संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| चौराख्यायिका सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम चौराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चौराख्यायिका Translation - भाषांतर पुरायोध्याधिनाथेन भूभुजा वीरबाहुना । वीरचर्यार्पसक्तेन प्राप्तश्चौरो महार्थहृत् ॥१७४॥एकचारी स निहतः शूलेन गरशूलहृत् । दृष्टः पूर्वं वणिक्पुत्र्या रामदत्ताख्यया पुरा ॥१७५॥ सा निबद्धा दृढस्नेहा दृढबन्धानुरागिणी । दुर्गोपहारमात्मानं तं विना कर्तुमुद्ययौ ॥१७६॥प्रसन्नवत्सला देवी प्राह तामथ पार्वती । मा कृथा साहसं पुत्रि स चौरो गुलिकाधरः ॥१७७॥ विद्याधरी पूर्वभार्या तस्य त्वं हृदयप्रिया । शापः क्षीणोऽद्य युवयोर्भज विद्यां कुल्चिताम् ॥१७८॥इति देवीवरात्प्राप्तविद्या गत्वा च सा निशि । अजीवयत्स्थितं शूले चौरं प्रक्षीणकिल्बिषम् ॥१७९॥ततो विद्याधरपदं प्राप्य तौ बभतुर्दिवि ।इति नीचदशां यान्ति खेचरा अपि कारणात् ॥१८०॥इति चौराख्यायिका ॥६॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP