अथ चौर्यदण्ड:

केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।


तत्स्वरुपमाह नारद: -
उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम्‍ ।
सुप्तमत्तप्रमत्तेभ्य: स्तेयमाहुर्मनीषिण: ॥१३८॥
चौरं प्रदाप्यापहृतं घातयेव्दिविधैर्वधै: ॥१३९॥
अन्यायोपात्तवित्तत्वाध्दनमेषां मलात्मकम्‍ ।
अतस्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत्‍ ॥१४०॥
इदं च महापराधविषयम्‍ । चोरभेदानाह बृहस्पति: -
प्रकाशाश्चाप्रकाशाश्च तस्करा व्दिविधा: स्मृता: ।
प्रज्ञासामर्थ्यमायाभि: प्रभिन्नास्ते सहस्रधा ॥१४१॥
अत एव नारद: -
प्रकाशवश्चकास्तत्र कूटमानतुलाश्रिता: ।
उत्कोचका: सोपधिका: वज्चका: पण्ययोषित: ॥१४२॥
प्रतिरुपकराश्चैव मडंलदेशवृत्तय: ।
इत्येवमादयो ज्ञेया: प्रकाशास्तस्करा भुवि ॥१४३॥
अप्रकाशतस्करस्वरुपमाह व्यास: -
साधनाडांन्विता रात्रौ विचरन्त्यविभाषिता: ।
अविज्ञातनिवासाश्च ज्ञेया: प्रच्छन्नतस्करा: ॥१४४॥
उत्क्षेपक: संधिभेत्ता पान्थमुड्‍ग्रन्थिभेदक: ।
स्त्रीपुंगोश्व्पशुस्तेयी चोरो नवविध: स्मृत: ॥१४५॥
इति । चोरविषये द्ण्डमाह योगीश्वर: ।
सचिन्हं ब्राह्मणं कृत्वा स्वराष्ट्राव्दिप्रवासयेत्‍ ॥१४६॥
बन्दिग्राहांस्तथा वाजिकुंजराणां च हारिण : ।
प्रसह्यघातिनश्चैव शूल्मारोपयेन्नरान्‍ ॥१४७॥
अग्न्यगारायुधागारदिवतागारभेदकान्‍ ।
हस्त्यश्वरथहन्तृंश्च हन्यादेवाविचारयन्‍ ॥१४८॥
इति मनुस्मरणात्‍ ।
उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ व्दितीयापराधे करपादैकहीनकौ ॥१४९॥
तथा द्च मनु: -
अडुंली ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।
व्दितीये हस्तचरणौ तृतीये वधमर्हति ॥१५०॥
अड्‍ंगुली तर्जन्यड्‍ंगुष्ठौ । नारद:-
प्रथमे ग्रन्थिभेदानामडुंष्ठयोर्वध: ॥१५१॥
द्रव्याणामानन्त्याप्रतिद्रव्यं द्ण्डं वक्तुमशक्ते: सामान्येन दण्डकल्पनामाह ।
क्षुद्रमध्योत्तमद्रव्यहरणे सारतो दम: ।
देशकालवय: शक्ति संचिन्त्यं दण्डकर्मणि ॥१५२॥
क्षुद्रादिस्वरुपमाह ।
मृद्भाण्डासनखट्‍वास्थिदारुचर्मतृणादि यत्‍ ।
शमीधान्यं कृतान्नं च क्षुद्रदव्यमुदाहृतम्‍ ॥१५३॥
वास: कौशेजवंर्ज च गोवंर्ज पशवस्तथा ।
हिरण्यवंर्ज लोहं च मध्यं व्रीहियवा अपि ॥१५४॥
हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिन: ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम‍ ॥१५५॥
साहसेषु य एवोक्तस्त्रिषु द्ण्डो मनीषिभि: ।
स एव द्ण्ड: स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात्‍ ॥१५६॥
मनु: ।
धान्यं दशभ्य: कुम्भेभ्यो हरतोऽभ्यधिकं वध: ।
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तध्दनम्‍ ॥१५७॥
विंशतिद्रोण: कुम्भ: । हर्तुर्हियमाण: स्वामिगुणापेक्षया सुभिक्षदुर्भिक्षका लापेक्षया वा ताडनाडंच्छेदवधस्वरुपा दण्डा योज्या: ।
सुवर्णरजतादीनामुत्तमानां च वाससाम्‍ ।
रत्नानां चैव सर्वेषां शतादभ्यधिके वध: ॥१५८॥
पश्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शेषेष्वेकादशगुणं मूल्याद्ण्डं प्रकल्पयेत्‍ ॥१५९॥
शतपत्र माषाणामेव । मानवे स दण्डं प्राप्नुयान्माषमिति माषस्यैवोपक्रमात्‍ ।
पुरुषाणां कुलीनानां नारीणाम्‍ च विशेषत: ।
रत्नानां चैव सर्वेषां हरणे वधमर्हति ॥१६०॥
विष्णुरपि रत्नापहार्युत्तमसाहसम्‍ । रत्नानां वज्रवैडूर्यादीनां बहुमूल्यानाम्‍ । एकस्याप्यपहर्तु: उत्तमसाहसं दण्ड: । इदं ब्राह्मणविषयम्‍ । अन्येषां तु वध एव । शड्‍ंखलिखितौ  । राजपुत्रहरणे सहस्रं शारीरो वा दण्ड: । तत्कुलीनेष्वर्धमिति । अकुलीनानां तु द्ण्डान्तरम्‍ ।
पुरुषं हरतो द्ण्ड उक्त उत्तमसाहस: ।
स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वध: ॥१६१॥
अलंकृतां हरेत्कन्यामुत्तमं त्वन्यथाऽधमम्‍ ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वध: स्मृत: ॥१६२॥
अलंकृतां विवाहाभिमुखीम्‍ । आनुलोम्यापहार --
सकमास्वनुलोमासु न दोषस्त्वन्यथा दम: ॥१६३॥
व्यासोऽपि --
स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्रिना ।
नरहर्ता हस्तपादौ स्थित्वा स्थाप्यश्चतुष्पथे ॥१६४॥
दासीहरणे दण्डमाह नारद: -
सर्वस्वं हरतो नारीं कन्यां तु हरतो वध: ॥१६५॥
दासीं च हरतो मध्य: पादस्य च्छेदनं तथा ॥१६६॥
इति । बृहस्पति: -
गोहर्तुर्नासिकां छित्वा बद्‍ध्वाम्भसि निमज्जयेत्‍ ॥१६७॥
व्यास: -
पशुहर्तुस्त्वर्धपादं तीक्ष्णशस्त्रेण कर्तयेत्‍ ॥१६८॥
पान्थद्रव्यापहारे बृहस्पति: -
तथा पान्थमुषो वृक्षे गले बदूध्वाऽवलम्बयेत्‍ ॥१६९॥
माषतो न्यूनमूल्यानां मूल्यात्पश्चगुणो दम: ॥१७०॥
काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ॥१७१॥
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम्‍ ॥१७२॥
शाकानामार्द्रमूलानां हरणे फलमूलयो: ॥१७३॥
गोरसेक्षुविकाराणां तथा लवणतैलयो: ।
पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च ॥१७४॥
सर्वेषामल्पमूल्यानां मूल्यात्पश्चगुणो दम: ॥१७५॥
इति मनुरपि -
सूत्रकार्पासकिण्वानां गोधूमस्य गुडस्य च ।
दध्र: क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥१७६॥
वेणुवैणवभाण्डानां लवणानां तथैव च ।
मृन्मयानां च हरणे मृदू भस्मन एव च ॥१७७॥
अजानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम्‍ ॥१७८॥
अन्येषां चैवमादीनां मद्यानामोदनस्य च ।
पक्कान्नानां च सर्वेषां तन्मूल्यादूव्दिगुणो दम: ॥१७९॥
