अथ व्यवहारदर्शनकलमाह कात्यायन:

केशवपण्डितकृतम्‍ धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम्‍ ।


सभास्थानेषु पूर्वाहे कार्याणां निर्णयं नृप: ।
कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्शन: ॥९०॥
स एव -
दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत्‍ ।
स कलो व्यवहाराणां शास्त्रदृष्ट: पर: स्मृत: ॥९१॥
इति । इति व्यवहारदर्शनप्रकार: । व्यवहारविषयमाह याज्ञवल्क्य: --
स्मृत्याचारव्यपेतेन मार्गेणाऽऽधर्षित: परै: ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्‍ ॥९२॥
तेन चाऽऽवेदिते सति सभापतिकृत्यमाह कात्यायन: --
काले कार्यार्थिनं पश्येत्प्रणतं पुरत: स्थितम्‍ ।
किं कार्ये का च ते पीडा मा भैषीर्ब्रुहि मानव ॥९३॥
केन कास्मिन्कथं कस्मात्पृच्छेदेवं सभां गत: ॥९४॥
स्वयमागतं पृच्छेदित्यनेन स्वयं कार्य नोत्पादयेत्‍ ।
नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुष: ।
न च प्रापितमन्येन ग्रसेता(द) र्थं कथंचन ॥९५॥
इति मनूक्ते: ।
न तु राजा वशित्वेन धनलोभेन वा पुन: ।
उत्पादयेत्तु कार्याणि नराणामविवादनम्‍ (मविवादिनाम्‍) ॥९६॥
इति नारदोक्तेश्र्वेति ।
न रागेण न लोभेन न क्रोधेन ग्रसेन्नृप: ।
परैरप्रापितानर्थान्न चापि स्वमनीषया ॥९७॥
इति पितामहोक्तेश्र्वेति । स्वस्य व्यवहारा सामर्थ्ये प्रतिनिधिना व्यवहारो भवतीत्याह पितामह: --
पिता माता सुहृव्दाऽपि बन्धु: संबान्धिनोऽपि वा ।
यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत्‍ ॥९८॥
य: कश्र्चित्कारयेत्किंचिन्नियोगाद्येन केनचित्‍ ।
तत्तेनैव कृतं ज्ञेयं अनिवर्त्य हि तत्स्मृतम्‍ ॥९९॥
कात्यायनोऽपि --
अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥१००॥
इति । अनियुक्तादेर्विवादकरणे दण्डमाह नारद: ।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत्‍ ।
परार्थवादी दण्डय: स्याद्‍ व्यवहारेषु [अ] विब्रुवन्‍ ॥१०१॥
अभियोगविशेषे प्रतिनिधिनिषेध: । कात्यायनस्मृतौ --
ब्रह्यहत्या सुरापाने स्तेये गुर्वडंनागमे ।
अन्येषु चाभिशापेषु प्रतिवादी न दीयते ॥१०२॥
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥१०३॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दाप्य: स्यात्कर्ता तु विवदेत्स्वयम्‍ ॥१०४॥
अनिवेदितान्यपि च्छलादीनि राज्ञा लोभकसूचकादिव्दारा ज्ञातव्यानीत्याह ।
कात्यायन:--
छलानि चापराधांश्च पदानि नृपतेस्तदा ।
स्वयमेतानि गृह्वीयानृपस्त्वावेदकैर्विना ॥१०५॥
छलान्याह स एव -
पथिभडीं पराक्षेपी प्राकारो परिलडुंक: ।
निपानस्य विनाशी च तथा चाऽऽयतनस्य च ॥१०६॥
परिखापूरकश्चैव राजच्छिद्रप्रकाशक: ।
अन्त:पुरं वासगृहं भाण्डागारमहानसान्‍ ॥१०७॥
प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते ।
विण्मूत्रश्लेष्मवान्तानां क्षेप्ता कामी नृपाग्रत: ॥१०८॥
पर्यडांसनबन्धी चाप्यग्रस्थाननिरोधक: ।
राज्ञोऽतिरक्तवेषश्च निभृत: प्रविशेत्तु य: ॥१०९॥
यश्चापव्दारेण विशेदवेलायां तथैव च ।
शय्यासने पादुके च शयनासनरोहणे ॥११०॥
राजन्यासन्नशयने यस्तिष्ठति समीपत: ।
राज्ञो विव्दिष्टसेवी चाप्यदत्तविहितासन: ॥१११॥
वस्त्राभरण्योश्चैव सुवर्णपरिधायक: ।
स्वयं ग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु य: ॥११२॥
अनियुक्तप्रभाषी च नृपाक्रोशक एव च  ।
एकवासास्तथाऽभ्यक्तो मुक्तकेशोऽवगुण्ठित: ॥११३॥
चित्रिताडों विस्त्रग्वी च परिधानविधूनक: ।
शिर: प्रच्छादकश्चैव कर्णनासाविशोधक: ॥११४॥
छलान्येतानि पश्चाशद्भवन्ति नृपसंनिधौ ॥११५॥
इति । अपराधानाह नारद: -
आज्ञालडुंनकर्तार: स्त्रीवधो वर्णसंस्कार : ।
परस्त्रीगमनं चौर्य गर्भश्चैव पतिं विना ॥११६॥
वाक्यारुष्यमवाच्याय दण्डपारुष्यमेव च ।
गर्भस्य पातनं चैते अपराधा दशैव तु ॥११७॥
पदान्याह पितामह: --
उत्कृती सस्यघाती चाप्यग्रिदश्च तथैव तु ।
विध्वंसक: कुमार्याश्च निधान्स्योपभोजक: ॥११८॥
सेतुकटकभेत्ता च क्षेत्रसंचस्कार[रक]स्तथा ।
आरामच्छेदकश्चैव गरदश्च तथैव च ॥११९॥
राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा ।
तन्मन्त्रस्य प्रभेत्ता च बध्दस्य च विमोचक: ॥१२०॥
भोगदण्डौ च गृह्वाति दानंविकयमेव च ।
पटहाघोषणाच्छादी द्रव्यमस्वामिकं च यत्‍ ॥१२१॥
राजावलीढं द्रव्यं च यश्चैवाडंविनाशन: ।
व्दार्विशतिपदान्याहुर्नृप ज्ञेयानि पण्डिता: ॥१२२॥
इति । एवं पञ्चाशच्छलानि दशापराधान्‍ व्दाविंशतिपदानि
क्रणादानाद्यष्टादशपदान्यन्यानि च लोभकसोचकादिना ज्ञात्वा विचारयेत्‍ ।
शास्त्रेण निन्दितं सात्यं मुख्यो राज्ञा प्रचोदित: ।
आवेदयति य: पूर्व लोभक: स उदाहृत: ॥१२३॥
नृपेणाविनियुक्तो य: परदोषान्ववेषणे ।
नृपस्य सूचयेज्ज्ञात्वा सूचक: स उदाहॄत: ॥१२४॥
इति । आज्ञप्तो लोभक: अनाज्ञप्त: सूचक इति भेद: । तेषां व्यवहारपदानां सविस्तरं भेदा मिताक्षरादि महानिबन्धेषु ज्ञेया: । तेषु केषुचित्पदेषु दण्डविवक्षया तावत्साहभेदविषये दण्डोऽभिधीयते । साहसस्वरुपमाह मनु: --
सहसा क्रियते कर्म यत्किंचिध्द्लदर्पितै: ।
तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥१२५॥
तस्याप्यनेकविधत्वमुक्तम्‍ -
मनुष्यमारणं चौर्य परदाराभिमर्शनम्‍ ।
पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम्‍ ॥१२६॥
मनुष्यमारणं हिंसोपलक्षणम्‍ ।
अथ हिंसायां दण्ड: --
शस्त्रावपाते गर्भस्य पातने चोत्तमो दम: ॥१२७॥
गर्भस्य दासीगर्भभिन्नस्य । तत्र दण्डो वक्ष्यते । ब्राह्मणगर्भे तु ।
हत्वा गर्भविज्ञातं ब्रह्महत्याव्रतं चरेत्‍ ॥१२८॥
इति याज्ञवल्क्योक्ते: । प्रायश्चित्तगौरवेण दण्डगौरवं द्रष्टव्यम्‍ ।
विप्रदुष्टां स्त्रियं चैव पुरुषघ्रीमगर्भिणीम्‍ ।
सेतुभेदकरीं चाप्सु शिलां बद्‍ध्वा प्रवेशयेत्‍ ॥१२९॥
विशेषेण प्रदुष्टा स्वगर्भपातिनीत्यर्थ: । अगर्भिणी गर्भरहिता चेद्दण्डया ।
किं च विषग्रिदां पतिगुरुनिजापत्यप्रमापणीम्‍ ।
विकर्णकरनासौष्ठीं कृत्वा गोभि: प्रमापयेत्‍ ॥१३०॥
अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ग्रामादिष्वग्रिं च ददाति निज्पतिगुर्वपत्न्यानि मारयति तां छिन्नकरनासौष्ठीं कृत्वा अदान्तैर्दुष्टबलीवर्दैर्मारयेत्‍ । विष्णु: । गजाश्वोष्ट्रगोघाती त्वेककरपाद: कार्य: । विमांसविक्रयी त्वेककरपाद: कार्य: । ग्राम्यपशुघाती कार्षापणशतं दण्डय: । पशुस्वामिने च तन्मूल्यं दद्यात्‍ । वैजयन्तीकारस्तु - पशुस्वामिने च तन्मूल्यं दद्यादित्यनेन मनुष्यमारणे मूल्यदानं नास्तीति गम्यते । ततश्र्व - प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरुपकम्‍ ॥१३१॥
इति प्राणभृच्छब्द: पशुपर एव । अरण्यपशुघाती पश्चाशत्कार्षापणान्‍ । पक्षिघाती मत्स्यघाती द्श पणान्‍ कीटोपघाती कार्षापणमिति ।
राजाज्ञां विनेति शेष: । कात्यायनोऽपि - व्दिपणो व्दादशपणो वधे तु मृगपक्षिणाम्‍ ।
सर्पमार्जारनकुलश्च सूकरवधे नृणाम्‍ ॥१३२॥
गोकुमारीर्देवपशुवृक्षाणां वृषभं तथा ।
वाहयन्साहसं पूर्व प्राप्नुयादुत्तमं वधे ॥१३३॥
मनुरपि -
मनुष्यमारणे क्षिप्तं चौरवत्किल्बिषं भवेत्‍ ।
प्राणभृत्सु महत्स्वंर्ध गोगजोष्ट्रहयादिषु ॥१३४॥
क्षुद्रकाणां पशूनां तु हिंसायां व्दिगुणो [ व्दिशतो] दम: ।
पश्चाशत्तु भवेद्दण्ड: शुभेषु मृगपक्षिषु ॥१३५॥
गर्दभाजादिकानां तु दण्ड: स्यात्पश्चमाषिक: ॥१३६॥
नखिनां शृडिंणां चैव दंष्ट्रिणामाततायिनाम्‍ ।
हस्त्याश्वानां तथाऽन्येषां वधे हन्ता न दोषभाक्‍ ॥१३७॥
नखिनो व्याघ्रादय: । शृडिंणो व्यतिरिक्ताश्वाजादय: । दंष्ट्रिणो वराहादय: । एतेषां हस्त्यश्वादीनां अन्येषां मेषमहिषादीनां चाऽऽततायिनाम्‍ । आततमायान्तीत्याततायिन: । तेषां मारणाभिसंधिना धावतां वधे हन्तुर्न दोष इति । दोषाभावकीर्तनं च दण्डाभावार्थम्‍ । आततायि गोब्राह्मणवधे अल्पप्रायश्चित्तस्योक्तत्वात्‍ दण्डलाघवम्‍ । गोब्राह्मणमारणे तु । मरणान्तप्रायश्चित्तमेव द्ण्ड
इत्यग्रे वक्ष्यते ॥ऽऽ॥ इति हिंसायां दण्डनिरुपणम्‍ ॥ऽऽ॥ऽऽ॥

N/A

References : N/A
Last Updated : February 01, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP