततः शिप्रातटस्थं तं जपव्रतपरायणम् । पुरोहितः शिवं गत्वा प्राह मित्रमनोगतम् । किं धनैरगृहस्थस्य मामेत्यामीलितेक्षणम् ॥४५॥ अथोपपत्तिवचनैस्तमभ्यर्च्य पुरोहितः । प्रियां पुत्रीं प्रदायास्मै प्रतिग्रहमदापयत् ॥४६॥ माधवस्तद्गिरा तस्मै काचकृत्रिमभूषणम् । प्रतिपाद्याभवत्स्वस्थो मूर्तां मायामिवात्मनः ॥४७॥ विक्रीणानन्ततो ज्ञात्वा प्राह जामातरं शिवम् । पुरोहितो न कालेऽस्मिन्योग्यस्ते रत्नविक्रयः ॥४८॥ गृहाण मे धनं सर्वं मय्येवार्पय भूषणम् । इत्युक्त्वा तौ परावृत्तिं धनलेखं न चक्रतुः ॥४९॥ शिवस्तद्धनमादाय माधवेन सहानिशम् । प्रमोदं प्राप्य संभोगसुधासंसिक्तमानसः ॥५०॥ पुरोहितोऽपि कालेन क्रीतकृत्रिमभूषणः । जितः स्वहस्तलेखेन विवादे भूपतेः पुरः ॥५१॥ त्वया व्याजादिदं दत्तमिति पृष्टः सभासदैः । माधवोऽप्याह दत्तं यत्तत्फलं समुपेष्यति ॥५२॥ इति भ्रमन्ति कूटेन धूर्ता वञ्चयितुं जनम् । कस्तेषां हि वशे धीमान्विश्वासं याति मायिनाम् ॥५३॥ इति शिवमाधवाख्यायिका ॥२॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP