विश्वेश्वरसंहिता - अध्याय २२ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषयः ऊचुः
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥१॥
सूत उवाच
शृणुध्वं मुनयः सर्वे सावधानतयाधुना
सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥२॥
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥३॥
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः
भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥४॥
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥५॥
यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते
तद्गृहं पावनं सर्वमन्यपावनकारणम् ॥६॥
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा
भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् ॥७॥
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि
विलंबे पापसंबंधो भवत्येव हि मानवे ॥८॥
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते
स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥९
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते ॥१०॥
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम्
सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ॥११॥
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम्
शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे ॥१२॥
शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते ॥१३॥
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः
चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् ॥१४॥
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत्
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति ॥१५॥
चंडाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः
चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः ॥१६॥
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि
प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत् ॥१७॥
स्नापयित्वा विधानेन यो लिंगस्नापनोदकम्
त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥१८॥
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम्
शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥१९॥
लिंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः
सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥२०॥
नैवेद्यनिर्णयः प्रोक्तं इत्थं वो मुनिसत्तमाः
शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽदरात् ॥२१॥
महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः
यथाकथंचिदेतस्य महिमा ज्ञायते कथम् ॥२२॥
पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि
तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि ॥२३॥
बिल्वमूले महादेवं लिंगरूपिणमव्ययम्
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥२४॥
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥२५॥
एतस्य बिल्वमूलस्याथालवालमनुत्तमम्
जलाकुलं महादेवो दृष्ट्वा तुष्टोभवत्यलम् ॥२६॥
पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः
शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम् ॥२७॥
बिल्वमूले दीपमालां यः कल्पयति सादरम्
स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥२८॥
बिल्वशाखां समादाय हस्तेन नवपल्लवम्
गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥२९॥
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥३०॥
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम्
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥३१॥
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम्
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥३२॥
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत्
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत्
पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ॥३४॥
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत्
निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ॥३५॥
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत्
पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा ॥३६॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP