मल्लपुराणम् - एकादशोऽध्याय: ।
१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.
कथयाम्यन्यश्रवणं रमणीकमनुत्तमम् ।
तथाक्रमं प्रकुर्वीत मल्ल: पश्चविद्या अपि ॥१॥
अस्थिसारो मांससारो मेदसारस्तथैव च ।
तथास्थिमांससारश्च चतुर्थक: प्रकीर्तित: ॥२॥
तथास्थिमेदसारोपि पश्चम: (मश्च) प्रयुज्यते ।
पश्चानां गुणभेदानां भिन्नभ्रमणिका स्मृता ॥३॥
कथयिप्यामि विधिबधो यथा तं करिप्यति ।
क्रमात्वय: समारख्याता: पूर्वसूरिभिरेख च ॥४॥
प्रयस्य क्रमोतिक्रमो धारणांक्रमेति स्मृत: ।
दोपचयस्तनोवातकफपित्तसमं (स्य सं ) भव: ॥५॥
तत्रास्थिसारमल्लेन पित्तसारेण तेन तु ।
प्रशस्तकमपूर्व तु कर्तव्या भ्रमाणिका सदा ॥६॥
मांससारेण वातेन संयुक्तेन यथा क्रम: ।
इति क्रमभ्रमणिका कर्तव्या सुम्बमिच्छता ॥७॥
तथैव भेदसारेण कफवातयुतेन ते ।
सदा गौणितककटिप्राणसंप्राणमेव च ॥८॥
पवनस्य जयश्चैव एतदष्टगुणं स्मृतम् ।
मल्लानां विजयकरं तम्मादेवत्नमम्ययेत् ॥९॥
अष्टधा भवति प्राणं बाहुप्रेगणिकश्रमात ।
तलहस्तभवं प्राणं गुजप्राणं तथैव च ॥१०॥
स्काल्पप्राणसुरप्राण्म भुजणिर्पभयं तथा ।
जानुषानं कटिप्राणं रोपनं नवपादयो: ॥११॥
उर्ध्वस्थायिकमेवैतत् प्राण एकादशात्मक: ।
अत: सर्वप्रकारेण श्रममेव सदाभ्यसेत् ॥१२॥
ऊहापोहस्तु कर्तव्य प्रतिमल्लसमागमे ।
यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥१३॥
ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।
कथं च धारय्यिप्यामि कथं स्थाप्यामि वा पुन: ॥१४॥
कथं च धारायिप्यामि गमिप्यामि च वा कथम् ।
गृह्यते वा कथं ह्येप रक्ष्यते वा कथं पर: ॥१५॥
कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।
गुरुगोणितकाभेदा श्रेष्ठा सप्तदशापि वा ॥१६॥
तानहं कथयिप्यामि यथायोग्यां तथाबलम् ।
प्रथमं च नमस्कृत्य कक्षाया जानुसभवम् ॥१७॥
घ्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।
तथैव कुक्षिजानुभ्या तले कृत्वा विधारणम् ॥१८॥
घृतेनापि वशं तिष्ठेत्ततो याति तथा पुन: ।
उरसा धारणं तस्मात्ततो दण्डविधारणम् ॥१९॥
पुनश्चैव तु जानुभ्या तले हस्तविधारणम् ।
पुनरुत्तिष्ठविंशति यथाशक्त्या समभ्यासेत् ॥२०॥
ध्रियते वाड् घ्रिजानुभ्या लोलयेच्च पुन: पुन ।
धारणं तलपादाभ्या तथैव च पुन: क्रमात् ॥२१॥
अथ धारयकन्ये (स्यै) व स्थानानि परिपूरयेत् ।
शिरसा धारणं चैव शिरसो हननं तत:॥२२॥
बाहुचालनमेवोक्तं चरणग्राहणमेव च ।
पदस्य संधिग्रहणं करसंधिस्तथैव च ॥२३॥
सर्वाडे चालनं चैव भेदा: सप्तदश स्मृता: ।
गुरुगोणिताभ्यां चैव वर्धते प्राण उत्तम: ॥२४॥
एकोनविशत्यधिकं कथ्यतेऽथ यथा शृणु ।
जडाप्राणू (ण) मुर:कण्ठप्राणं च उत्तमम् ॥२५॥
सर्वाडस्थानसंभूत जायते प्राणमष्टधा ।
इति ज्ञात्वा च सततं सादरं च समभ्यसेत् ॥२६॥
मयात्वेवं समाख्याता: सर्वे विजयहेतवे ।
त्रय: पीडनका भेदा: कथिता मल्लकर्मणि ॥२७॥
तलहस्तविधारणं कक्षाधारणमेव च ।
भुजसंधिधारणं च त्रय: पीडनकेऽधमा: ॥२८॥
गुणा भवन्ति ये चान्ये शृणु तान् कथितान् मया ।
प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात् ॥२९॥
कक्षाप्राणं च भवति प्राणं च्द करसंधिजम् ।
तलहस्तभवं प्राणं पादप्राणं भवत्यपि ॥३०॥
इति पीडनिकाभ्यां च दृढप्राणं चतुष्टयम् ।
प्राणपद्मं गदाभ्यसात् कर्तुर्भवति सर्वदा ॥३१॥
तलहस्तप्राणं चात्र भुजप्राणं तथा पुन: ।
योवा छोटनकाभ्यासात् प्राणत्रयसमुद्भव ॥३२॥
तलहस्तभवं प्राणं पोवाप्राणं तथैव च ।
भुजप्राणं तथैवात्र सदा तेन समाम्यसेत् ॥३३॥
मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।
चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात् ॥३४॥
जहाप्राणं च प्रथमं कटिप्राणस्तथैव च ।
जितश्वामध्य भवति हृदयं दृढमेव च ॥३५॥
कडुका (कुण्डक) वर्तानाभ्यासात् सदा तेन समाचरेत् ।
कर्करश्रमकायोगात्प्राण चैव चतुर्विधा (धम्) ॥३६॥
जडाप्राण कटिप्राण लघु तन भवत्यपि ।
पदनस्य जयश्चेव अर्थश्च जायते सदा ॥३७॥
तेन तत्सर्वदा कुर्यात्कर्करश्रममुत्तमम् ।
प्राणाव्दयं जलाभ्यासात्कर्तुर्भवति निश्चितम् ॥३८॥
भुजप्राणमुर प्राण सर्व तेन समाचरेत् ।
सोपानरोहणे चेव प्राणत्रयमुदाहृतम् ॥३९॥
भोजनार्धभ्रमात्पुसा त्रिविध प्राणमेव च ।
जायते सर्वसामान्य तथैव च समाचरेत् ॥४०॥
पश्चदशाविधानोपि श्रमे प्राणसमुद्भव ।
एव रडसमभ्यासात्प्रशमो जायते तनु ॥४१॥
तेन सर्वश्रमाणाअ तु ज्येष्ठी रडश्रमोधिक ।
इति ज्ञात्वा गुणान्सार्वानुत्तमा गुणहेतव ॥४२॥
मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।
अष्टो गुणा भवन्त्येते शृणु वा कथयाम्यहम् ॥४३॥
श्वासहरा वृध्दिकरा तथा श्रमहरापि च ।
मेदोहरा प्राणकरा सुशरीरकरापि च ॥४४॥
तथोत्करकरौ चैव तथाप्यायनकरापि (च) ।
देयास्थिमाससारस्य भीमसेनी च मर्दनी ॥४५॥
त्वक् रुधिरमासमेदपर्यन्तेनाभिसयुता ।
गुणा सप्त भवन्त्यत्र स्फुट ते कथयाम्यहम् ॥४६॥
निद्रा करोति प्रथम तथा तेज करोति च ।
शौर्यकरा दीपनी च अडंशुध्दिकरेति च ॥४७॥
कुरुतेऽत्यन्तशोभा च मनस्थिरकरा तथा ।
भीमसेनी च दातव्या माससारस्य मर्दना ॥४८॥
त्वग् रुधिरमांसपुष्टस्य लघुसारेण वर्ध्दयेत् ।
करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥४९॥
उत्साह क्रुरुते चाशु तथा हादं करोति च ।
सुखं कर्रोति परमं लाघव क्रुरुते परम् ॥५०॥
मेधा ददाति परमां तन्द्रां च हरयेत्सदा ।
एवं सा कुरते भद्र श्वाससारस्य मर्दना ॥५१॥
तेन सर्वैस्तथा सेव्यो मल्लै: सर्वाडसिध्दये ।
तथा मासास्थिसारस्य लघ्वी देया च मर्दना ॥५२॥
त्वग् रुधिरपुष्टिकरा प्रजाहादप्रदायिनी ।
चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥५३॥
कायाशोधकरा चैव कायामार्दवकारिका ।
मर्दनाय परा नास्ति कार्या सौप्ठवकारका ॥५४॥
अस्धिगता मासगता तथा मलगतापि वा ।
श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥५५॥
प्रथमा भीमसेनी च तथा नारायणी परा ।
तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥५६॥
चेत प्रकरा चैवेयं कथिता कैटभारिणा ।
प्रथमा चरणे देया व्दितीया जानुनि न्यसेत् ।
तृतीया च करे देया मसृणी पट्टके तथा ।
पुनश्चतुर्विधा देय व्दात्रिंशद्गुणकारिका ॥५८॥
तथा त्रयोदशगुणैहेतुभिनामदोहरा ।
श्रमहरा तथा वातहरा च कफहारिणी ॥५९॥
अग्निकरा वृध्दिकरा तनुविस्तारकारिका ।
काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥६०॥
इत्यास्थिता त्रिदाशधा कथिता मर्दना मया ।
कष्ठ हरन्ति नि: शेषजडत्वं यात्यसंशयम् ॥६१॥
श्रमवानसि वातीति मांसस्य मर्दको भवेत् ।
भीमसेना च मल्लानां देवा (या) नारायणी शृणु ॥६२॥
चित्रिणी बालवृध्दानां तैलाभ्यडेपु मर्दनी ।
भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥६३॥
धातुपश्चाकपर्यन्तं जानुपादविमर्दना ।
सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥६४॥
करस्तु केवलं यत्र दद्यात्त्वमांसमर्दना ।
सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधै: ॥६५॥
तैलाभ्यडे पटे नैव मसृणी त्वक् व विमर्दना ।
इति विशेषतो युक्ता मर्दना लोकसंमता ॥६६॥
ज्ञात्वैतां च बहु शृणु चतुर्नामसमन्विताम् ।
या यस्य रोचतेऽत्यन्तं तां तस्य कारयेध्ध्रुवम् ॥६७॥
व्यायाम: कफनाशाय वातनाशाय मर्दनी ।
स्नानं च पित्तनाशाय तेन मल्ला महाबला: ॥६८॥
N/A
References : N/A
Last Updated : December 31, 2017
TOP