श्रीमच्छङ्करदिग्विजय: - अष्टम: सर्ग:
श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥
अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां स: ॥१॥
अवातरद्रत्न विचित्रवप्रां विलोक्य तां विस्मितमानसोऽसौ ।
पुराणवत्पुष्करवर्तनीत: पुरोपकण्ठस्थवने मनोज्ञे ॥२॥
प्रफुल्लराजीववने विहारी तरडरिडत्कणशीकरार्द्र: ।
रेवामरुत्कम्पितसालमाल : श्रमापहृद भाष्यकृतं सिषेवे ॥३॥
तस्मिन् स विश्रम्य कृताह्रिक: सन् खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीया: स ददर्श मार्गे ॥४॥
कुत्रालयो मण्डनपण्डितस्येत्येता: स पप्रच्छ जलाय गन्त्री: ।
ताश्चापि दृष्ट्राऽद्भुतशकरं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥५॥
स्वत:प्रमाणं कीराडना यत्न गिरं गिरन्ति ।
व्दारस्थनीडान्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥६॥
फलप्रदं कर्म फलप्रदोऽज: कीराडना यत्न गिरं गिरन्ति ॥
व्दारस्थनीडाअन्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥७॥
जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराडना यत्र गिरं गिरन्ति ।
व्दारस्थनीडान्तरसंनिरुध्दा जानीहि तन्मण्डनपण्डितौक: ॥८॥
पीत्वा तदुक्तीरथ तस्य गेहाद्रत्वा बहि: सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदडणान्त: ॥९॥
तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुचश्चलकेतनाभम् ।
समग्रामालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥१०॥
सौधाग्रसंच्छन्ननभोवकाशं प्रविश्य तत्पाप्य कवे: सकाशम् ।
विद्याविशेषात्तयश: प्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥११॥
तपोमहिम्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राध्दविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥१२॥
तत्रान्तरिक्षादवतीर्य योगिवर्य: समागम्य यथार्हमेष: ।
व्दैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥१३॥
अथ द्युमार्गादवतीर्णमन्तिके मुन्यो: स्थितं ज्ञानशिखोपवीतिनम् ।
संन्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपन: ॥१४॥
तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्यापि कुतूहलंभृत: ।
क्रमात्किलैवं बुधशस्तयोस्तयो: प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥१५॥
कुतो मुण्डयागलान्मुण्डी पन्थास्ते पृच्छयते मया ।
किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥१६॥
पन्थानं त्वमपृच्छस्त्वां पन्था: प्रत्याह मण्डन ।
त्वन्मातेत्यत्न शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥१७॥
अहो पीता किमु सुरा नैव श्वेता यत: स्मर ।
किं त्वं जानासि तव्दर्णमहं वर्ण भवान् रसम् ॥१८॥
मत्तो जात: कलज्जाशी विपरीतानि भाषते ।
सत्यं ब्रवीति पितृवत्त्वत्तो जात: कलज्जभुक् ॥१९॥
कन्थां वहासि दुर्बुध्दे गर्दभेनापि दुर्बहाम् ।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥२०॥
कन्थां वहामि दुर्बुध्दे तव पित्रापि दुर्बहाम् ।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥२१॥
त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे ।
शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥२२॥
गुरुशुश्रूषणालस्यात्समावर्त्य गुरो: कुलात् ।
स्त्रिय: शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठाता ॥२३॥
स्थितोऽसि योषितां गर्भे ताभिरेव विबर्धित: ।
अहो कृतघ्रता मूर्ख कथं ता एव निन्दसि ॥२४॥
यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनित: ।
तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥२५॥
वीरहत्यामवाप्तोऽसि वह्रीनुव्दास्य यत्नत: ।
आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥२६॥
दौवारिकान्वश्चयित्वा कथं स्तेनवदागत: ।
भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भोक्ष्यासे कथम् ॥२७॥
कर्मकाले न संभाष्य अहं मूर्खेण सम्पति ।
अहो प्रकटितं ज्ञानं यतिभडेन भाषिणा ॥२८॥
यतिभडे प्रवृत्तस्य यतिभडो न दोषभाक् ।
यतिभडे प्रवृत्तस्य पश्चम्यन्तं समस्यताम् ॥२९॥
क ब्रह्म क च दुर्मेधा: क संन्यास: क वा कलि: ।
स्वाव्दन्नभक्षकामेन वेषोऽयं योगिनां धृत: ॥३०॥
क स्वर्ग: क दुराचार: काग्रिहोत्रं क वा कलि:।
स्वाव्दन्नभक्षकामेन वेषोऽयं कर्मिणां धृत: ॥३१॥
इत्यादिदुर्वाक्यगणं ब्रुवाणे रोषेण साऽहंकृतिविश्वरुपे ।
श्रीशकरे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥३२॥
तं मण्डनं सम्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वच: ।
आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्त्व यमिनं धुतैषणम् ॥३३॥
अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।
इत्याश्रवं ज्ञातविधिं प्रतीतं सुध्यग्रणी: साध्वशिषन्मुनिस्तम् ॥३४॥
अथोपसंस्पृश्य जलं स शान्त: ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥३५॥
स चाब्रवीत्सौम्य विवादभिक्षामिच्छन् भवत्संनिधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादर: प्राकृतभक्तभैक्ष्ये ॥३६॥
मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिर: पथविस्तृतिमन्तरा ।
अवहितेन मखेष्वधीरित: स भवता भवतापहिमद्युति: ॥३७॥
जगति सम्प्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम ।
त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्वति ॥३८॥
इति यतिप्रवरस्य निशम्य तव्दचन्दमर्थवदागतविस्मय: ।
परिभवेन नवेन महायशा: स निजगौ निजगौरवमास्थित: ॥३९॥
अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।
न च विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥४०॥
अपि कदाचिदुदेष्यति कोविद: सरसवादकथाऽपि भविष्यति ।
इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागत: ॥४१॥
भवतु सम्प्रति वादकथाऽऽवयो: फलतु पुष्कलशास्त्रपरिश्रम: ।
उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥४२॥
अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्रिगम् ।
सुकलहं कलहंसकलाभृतां दिश सुधाशुसुधामलसत्तनो ॥४३॥
अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।
न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥४४॥
अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे य्दि वाददित्सुता ।
गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥४५॥
वादं करिष्यामि न संदिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो मिथो जिगीषू क्रुरुतस्तु वादम् ॥४६॥
वादे हि वादिप्रतिवादिनौ व्दौ विपक्षपक्षग्रहणं विधत्त: ।
का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद क: स्वभाव: ॥४७॥
क: पार्ष्णिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तम: ।
जयाजयौ नौ सुपणौ विधीयतां तत: परं साधु वदाव सुस्मितौ ॥४८॥
अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ।
भविष्यते वादकथाऽपरेद्युर्माध्याह्रिकं सम्प्रति कर्म कुर्याम् ॥४९॥
तथेति सूक्ते स्मितशकरेण भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयव्दादरजैमिनी स: ॥५०॥
विधाय भार्यां विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ तध्दर्मपत्न्यास्तमभाषिषाताम् ॥५१॥
अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्य: प्रकृतं चिकीर्षु: ।
आनर्च दैवोपगतान्मुनीन्द्रानग्रीनिव त्रीन्मुनिशेखरांस्तान् ॥५२॥
भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।
अतिष्ठतां पार्श्वगतौ वटू व्दौ सचामरौ वीजनमाचरन्तौ ॥५३॥
अथ क्रियान्ते किल सूपविष्टास्रय्यन्तवेद्यार्थविदस्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टा: ॥५४॥
तेषां व्दिजेन्द्रालयनिर्गतानामदर्शनं ज्गमतुरज्जसा व्दौ ।
रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीय: ॥५५॥
इति स यतिवरेण्यो दैवयोगाद्रुरु
णामितरजनदुरापं दर्शनं प्राप्य हृष्ट: ।
तदुदित्वचनानि श्रावयन्नात्मशि -
ष्याननय्दमृततुल्यान्यात्मवित्तां त्रियामाम् ॥५६॥
प्रात: शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनि
प्रख्यात: स विधाय कर्म नियतं प्रज्ञावतामग्रणी: ।
साकं शिष्यवरै: प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित् ॥५७॥
तत: समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥५८॥
पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥५९॥
प्रवृध्दवादोत्सुकतां तदीयां विज्ञाय विज्ञ: प्रथमं यतीन्द्र: ।
परावरज्ञ: स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥६०॥
ब्रह्मैकं परमार्थसच्चिदमलं बहलाज्ञानावृतं भासते ।
तज्ञानान्निखिलप्रपश्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥६१॥
बाढं जये यदि पराजयभागहं स्यां संन्यासमड परिहृत्य कपायचेलम् ।
शुक्लं वसीय वसनं व्दयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥६२॥
इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशकरे भिक्षुवरे स्वकीयाम् ।
स विश्वरुपो गृहमेधिवर्यश्चके प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥६३॥
वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा -
त्पूर्वो भाग: प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुष: स्यात्समाप्ते: ॥६४॥
वादे कृतेऽस्मिन्यदि मे जयान्यस्तवयोदितात्स्याव्दिपरीतभाव: ।
येयं त्वयाऽभूद्र दिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ॥६५॥
जेतु: पराजित इहाश्रममादददीतेत्येतौ मिथ: कृतपणौ यतिविश्वरुपौ ।
अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥६६॥
आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥६७॥
माला यदा मलिनभावमुपैति कण्ठेयस्यापि तस्य विजयेतरनिश्चय: स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥६८॥
अन्योन्यसज्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।
ब्रह्मादय: सुरवरा अपि वाहनस्था: श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥६९॥
ततस्तयोरास महान्विंवाद: सदस्यविश्राणितसाधुवाद: ।
स्वपक्षसाक्षी कृतसर्ववेद: परस्परस्यापि कृतप्रमोद: ॥७०॥
दिने दिने चाधिगतपकर्षो भूरीमवत्पण्डितसन्निकर्ष: ।
अन्योन्यभडाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्ष: ॥७१॥
दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव ।
समेत्य भिक्षू समयं च भैक्ष्ये दिनान्यभूवन्निति पश्चषाणि ॥७२॥
अन्योन्यधुत्तरमखण्डयतां प्रगल्भं
बध्दासनौ स्मितविकासिमुखारविन्दौ ।
न स्वेदकम्पगगनेक्षणशालिनों वा
न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥७३॥
ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य चिचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं विव्दत्समक्षाप्रतिभातकक्ष्यम् ॥७४॥
तत: स्वसिध्दानसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्य: ।
जगाद वेदान्तवच:प्रसिध्दमव्दैअसिध्दान्तमपाकरिष्णु: ॥७५॥
भो भो यतिक्ष्माधिपते भवद्भिर्जीवेशयोर्वास्तवमैकरुप्यम् ।
विशुध्दमडीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीम: ॥७६॥
स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् ।
उद्दालकाद्या गुरवो महान्त: संग्राहयन्त्यात्मतया परेशम् ॥७७॥
वेदावसानेद्यु हि तत्त्वमादिवचांसि जप्तान्यघमर्पणानि ।
हुंफण्मुखानीव वचांसि योगिन्नैषां विवक्षाऽस्ति कुहस्विदर्थे ॥७८॥
अर्थाप्रतीतौ किल हुंफडादेर्जपोपयोगित्वमभाणि विज्ञै: ।
अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥७९॥
आपाततस्तत्त्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेद: ।
प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याव्दिधिशेष एव ॥८०॥
क्रत्वडयूपादिकमर्यमादिदेवात्मना वाक्यगण: प्रशंसन् ।
शेष: क्रियाकाण्डगतो यदि स्यात्काण्डान्तरस्थोऽपि भवेत्कथं स: ॥८१॥
तर्ह्यस्तु जीवे परमात्मदृष्टिविधायक: कर्मसमृध्दयेऽर्हन् ।
अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ॥८२॥
संश्रूतयेऽन्यत्र यथा लिडादिर्विधायको ब्रह्मविभावनाय ।
तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥८३॥
यव्दत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्निसत्रे ।
प्रकल्प्यते तव्ददिहापि मुक्तिफलश्रुते: कल्पयितुं स युक्त: ॥८४॥
तर्हि क्रियाजन्यतया विमुक्ति: स्वर्गादिवध्दन्त विनश्वरा स्यात् ।
उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्हा मनस: क्रियैव ॥८५॥
मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।
किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥८६॥
किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।
आद्ये प्रसिध्दं न खलूपदेश्यमन्ते स्वसिध्दान्तविरुध्दता स्यात् ॥८७॥
नित्यत्वमात्रेणं मुने परात्मगुणोपमानै: सुखबोधपूर्वै: ।
गुणैरविद्यावृतितोऽप्रतीतै: साम्यं ब्रवीत्वस्य ततो न दोष: ॥८८॥
यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रह: क: ।
त्वयैव तस्य प्रतिभासशका विव्दन्नविद्यावरणान्निरस्ता ॥८९॥
भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूते: ।
चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरास: ॥९०॥
हन्तैवमस्तीति तदा प्रयोग: स्यात्त्वन्मते तत्त्वमसीति न स्यात् ।
तदैक्षतेत्यत्र जडत्वशकाव्यावर्तनाचात्र पुनर्न चोद्यम् ॥९१॥
न त्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ।
न युज्यते तज्जपमात्रयोगिस्वाध्यायविध्याश्रितमभ्युपेयम् ॥९२॥
अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यबाध: ।
असन्निकर्षान्न भवेध्दि भैदप्रमैव तेनास्य कुतो विरोध: ॥९३॥
भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ।
तत्संनिकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥९४॥
अतिप्रसक्तेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।
भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽसित ॥९५॥
भेदाश्रयात्मेन्द्रियसंनिकर्षो नेत्युक्तमेतचतुरं न यस्मात् ।
चित्तात्मनोर्द्रव्यतया व्दयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥९६॥
आत्मा विभु: स्वादथवाऽणुमात्र: संयोगिता नोभयथाऽपि युक्ता ।
दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् ॥९७॥
मनोऽक्षमित्यभ्युपगम्य भेदासडित्वमुक्तं परमार्थतस्तु ।
साहाय्यकृल्लोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥९८॥
भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ।
तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥९९॥
प्रत्यक्षमात्मेश्वरयोरविद्यामाजायुजोर्द्योतयति प्रभेदम् ।
श्रुतिस्तयो: केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोध: ॥१००॥
स्याव्दा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।
प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्वा ह्यपच्छेदनयोक्तरीत्या ॥१०१॥
नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुते: संयमिचक्रवर्तिन् ।
घटादिवब्रह्मनिरुपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥१०२॥
किमेष भेद: परमार्थभूत: प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।
दृष्टान्तहानिश्चरमे तु विव्दन्नूरीकृतोऽस्माभिरसाधनीय: ॥१०३॥
स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।
त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोष: ॥१०४॥
ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तव्दिधुरोऽथवाऽऽत्मा ।
आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानि: पुनरेव ते स्यात् ॥१०५॥
योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्ट: ।
औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥१०६॥
घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।
चित्वादभिन्न: परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतु ॥१०७॥
धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।
त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्य: ॥१०८॥
किं कृत्स्रधर्मिप्रमया न बाध्य: किं वा स यत्किंचनधर्मिबोधात् ।
घटाधिके ब्रह्मणि चात्मभेदस्यैवयात् पुन: स्यान्ननु पूर्वदोष: ॥१०९॥
किंचागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्य: ।
भेदस्य तद्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥११०॥
किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिध्दिरथाद्यकल्पे ।
शरीर्यभेदेन परस्य सिध्दे: प्राप्रोति धर्मग्रहमानकोप: ॥१११॥
भो ‘व्दा सुपर्णा सयुज सखाये’ त्याद्या श्रुतिर्भेदमुदीरयन्ती ।
जीवेशयो: पिप्पलभोक्तोस्तयोरभेदरश्रुतिबाधिकाऽस्तु ॥११२॥
प्रत्यक्षसिध्दे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।
स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवाद: सकलोऽपि विव्दन् ॥११३॥
स्मृतिप्रसिध्दार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।
प्रत्यक्षसिध्दार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥११४॥
श्रुति: स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।
कथं भवेव्देदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयो: सा ॥११५॥
जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।
विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ॥११६॥
यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।
जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमहिन् कथमश्नुवीत ॥११७॥
न चोदनीया वयमत्र विव्दन् यतस्त्वया पैडिरहस्यमेव ।
अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥११८॥
शरीरवाची ननु सत्त्वशब्द: क्षेत्रज्ञशब्द: परमात्मवाची ।
तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥११९॥
तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्ति: ।
क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्र्ष्टरि तत्र विव्दन् ॥१२०॥
येनेति हि स्वप्रदृशिक्रियाया: कर्तोच्यते तत्न स जीव एव ।
क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्रदृक् सर्वविदीश्वरोऽपि ॥१२१॥
तिड्प्रत्ययेनाभिहितोऽत्न कर्ता ततस्तृतीया करणेऽभ्युपेया ।
द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वर: स्यात् ॥१२२॥
वृत्ति: शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।
तस्मिन् भवन् सर्वगतो महेश: कथं न शारीरपदाभिधेय: ॥१२३॥
भवञ्छरीरादितरत्र चेश: कथं च शारीरपदाभिधेय: ।
नभ: शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥१२४॥
यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेध्दुशरीरभाजौ ।
अत्तीति भोक्तृत्वमचेतनाया बुध्देर्वदेत्तार्हि कथं प्रमाणम् ॥१२५॥
अदाहकस्याप्ययस: कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।
तथैव भोक्तृत्वमचेतनाया बुध्देरपि स्याच्चिदनुप्रवेशात् ॥१२६॥
छायातपौ यव्ददतीव भिन्नौ जीवेश्वरौ तव्ददिति ब्रुवाणा ।
ॠतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥१२७॥
भेदं वदन्ती व्यवहारसिध्दं न बाधतेऽभेदपरश्रुतिं सा ।
एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुते: प्रत्युत बाधिका स्यात् ॥१२८॥
मानान्तरोपोव्दलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।
तव्दाधितुं सा प्रभवत्यभेदश्रुतिं प्रमाणान्तरबाधितार्थाम् ॥१२९॥
प्राबल्यमपादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।
गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥१३०॥
इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां
देव्या तादृशविश्वरुप भसावष्टंभमुष्टिंधया ।
भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरि:
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१३१॥
इत्थं यतिक्षितिपते रनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुचलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥१३२॥
कोपारितेकवशत: शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥१३३॥
बबन्ध नि:शकमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्र: ।
जयोऽपि तस्या: स्वमतैक्यसिध्दयै सार्वज्ञत: स्वस्य न मानहेतो: ॥१३४॥
जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् ।
उपात्तलक्ष्म्यादिविचित्ररुपां गुप्त्यै प्रपश्चस्य कृतावताराम् ॥१३५॥
व्रज जननि तदा त्वं भक्तचूडामणिस्ते
निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।
इति निजवच्नेऽस्मिञ्छारदासंमतेऽसौ
मुनिरथ मुदितोऽभून्माण्डनं हृव्दुभुत्सु: ॥१३६॥
इति श्रीमाधवीये तन्मण्डनार्यकथापर: ।
संक्षेपशकरजये सर्गोऽसावष्टमोऽभवत् ॥८॥
आदित: ९२०
N/A
References : N/A
Last Updated : January 18, 2018
TOP