इति । तदल्पविषयम‍ । विष्णु: अनुक्तद्रव्याणामपहर्ता मूल्यसमम्‍  ।
यान्युत्तममध्यमाधमकोटिष्वनुक्तानि द्रव्याणि । तन्मूल्यसमं दण्डय: । तथा -
संधिं छित्वा तु ये चौर्य रात्रौ कुर्वति तस्करा: ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत्‍ ॥१८०॥
पथिकानामल्पापहारे न दण्ड: । मनु: -
व्दिजोऽध्वग: क्षीणवृत्तिर्व्दाविक्षू व्दे च मूलके ।
आददान: परक्षेत्रात्र दण्डं दातुमर्हति ॥१८१॥
तथा -
चणकव्रीहिगोधूमयवानां मुद्रमाषयो: ।
अनिषिध्दैर्ग्रहीतव्यो मुष्टिरेक: पथिस्थितै: ॥१८२॥
तथैव सप्तमे भक्ते भक्तानि षडनश्रता ।
अश्वस्तवविधानेन कर्तव्यं हीनकर्मण: ॥१८३॥
यत्तु -
व्दिजस्तृणैध: पुष्पाणि सर्वत: स्ववदाहरेत्‍ ॥१८४॥
इति योगीश्वरवचनं तद्रवाद्यर्थतृणादिविषयम‍ । गोऽन्यर्य तृणमेघांसि वीरुध्दनस्पतीनां च पुष्पाणि स्ववदाहरेदिति फलानि चापरिवृत्तानामिति गौतमस्मरणात्‍ । यत्पुनर्बार्हस्पस्त्यम्‍ ।
तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम्‍ ।
अनापृच्छन्हि गृह्वानो हस्तच्छेदनमर्हति ॥१८५॥
इति । तद्राह्मणस्वामिकापहर्तृव्दिजव्यतिरिक्तविषयमनापव्दिषयं वा । राजादिरक्षितविषयं वा । ब्राह्मणस्यापि बलाद्द्राह्मणस्वामिकापहारविषयं वा । तथा च शड्‍ंखलिखितौ । ब्राह्मणो ब्राह्मणस्य समिदाज्येध्माग्रिकाष्ठतृणोलपपुष्पमूलफलान्यपहेरध्दलादविज्ञातो वा हस्तच्छेदनमवाप्नुयात्‍ । कुशकरकाग्रिहोत्रद्रव्याण्यपहरत: प्रत्यक्षतोऽडंच्छेद: स्यादिति एतेन स्ववदाहरणस्य परिगृहीतविषयत्वे फलैधकुसुमस्तेयमधैर्य च मलावहमिति विरोधो निरस्त: । गवाद्यार्थविषयत्वात्तस्येति निरवद्यम्‍ । अचोरस्यापि चोरोपकारिणो दण्डमाह नारद: -
भक्तावकाशाग्न्युदकमन्त्रोपस्करणव्ययान्‍ ।
दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तम: ॥१८६॥
शक्ताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिन: ॥१८७॥
उत्कोशतां जनानां च हियमाणे धने तथा ।
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिन: ॥१८८॥
तद्दण्डभागिन इत्यर्थ: । सर्व स्तेयदोषमाह । विष्णु: । स्तेना: सर्वमपहृतं धनिकस्य दाप्यास्तस्तेषामभिहितदण्डप्रयोग इति । स्वामिने अपहृतद्रव्यदापनानन्तरं यथोक्तदण्डानुष्ठानं कार्यम्‍ ।
संसर्गचिन्हसंधैश्च विज्ञाता राजपूरुषै: ।
प्रदाप्यापहृतं द्ण्डया दमै: शास्त्रप्रचोदितै: ॥१८९॥
इति । बार्हस्पत्यात्‍ ।
चोरापहृतमानेतुमशक्तेन महीभृता ॥१९०॥
स्वकोशाध्दनिने धनं देयमिति विज्ञानेश्वर: । इति चौर्यप्रकरणं समाप्तम्‍ ॥ऽऽ॥ऽऽ॥श्री॥

N/A

References : N/A
Last Updated : February 01, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP