शिवस्तोत्रम् - गौरीनाथं विश्वनाथं शरण्यं...
शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas.
गौरीनाथं विश्वनाथं शरण्यं
भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं
वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥१॥
योगाधीशं कामनाशं करालं
गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।
जटाजूटाटोपरि (?) क्षिप्तभावं
महाकालं चन्द्रफालं नमामि ॥२॥
यो भूतादिः पञ्चभूतैः सिसृक्षुः
तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो
ब्रह्मानन्दे क्रीडते तं नमामि ॥३॥
स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा
लोकान् साधून् धर्मसेतून् बिभर्ति ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा
शब्दाद्यङ्गैः तं परेशं नमामि ॥४॥
यस्याज्ञया वायवो वान्ति लोके
ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारकासंग्रहश्च
प्रवर्तन्ते तं परेशं प्रपद्ये ॥५॥
यस्य श्वासात् सर्वधात्री धरित्री
देवो वर्षत्यम्बु कालः प्रमाता ।
मेरुर्मध्ये भुवनानां च भर्ता
तमीशानं विश्वरूपं नमामि ॥६॥
N/A
References : N/A
Last Updated : January 01, 2019
TOP