श्रीमच्छङ्करदिग्विजय: - तृतीय: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


इति बालमृगाकशेखरे सति बालत्वमुपागते तत: ।
दिविषत्प्रवरा: प्रजज्ञिरे भुवि षट्‍ शास्त्रविदां सतां कुले ॥१॥
कमलानिलय: कलानिधेर्विमलाख्यादजनिष्ट भूसुरात्‍ ।
भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यश: ॥२॥
पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात्‍ ।
गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामघात्‍ ॥३॥
पवमानदशांशतोऽजनि पवमानाऽश्चति यद्यशोम्बुधौ ।
धरणी मथिता विवादिवाक्तरणी येन स तोटकाह्वय: ॥४॥
उदभावि शिलादसूनुना मदवव्दादिकदम्बनिग्रहै: ।
समुदश्चितकीर्तिशालिनं यमुदकं ब्रुवते महीतले ॥५॥
विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिर्व्यजायत ।
अरुण: समभूत्सनन्दनो वरुणोऽजायत चित्सुरवाह्वय: ॥६॥
अपरेऽप्यभवन्दिवौकस: स्वपरेर्ष्याप्रविव्दिष: प्रभो: ।
चरणं परिसेवितुं जगच्छरणं भूसुरपुडवात्मजा: ॥७॥
चार्वाकदर्शनविधानसरोषधातृ -
शापेन गीष्पतिरभूद्भुवि मण्डनाख्य: ।
नन्दीश्वर: करुणयेश्वरचोदित: स -
न्नानन्दगिर्यभिधया व्यजनीति केचित्‍ ॥८॥
अथावतीर्णस्य विधे: पुरन्घ्री साऽभूद्यदाख्योभयभारती ति ।
सरस्वती सा खलु वस्तृवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥
पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम्‍ ।
वेदं तदा दुर्वसनोऽतिकोपनो वेदान्धीयन्कचिद्स्खलत्स्वरे ॥१०॥
तदा जहासेन्दुमुखी सरस्वती यदडमर्णोद्भवशब्दसन्तति: ।
चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासन: ॥११॥
शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ।
प्रसादयामास  निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥
दृष्टा विषण्णां मुनय: सरस्वतीं प्रसादयांचक्रुरिमं तमादरात्‍ ।
कृतापराधा भगवन्क्षमस्व तां पितेव पुत्र विहितागसं मुने ॥१३॥
प्रसादितोऽभूदथ सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम्‍ ।
ददौ यदा मानुषशकरस्य संदर्शनं स्याद्भवितास्यमर्त्या ॥१४॥
सा शोणतीरेऽजनि विप्रकन्या सर्वार्धवित्सर्वगुणोपपन्ना ।
यस्या बभूवु: सहजाश्च विद्या: शिरोगतं के परिहर्तुमीशा: ॥१५॥
सर्वाणि शास्त्राणी षडडवेदान्काव्यादिकान्वेत्ति परं च सर्वम्‍ ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूचित्रपदं जनानाम्‍ ॥१६॥
सा विश्वरुपं गुणिनं गुणज्ञा मनोऽभिरामं व्दिजपुडवेभ्य: ।
शुश्राव तां चापि स विश्वरुपस्तस्मात्तयोर्दर्शनलालसाऽभूत्‍ ॥१७॥
अन्योन्यसंदर्श्नलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम्‍ ।
अवाप्य संदर्शनभाषणानि पुन: प्रबुध्दौ विरहाग्रितप्तौ ॥१८॥
दिदृक्षमाणावपि नेक्षमाणावन्योन्यवार्ताहॄतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥१९॥
दृष्ट्रा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताडौ ।
वपु: कृशं ते मनसोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम्‍ ॥२०॥
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दु:खानि शरीरभाजाम्‍ ।
वीक्षे न तौ व्दावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥
न तेऽत्यगादुव्दहनस्य काल: परावमानो न च नि:स्वता वा ।
कुटुम्बभारो मयि दु:सहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥
न मूढभाव: परितापहेतु: पराजितिर्वा तव तन्निदानम्‍ ।
विव्दत्सु विस्पष्टतयाऽग्रपाठात्सुदुर्गमार्थादपि तर्कविद्भि: ॥२३॥
आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतारकर्मसेवा ।
तस्मान्न भेयमपि नारकयातनाभ्य:
किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥
निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविद्‍मूचतु: स्म ।
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति यव्दितनोति लज्जाम्‍ ॥२५॥
शोणाख्यपुंनदतटे वसतो व्दिजस्य
कन्या श्रुतिं गतवती व्दिजपुडवेभ्य: ।
सर्वज्ञतापदमनुत्तमरुपवेषां
तामुव्दिवक्षति मनो भगवन्मदीयम्‍ ॥२६॥
पुत्रेण सोऽतिविनयं गदितोऽन्वशाद्‍ व्दौ
विप्रौ वधूवरणकर्मणि सम्प्रवीणौ
तावापतुर्व्दिजगृहृं व्दिजसंदिदूक्षू
देशानतीत्य बहुलान्निजकार्यसिध्दयै ॥२७॥
भूभृन्निकेतनगत: श्रुतविश्वशास्त्र:
श्रीविश्वरुप इति य: प्रथित: पृथिव्याम्‍ ।
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात्‍ ॥२८॥
पुत्र्या वच: पिबति कर्णपुटेन ताते
श्रीविश्वरुपगुरुणा गुरुणा व्दिजानाम्‍ ।
आजग्मतु: सुवसनौ विशदाभयष्टी
संप्रेषितौ सुतवरोव्दहनक्रियायै ॥२९॥
तावार्च्य स व्दिजवरौ विहितोपचारैरायानकारणमथो शनकैरपृच्छत्‍ ।
श्रीविश्वरुपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकाया: ॥३०॥
संप्रेषितौ श्रुतवय: कुलवृत्तधर्मै: साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां व्दिज तस्य हेतोरन्योन्यसंघटनमेतु मणिव्दयं तत्‍ ॥३१॥
मह्यं तदुक्तमभिरोचत एव विप्रौ पृष्टा वधू मम पुन: करवाणि नित्यम्‍ ।
कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयु: ॥३२॥
भार्यामपृच्छदथ किं करवाव भद्रे
विप्रौ वरीतुमनसौ खलु राजगेहात्‍ ।
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम्‍ ॥३३॥
दूरे स्थिति: श्रुतवय: कुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम्‍ ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥
नैवं नियन्तुमनघॆ तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
प्रादात्स भीष्मकनृप: खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥
किं केन सडतमिदं सति मा विचारीर्यो वैदिकीं सरणिमप्रहतां प्रयत्नात ।
प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनम शिषत्स च भटट्पाद: ॥३६॥
किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं व्दिजवरस्य न बाह्यवित्तम्‍ ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशा: ॥३७॥
वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नपात्स्व्जनतश्च भयं धनानां
शर्मेति जातु न गुण: खलु बालिशस्य ॥३८॥
केचिध्दनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित्‍ ।
अन्येन गोपितमथान्यजना हरन्ति तचेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥
सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्रतं स्यात्‍ ।
पश्येयुरात्मपितरौ बत पातयन्ति दु:खेषु घोरनरकेष्विति धर्मशास्त्रम्‍ ॥४०॥
मा भूदयं मम सुता कलह: कुमारीं
पृच्छाव सा वदति यं भविता वरोऽस्या :।
एवं विधाय समयं पितरौ कुमार्या:
अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥
श्रीविश्वरुपगुरुणा प्रहितौ व्दिजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम्‍ ।
तस्या: प्रमोदनिचयो न ममौ शरीरे
रोमाश्चपूरमिषतो बहिरुज्जगाम ॥४२॥
तेनैव सा प्रतिवच: प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम्‍ ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्व्दिजवरौ स्वनिकेतनाय ॥४३॥
अस्माचतुर्दशदिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्त: ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४॥
तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौ
श्रीविश्वरुपगुरुमुत्तममैक्षिषाताम्‍ ।
सिध्दं समीहितमिति प्रथितानुभावो
दृष्ट्रैव तन्मुखमसावथ निश्चिकाय ॥४५॥
अन्य: स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्रा जहास सुखवारिनिधौ ममज्ज ।
विप्रान्यथोचितमपूजयदागतांस्तान्नत्वां‍ऽशुकदिभिरयं बहुवित्तलभ्यै: ॥४६॥
पित्रानुशिष्टावसुधासुरशंतितेन विज्ञापित: सुखमवाप स विश्वरुप: ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रिय: परिणयोचितसाधनाय ॥४७॥
मौहुर्तिकैर्बहुभिरेत्य मुहूर्तकाले संदर्शिते व्दिजवरैर्बहुविद्भिरिष्टै: ।
माडल्यवस्तुसहितोऽखिलभूषणाढय: स प्रापदक्षततनु: पृथुशोणतीरम्‍ ॥४८॥
शोणस्य तीरमुपयातमुपाश्रृणोत्स जामातरं बहुविधं किल विष्णुमित्र: ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषै: ॥४९॥
दत्त्वाऽऽसनं मृदुवच: समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्घपात्रे ।
अर्घ्यं ददावहमियं तनया गृहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥
अस्माकमद्य पवितं कुलमादृता: स्म: संदर्शनं परीणयव्यपदेशतोऽभूत‍ ।
नोचेद्भवान्बहुविदग्रसर: कचाहं भद्रेण  भद्रमुपयाति पुमान्विपाकात्‍ ॥५१॥
यद्यद्रहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत्‍ ।
वक्ष्यामि सर्वमभिलाषदं त्वदीयं युक्तं हि सन्ततमुपासितवृध्दपूगे ॥५२॥
एवं मिथ: परिनिगद्य विशेषमृव्दया वाचा युतौ मुदमवापतुरुत्तमां तौ ।
अन्ये च संमुमुदिरे प्रियैसत्कथाभि: स्वेच्छाविहारहसनैरुभये विधेया: ॥५३॥
कन्यावरौ प्रकृतिसिध्दसुरुपवेषौ दृष्टोभयेऽपि परिकर्म विलम्बमाना: ।
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मडलवासरेऽस्मिन्‍ ॥५४॥
एतत्प्रभाप्रतिहतत्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।
लोकप्रसिध्दिमनुसृत्य विधेयबुध्दया भूषां व्यधुस्तदुभये न विशेषबुध्दया ॥५५॥
पश्चात्तदुक्ताशुभयोगयुते शुभांशे मौहूर्तिका: स्वमतितो जगृहुर्मुहूर्तम्‍ ॥५६।
जग्राह पाणिकमलं हिममित्रसूनु: श्रीविष्णुमित्रदुहितु: करपल्लवेन ।
भेरीमृदडपटहाध्ययनाब्जघोषैर्दिडमण्डले सुपरिमूर्च्छति दिव्यकाले ॥५७॥
यं यं पदार्थमभिकामयते पुमान्यस्तं ते प्रदाय समतूतुषतां तदीडयौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥
आघाय वह्रिमथ तत्र जुहाव सम्य -
ग्गृह्योक्तमार्गम्नुसृत्यज स विश्वरुप: ।
लाजाज्जुहाव च वधू: परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपिइ चाग्रिम्‍ ॥५९॥
होमावसानपरितोषितविप्रवर्य: प्रस्थापिताखिलसमागतबन्धुवर्ग: ।
संरक्ष्य वह्रिमनया सममग्रिगेहे दीक्षाधरो दिनचतुष्कमुवास हृष्ट: ॥६०॥
प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वराया: ।
आभाषिषातां श्रृणु सावधानो बालेव बाला न तु वेत्ति किश्चित्‍ ॥६१॥
बालैरियं क्रिडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दु:खात्‍ ।
एकेति बाल गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥६२॥
बालेयमड वचनैर्मृदुभिर्विधेया कार्या न रुक्षवचनैर्न करोति रुष्टा ।
केचिन्मृदूक्तिवशगा विपरीतभावा: केचिव्दिहातुमनलं प्रकृतिं जनो हि ॥६३॥
कश्चिद्‍ व्दिजातिरधिगम्य कदाचिदेनामुव्दीक्ष्य लक्षणमवोचदनिन्दितात्म ।
मानुष्यमात्रजननं निजदेवभावेत्यस्माच्चा वो वचनमुग्रमयोज्यमस्याम्‍ ॥६४॥
सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिव्ददतो: कथायाम्‍ ।
तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेबमसौ जगाम ॥६५॥
श्वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम्‍ ।
निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनै: शनैस्ते ॥६६॥
बाल्येषु बाल्यात्सुलभोऽपरध: स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव पश्चाद्रुरुत्वं शनकै: प्रयाता: ॥६७॥
दृष्ट्राऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्य: ।
दृष्ट्राऽभिधानफलमेव यथा भवेन्नो
ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥
वत्से त्वमद्य गमितऽसि दशामपूर्वा तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम्‍ ।
कुर्यान्न बालविहृतिं जनतोहास्यां सा नाविवापरमियं परितोषयेत्ते ॥६९॥
पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्या: पितरौ तत: परम्‍ ।
पतिस्तमेकं शरणं व्रजानिशं लोकव्दयं जेष्यसि येन दुर्जयम्‍ ॥७०॥
पत्यावभुक्तवति सुन्दरि मा स्म भुडक्ष्व याते प्रयातमपि मा स्म भवेव्दिभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृध्दाडानाचरितमेव परं प्रमाणम्‍ ॥७१॥
रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्थम्‍ ।
तस्मिन्प्रसन्नवदने चकितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम्‍ ॥७२॥
भर्तु: समक्षमपि तव्ददनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ।
कि वाच्य एष रहसीति तवोपदेश:
शका वधूपुरुषयो: क्षपयेध्दि हार्दम्‍ ॥७३॥
आयाति भर्तरि तु पुत्रि विहाय कार्य -
मुत्थाय शीघ्रमुदकेन पदावनेक: ।
कार्यो यथाभिरुचि हे सति जीवन वा
नोपेक्षणीयमणुमात्रमपीह कं ते ॥७४॥
धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्त: ।
ते पूजनीया बहुमानपूर्व नो चेन्निराशा: कुलदाहका: स्यु: ॥७५॥
पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तव्दन्मृगाक्षि सहजेष्वपि देवरेषु ।
ते स्नेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्क: ॥७६॥
हितोपदेशए विनिविष्टमानसौ वधूवरौ राजगृहं समीयतु: ।
लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतींति ॥७७॥
सा भारती दुर्वसनेन दत्त पुन: प्रसन्नेन पुराऽऽत्तहर्षा ।
शापवधिं संसदि वर्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम्‍ ॥७८॥
स भारती साक्षिकसर्ववित्त्वोऽप्यात्मीयशक्त्या शिशुवव्दिभात: ।
स्वशैशव्स्योचितमन्वकांक्षीत्स केशवो यव्ददुदारवृत्त: ॥७९॥
शैशवे स्थितवता चपलाशे शार्डिणेव वटवृक्षपलाशे ।
आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०॥
तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम्‍ ।
वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम्‍ ॥८१॥
कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।
केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२॥
शाक्यै: पाशुपतैरपि क्षपणकै: कापालिकैर्वैष्णवै -
रप्यन्यैरखिलै: खलै: खलु खिलं दुर्वादिभिर्वैदिकम्‍ ।
पन्थानं परिरक्षितुं क्षितितलं प्राप्त: परिक्रीडते
घोरे संसृतिकानने विचरतां भद्रंकर: शकर: ॥८३॥
इति श्रीमाधवीये तत्तद्देवावतारार्थक: ।
संक्षेपशकरजये तृतीय: सर्ग आभवत्‍ ॥
आदित: श्लोका: २७४

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP