लुब्धाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
गोमुखेनेति कथिते सुहृद्भिर्नरवाहनः ।
निरर्गलकथासक्तो न््द दयितासखः ॥२४६॥
ततो नर्मकथाबन्धे हसन्हरिशिखोऽब्रवीत् ।
मरुभूतिरयं देव साक्षाल्लोभः किमुच्यते ॥२४७॥
वृत्तिं सांवत्सरीं योऽयं भृत्यानां मीलितेक्षणः ।
करोति पाठमौनानां मौनमश्ममयो यथा ॥२४८॥
उक्ते हरिशिखेनेति गोमुखः प्राह सस्मितः ।
नर्महासविलासो हि गोष्ठीष्वमृतनिर्झरः ॥२४९॥
देव लुब्धा भवन्त्येव तथा च क्षितिपोऽभवत् ।
चिरदाता यथार्थेन नाम्नैव कथिताशयः ॥२५०॥
प्रसङ्गोऽर्थमुखश्चेति तस्यासन्सेवकास्त्रयः ।
तेषामवृत्तिक्षुण्णानां प्रययुः पञ्च वत्सराः ॥२५१॥
दारिद्र्यदुःखाद्राजानं सदा याचितुमुद्यतौ ।
प्रसङ्गाख्येन कालोऽयं नित्यन्यौ विनिवारितौ ॥२५२॥
अत्रान्तरे नृपसुते बाले दैवाद्दिवं गते ।
प्रसङ्गोऽभ्येत्य शोकार्तं नरनाथं व्यजिज्ञपत् ॥२५३॥
देव यातः सुविपुलं कालस्त्वत्पादसेवनम् ।
अस्माकं कर्मबन्धेन केनापि हतसंपदाम् ॥२५४॥
नृपाद्वर्षशतेनापि नैवास्मादस्ति नः फालम् ।
एतत्सुतो दास्यतीति बद्धोऽस्माभिर्मनोरथः ॥२५५॥
सोऽद्य बालस्तव सुतो नीतोऽस्मद्भाग्यसंक्षयात् ।
दैवेन त्वदनुज्ञाता गच्छामः स्वस्ति ते प्रभो ॥२५६॥
इति तद्वचनेनासौ वृद्धः शोकाकुलो नृपः ।
ददौ तेभ्यो बहुधनं पुत्रकीर्तनमोहितः ॥२५७॥
इत्यादि गोमुखेनोक्तं मरुभूतिविडम्बनम् ।
श्रुत्वा जहास मुदितो राजपुत्रः प्रियासखः ॥२५८॥
इति लुब्धाख्यायिका ॥१०॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP