मल्लपुराणम् - अष्टादशोऽध्याय: ।
१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.
कथितान्यडस्थानानि पडवाडे भवन्ति हि ।
मुखग्रीवाकरो (र) युग्मं चरणाग्रे तथैव च ॥१॥
पटूप्रकाराणि कथ्यन्ते विज्ञानानि यथा शॄणु ।
विज्ञानैश्च प्रवर्धन्ते पौरुषं विभवो गुणा: ॥२॥
कचिदोजयविज्ञानं कचिद् बहणिना भवेत् ।
कचित्प्राणेन विज्ञानं ओजो बहणिजा भवेत् ॥३॥
कचिदोजसा प्राणेन विज्ञानं जायते कचित् ।
पट् प्रकरेण विज्ञानं रक्षणीयं प्रयत्नत: ॥४॥
प्रवर्ध्दते येन यशो लभ्यन्ते विपुला श्रिय: ।
कचिदोजस्य विज्ञानं रक्षणीयं प्रयत्नत: ॥५॥
प्रवर्धते येन यशो जयो भवति सर्वदा ।
कचिव्दहणिना ज्ञानं कचित्प्राणेन संतमम् ॥६॥
ओजो वहणिना वापि ओजो प्राणेन वा कचित् ।
ओजो प्राणवहणिना कचिज्जानं समादिशेत् ॥७॥
सोमेश्वर यथा शक्त्वा कुरु युध्दमनेकधा ।
सर्ध्द देवेन हरिणा मल्ल एश्यन्ति पार्श्वगा: ॥८॥
ततो युध्दं समारबधं ताभ्यां तु विधिपूर्वकम् ।
जटाबन्धनमादौ च तो चातनकग्रहम् ॥९॥
कच्छाबन्धपरत्व च ततो रडंनमस्त्रियाम् ॥१०॥
समं चास्फोटनं तत्र ततो बलप्रवर्धनम् ।
समोन्नतं च लीनं च चलस्थानं चतुर्विधम् ॥११॥
समस्थानं च विदितं येन युध्दे जयो भवेत् ।
धाता: पट् त्रिंह्सदुभयोस्ताला: पश्च प्रकीर्तिता: ॥१२॥
स्कन्धास्फोतनमन्योन्यं चरणयो: कर्पणं तथा ।
तथा विघातनं पश्चाद्रामणं प्रेरणं तथा ॥१३॥
घातनं चालनं चैव लागनं च परस्परम् ।
कक्षाघातस्य विद्याश्च प्राणघातस्तथैव च ॥१४॥
व्दादशस्थानके चैव कथितं च प्रवेश (क) म् ।
अन्यैश्च विविधोपायै: संकल्पितविकल्पितै: ॥१५॥
स्थानकं च शरीरोपि लागो भारस्तथव च ।
अश्रुकस्य बुधैश्चैव धारणं रुधनं तथा ॥१६॥
कार्येषु बलदा नित्यं मल्लानां च जयप्रदा ।
इत्युक्त्वा (क्त्वा) भगवानकृष्णो योगमायामनुस्मरन् ॥१७॥
ततो देवै: पुप्पवॄष्टिर्निर्मुक्ता हर्षसंयुत: ।
विप्रैर्जय जय शब्दैर्बलभद्रं च पातयत् ॥१८॥
बलभद्रश्च कुपितो दुर्जेयो बहु सडरे ।
करिप्यामि तपो घोरं वने गत्वा विनिर्गत ॥१९॥
तत: सर्वेपि गल्लाश्च कृष्णश्च विनयान्वित: ।
बलभद्रमतिक्रुध्दं संबोधयितुमुद्यत: ॥२०॥
न त्वं जितो प्रलम्बने मुष्टिकेन न सडरे ।
भामेव मल्लविद्याया: प्रभाव: परमो हि स: ॥२१॥
देवैर्दैत्यैर्मनुप्यैस्त्वमजेयो रिपुसडरे ।
माहेश्वरी वैष्णवी च ब्राह्मी शक्तिर्विनिर्मिता ॥२२॥
ततो मल्लैश्च कृष्णेन सामवाक्यै: सुसान्त्वित: ।
बलभद्रो रद्रभूमौ समानीय प्रवेशित: ॥२३॥
मल्लानागपि सर्वेषां विप्राणां चैव शृण्वताम् ।
तत: कृष्णेन संतोषादुकं मधुरया गिरा ॥२४॥
सोमेश्वर त्वया भ्राता पातितो हृचिरादयम् ।
असाध्या श्रवणेनपि मल्लविद्या वशीकृता ॥२५॥
फलमस्मात्त्वयावाप्तं समग्र च विनिश्चितम् ।
ततश्चाहं प्रसन्नोस्मि वाच्छितं च वरं शृणु ॥२६॥
सोमेश्वर उवाच -
यदि संतुष्टोसि भगवन् वर देहि यथेस्थितम् ।
श्रमं च भवता सार्ध्द कर्तुमिच्छमि सांर्पतम् ॥२७॥
भवत: शरीरसंपर्कात्पवित्रोहं जगत्त्रय।
एवमस्व्तिति कृष्णेन समुद्दिष्टं सुदर्शनम् ॥२८॥
तत: सोमेश्वर: कृष्णो दत्त्वा स्फालनकं तत: ।
प्रभावयुक्तं विज्ञाय आत्मानं समदर्शयत् ॥२९॥
बलं चाप्रमितं दत्त्वा शरीरस्य प्रभावत: ।
प्रकारं मल्लविद्याया दत्त्वा पुनर्जगाद ह ॥३०॥
श्रीकृष्ण उवाच -
त्वया यद्यत् कृतं कित्चित्सोमेश्वर तदुत्तमम् ।
सोमेश्वर भवेत्सत्यं समस्तैर्ब्राह्मणै: सह ॥३१॥
चातुर्वर्ण्यस्य मध्ये तु त्वं प्रधानो भविप्यति (सि)।
सोमेश्वर उवाच -
स्वामिन् त्वया*हं स्वर्गमस्मान् क: पालयिप्यति ॥३२॥
श्रीकृष्ण उवाच -
फायेषु वलदा नित्यं मल्लानां च जयप्रदा ।
इत्युक्तो भगवान् कृष्णो योगमायामनुस्मरन् ॥३३॥
ऊर्ध्वदर्शेक्षणा देवी लिमवृक्षे स्थिता दधौ ।
तेजोमण्डलमध्यस्था भ्राजमानाऽभितप्रभा ॥३४॥
चतुर्भुजायुधै: पूर्णा सिंहवाहनसंयुता ।
सोमेश्वर इमां पश्य निम्बवृक्षसमाश्रिताम् ॥३५॥
इयं मदीया शक्तिर्निम्बजा इति नामत: ।
अस्या: स्थानं प्रकर्तव्यं रम्यं विचित्रधातुभि: ॥३६॥
मनोहरं च लोकानां प्रेक्षणीयं महाद्भुतम् ।
स्थापनीया प्रयत्नेन स्थानेस्मिन् निम्बजा सदा ॥३७॥
जयदा सर्वमल्लैस्तु पूजनीया त्वहर्निशम् ॥
श्रमकाले च संग्रामे रडंभूमौ विशेषत: ॥३८॥
आपाढकेऽन्यसंयोगे शक्तिं तु निम्बजां स्मरन् ।
जयं लभेन्न संदेहो यथाशक्ति यथामति ॥३९॥
जय: प्रसादं दशाशेन शक्ति: सेव्या प्रयत्नत: ।
बलिपूजोपहारैश्च होर्मैधूपै: सपुप्पकै: ॥४०॥
सेव्या च प्रत्यहं तस्या: कार्य मलैश्च दर्शनम् ।
नमस्कारस्तुतिश्चैव कार्या वादित्रसंयुता ॥४१॥
शक्तिरेपा सदा लोके जयदा बलदा भवेत् ।
रक्षणं सर्वविघ्रेभ्य: करिप्यति न संशय: ॥४२॥
सोमेश्वर उवाच -
लोके भवन्त्यघमाश्च मल्लान् बूहि मभाग्रत: ।
श्रीकृष्ण उवाच-
निम्बजा च गुरुं चैव मल्लान् वा उत्तमास्तथा ॥४३॥
ते भवन्त्ये (न्त्यु) तमा मल्ला नात्र कार्या विचारणा ।
न भजन्ति व्दिपन्ति च न कुर्वन्ति व्दिजास्तथा ॥४४॥
गुरवश्चैव ते मल्ला गुणदोपविवर्जिता: ।
निम्बजां नैव मन्यन्ते मल्लन्निदन्ति तत्पथ: ॥४५॥
गुरोरभापणं ये वै कुर्वन्ते वैऽद्यमातता: ।
भेदं कृत्वा च युध्द्येत उपायैर्विविधैरपि ॥४६॥
निन्दां य: कुरुते नित्यं विघ्रं तस्य प्रजायते ।
अन्योपि मल्लविद्यायां य: करिप्यत्परं दरम् ॥४७॥
प्रसहस्तेन पापेन स नरो भयरो (दो) भवेत् ।
मया ग्रामोद्य प्रक्षन्ति मल्लविप्रेभ्य एव च ॥४८॥
पश्चोत्तरं पश्चत्तरं पश्चशतं सर्वेभ्यो धर्मनिमित्तानि ।
दत्त्वा व्दादश गोत्राणि स्थिरीकृतानि सदा मया ॥४९॥
प्रथमं गर्गगोत्रं स्याव्दितीयं पिप्पलायनम् ।
१ ऊँ र्ही निम्बजायै जयध्दात्र्यै नम ।
तृतीय भार्गवं विद्यात्तदौपेतं चतुर्थकम् ॥५०॥
पश्चमं गौतम चैव पष्ठ चैव तु तैतिरम् ।
सप्तमं चैव वासिष्ठ शाण्डिल्यं चाष्टमं स्मृतम् ॥५१॥
धृताशि नवमं प्रोक्तं छायाशि दशमं स्मृतम् ।
भारव्दाजमेकादशं काश्यपं व्दादशं स्मृतम् ॥५२॥
उदीचिज्ञातिसंभूतं गोत्रं काश्यपमेव च ।
बाडोतं गर्गगोत्रं स्याध्दूपा च पिपलायनम् ॥५३॥
आपस्तम्भं च केलातं भार्गवं वैहलं तथा ।
ठाकरियं गौतमं च वदेर तैतिरं तथा ॥५४॥
ब्राह्माणिय वासिष्ठं च मण्डेणा माडल्यं तथा ।
नवरडा शाण्डिल्यं च चमाल धृताशि तथा ॥५५॥
स्थापिता पुरा देवेन मल्लाना गुरव: स्मृता।
यावन्मही सागराश्च यावचन्द्रादिवाकरौ ॥५६॥
तावत्तिष्ठन्ति मेदिन्यां पालनीया महात्मभि ।
मया च दत्तवान्मौनान्मायादेवालय स्मृत ॥५७॥
तस्य चैते भविप्यन्ति दोपा नामविचारणात् ।
शौर्यवीर्ये सत्यशौचे बलविक्रमैश्च युतम् ॥५८॥
यशस्वी लभते विद्यां साध्यते निरन्तरम् ।
राज्ञश्च पात्रतामेति माननीयश्च गजभि ॥५९॥
अडसडस्य कर्ता च निरन्तरात्मकार्यवान् ।
यथा च यो भवत्येव लिपिबलसमन्वित: ॥६०॥
कलभिश्चन्द्रवन्मल्लो वर्ध्द्ते च दिनं प्रति ।
बलेन वर्धते कायो संग्रामे विजयी भवेत् ॥६१॥
मन्दाधमा: कर्णलायास्त्रीगिर्ये च निरन्तरम् ।
मल्ला: सर्वे पतिप्यन्ति पातिता: स्मरस्याअ (शा) सने ॥६२॥
आत्मत्राणमविज्ञाय विक्रमं कुरुते तु यो ।
स पराभवमाप्रोति मल्लो रंभासमो हि स: ॥६३॥
सर्वकार्याणि सत्यज्य मल्लविद्याचयो भवेत् ।
न पराभूयते विघ्रै: संग्रामे विजयी भवेत् ॥६४॥
वनात्नरे च संचारात् विलासरसंयुत्तम् ।
आत्मानं ये न पश्यन्ति ते मलास्तु बहिप्कृता:॥६५॥
जमल्लविद्या विनश्यन्ति दुर्मदेन यथा थिय ।
तस्मान्मल्लै: प्रमादेन च (न) स्थातव्यं कदाचन ॥६६॥
कृष्णोक्तादानरता ये मल्ला भुवनभूषणा: ।
क्रोधलोभगभयालस्यरहिता मानवा शुभा ॥६७॥
नित्यं बह्वादयो लोका मल्लैर्मधुरया गिरा ।
तदा सुभाग्यवान् सेव्यो जगतोऽपि प्रियो भवेत् ॥६८॥
प्रियमेव विधातव्यं रिपौ मित्र्दं (त्रे) च सर्वदा ।
अतिश्रमाव्दिनश्यन्ति श्रमत्यागे तथा पुन: ॥६९॥
अभ्यासास्तिध्दिमाप्रोति तेन सम्यक् समभ्यसेत् ।
य: शॄणोति त्विदं गुह्यं मया च प्रतिपादितम् ॥७०॥
तस्य शाखा: प्रवर्ध्दन्ते प्रयागवासको यथा ।
इत्येवं मल्लशास्त्रं च पठयते रडंभूमिपु ॥७१॥
निर्विघ्रा: सर्वमल्लाश्च ज्येष्ठी च विजयी भवेत् ।
तम्माव्दिघ्रविनाशाय श्रोतव्यं च सदा बुधै: ॥७२॥
धनायुर्वर्धते तस्य शयो (यशो) लक्ष्मीर्जय: शुभम् ।
इदं ददाति गुरवे परिलेख्यं च पुस्तकम् ॥७३॥
तस्य कुले महामल्ल जययुक्ता भवन्ति हि ।
मल्लशास्त्रं परिश्रुत्य वक्तारं न प्रपूजयेत् ॥७४॥
वंशछॆदो महाहानिस्तय नित्यं प्रजायते ।
न युध्दकुशल कापि न लक्ष्मी न यश सुखम् ॥७५॥
तस्मात्सर्वप्रकारेण मल्ल पूज्यं (तु) पुस्तकम् ।
मल्लशास्त्रधरं विप्र काश्यपगोत्रसमुद्भवम् ॥७६॥
पूजयन्ति च ये मल्लास्तेपा लक्ष्मीर्जय सुखम् ।
ये श्रॄण्वन्ति त्विदं सम्यक् श्लोक श्लोकार्धमेव च ॥७७॥
मल्ला: पापविनिर्मुक्ता भोगान् भुक्त्वा हरे पदम् ।
प्रयान्ति सन्ततिस्तेषां वर्धते पुत्रपौत्रिकी ॥७८॥
अतो मल्लै: सदा ह्येतच्छ्रोतव्यं सर्वकामकम् ।
पूजयेत्प्रसादद्भक्त्या श्रध्दया च फलासये ॥७९॥
वस्त्रैराभरणैश्च द्रविणेन च पुस्तकम् ।
ऋतुभवैश्च पुप्पाद्यैर्दव्यै रत्नैरनेकश: ॥८०॥
सुवर्णै रजतैर्वापि मुकुन्दप्रीतिहेतवे ।
वेदनीराजिते सम्यक् पूरणस्य फलं भवेत् ॥८१॥
सोमेश्वर मया प्रोक्तं पुराणं धारयेत्सदा ।
मद्भक्त्या च युतो विप्र: पूज्यो भवति नित्यश: ॥८२॥
ज्येष्ठी तथान्तरज्येष्ठी चान्ये मल्लास्तु नित्यश: ।
पुराणं मल्लसंज्ञं हि शॄणुयात् पूजयेश्च तत् ॥८३॥
श्रृतं भवति येनेदं श्रुतं भवति येनेदं श्रुतं तेन चराचरम् ।
अष्टादश पुराणानि श्रुतानि नात्र संशय: ॥८४॥
किं वर्ण्यते भयाद्रुता पुस्तकस्य फलश्रुति: ।
मल्लवंशोद्भवेनेदं श्रोतव्यं च पुन: पुन: ॥८५॥
मातेव रक्षति ह्याशु पितेव हितकारकम् ।
तस्मान्मल्लैर्नहि त्याज्यं पुराणं मल्लसंज्ञितम् ॥८६॥
इति श्रीमल्लपुराणे श्रीकृष्णसोमेश्वरसंवादे पुराणफलप्रशंसा पश्चदशोऽध्याय: [ अष्टादशोऽध्याय: ]।
इति मल्लपुराणम् ।
N/A
References : N/A
Last Updated : December 31, 2017
TOP