वत्सेश्वरभृगुपतनकथा
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
श्रुत्वेति गोमुखवचो मधुलक्ष्मीं विलोकयन् ।
ललास दृष्टिचषकैः पिबन्मदनमञ्चुकाम् ॥२३॥
ततो निशि निशाकान्तकान्तिसंताननिर्झरैः ।
पूरिते भुवनाभोगे स सुष्वाप प्रियासखः ॥२४॥
स चन्द्रकान्तपर्यङ्के शशीव निजमण्डले ।
रतिश्रमोन्मिशन्निद्रः स्वप्नेऽनिष्टं व्यलोकयत् ॥२५॥
विबुद्धः शङ्कमानोऽथ पितुर्दैवपराभवम् ।
स लेभे न पुनर्निद्रां विरक्तामिव योषितम् ॥२६॥
चिरं चिन्तयतस्तस्य शोकाग्निव्याप्तचेतसः ।
नवोढेवाविदग्धस्य धृतिर्दूरतरं ययौ ॥२७॥
मैत्रीव साधुशीलानां स्त्रीणां परकथेव च ।
सा तस्य शर्वरी शोकात्प्रययौ दीर्घदीर्घताम् ॥२८॥
प्रातर्विसृष्टा प्रज्ञप्तिविद्या तेन तदीक्षितुम् ।
प्राह तत्सेश्वरोदन्तं तूर्णमेत्य नभश्चरी ॥२९॥
याते चन्डमहासेने सभार्ये कीर्तिशेषताम् ।
विधाय पालकं वीरं तत्पदे क्षितिपालकम् ॥३०॥
गोपालकं निवेश्याशु भ्रूभङ्गेनात्मनः पदे ।
कालंजरभृगूत्सङ्गे दिवं वत्सेश्वरो ययौ ॥३१॥
स दिव्यपुरुषादिष्टं गत्वा यौधिष्ठिरं पदम् ।
भेजे ययातिशर्यातिहरिश्चन्द्रेन्द्रतुल्यताम् ॥३२॥
भ्रूभङ्गेन विवासिता रिपुवधूभ्रूभङ्गलीलाश्रमा
दृष्ट्वा श्रीः स्वयमर्पिता स्वसुहृदां मत्तेभकुम्भस्तनी ।
देवीभ्यां विहृतं हुतं द्विजमुखे नित्यं स्मृतः शंकर
कर्तव्यं स्पृहणीयमन्यदुचितं शेषं किमस्त्यायुषः ॥३३॥
उक्त्वेति देवं कामरिं ध्यात्वा विगलिताग्रहः ।
धैर्येण सह पौराणां प्रययौ पौरवत्सलः ॥३४॥
चन्द्रार्धमौलिविहितस्तुतिगीतिकाङ्का -
मङ्के निधाय स तथाभिमतां विपञ्चीम् ।
देवः प्रियाग्रचरमित्रकृतानुयात्रः
सोऽस्ताचलादिव सहस्रकरः पपात ॥३५॥
तस्मिंल्लोकत्रयीनेत्रशतपत्त्रावलिप्रिये ।
यातेऽस्तं जगतां मित्रे शोकान्ध्यमभजन्प्रजाः ॥३६॥
इति वत्सेश्वरभृगुपतनकथा ॥२॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP