रूपलताख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उक्त्वेति तस्यां यातायां व्योम्नादाय निजां सुताम् ।
गोमुखः प्राह धैर्याब्धेः कोऽयं ते मतिविभ्रमः ॥५३॥
एकैव शर्वरी मध्ये स्थिता ते तत्समागमे ।
एवंविधां विक्रियां किं यातोऽस्यत्रैव मे श्रृणु ॥५४॥
पृथिवीरूप इत्यासीत्प्रतिष्थानपुरे नृपः ।
अनङ्गतां स्मरो भेजे मेने यत्कान्तिनिर्जितः ॥५५॥
स नानादेशसंचारचतुरैः सद्यभिक्षुभिः ।
शुश्राव वर्णितां कान्तां मुक्ताद्वीपपतेः सुताम् ॥५६॥
राज्ञो रूपधराख्यस्य पुत्रीं रूपलताभिधाम् ।
श्रुत्वा ययाचे दूतेन सोऽथ दूरनिवासिनः ॥५७॥
मिथश्चित्रपटाकारदर्शनाज्जातमन्मथम् ।
नृपः पुत्रीं च विज्ञाय रम्यं रूपधरोऽवदत् ॥५८॥
दूतं मद्वचसा गत्वा राजानं तूर्णमानय ।
पृथिवीरूपमस्या मे स पुत्र्याः सदृशः पतिः ॥५९॥
इति तेन समादिष्टो दूतः संकल्पशीघ्रगः ।
समुत्तीर्याम्बुद्धिं प्राप्य प्रतिष्ठानपुरोत्तम म् ॥६०॥
मुक्तापुराधिनाथेन दत्ता रूपलता सुता ।
स्वयमेहीति दूतस्तं क्षितिपालं व्यजिज्ञपत् ॥६१॥
ततः प्रतस्थे नृपतिर्गजवाजिरथाकुलः ।
अब्धिद्वीपं परिणयश्रिये श्रीपतिसंनिभः ॥६२॥
स व्रजन्नटवीं प्राप्य शबरीरणकर्कशान् ।
जघान बाणजालेन निहतानेककुञ्जरान् ॥६३॥
समुद्रतटमासाद्य स पुत्रपुरभूभुजः ।
उदाराचरिताख्यस्य गृहे विश्रम्य पूजितः ॥६४॥
समारुह्यानुकूलेन प्रेरितं मातरिश्वना ।
महत्प्रवहणं राजा राजकानुगतो ययौ ॥६५॥
कालेन जलधिद्वीपे प्राप्य मुक्तापुरं नृपः ।
ददर्श मुक्तास्मेरां स राजधानीं मनोरमाम् ॥६६॥
प्रत्युद्गतेन विधित्वत्पूज्यमानोऽथ सादरम् ।
राज्ञा रूपधरेणासौ विवाहवसुधां ययौ ॥६७॥
ददर्श राजतनयां तत्र रूपलतां नृपः ।
अङ्गव्ययादनङ्गस्य शक्तिं मूर्तिमतीमिव ॥६८॥
परिणीयेन्दुवदनां तामायतविलोचनाम् ।
हृष्टः प्रवहणेनैव पुनरुत्तीर्य सागरम् ॥६९॥
प्रतिष्ठानपुरं प्राप्य तामग्रमहिषीपदे ।
अभिषिच्य मनोजन्मसंभोगसुभगोऽभवत् ॥७०॥
इति रूपलता राज्ञा तेन सत्त्वोदितेन सा ।
प्रायाद्विद्याधरसुतां त्वमप्येवमवाप्स्यसि ॥७१॥
इति रूपलताख्यायिका ॥२॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP