विश्वेश्वरसंहिता - अध्याय २३ वा
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
ऋषय ऊचुः
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते
तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥१॥
तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम्
त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥२॥
सूत उवाच
साधुपृष्टं भवद्भिश्च लोकानां हितकारकम्
भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥३॥
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम्
सदा शिवकथा लोके वल्लभा भवतां सदा ॥४॥
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम्
उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥५॥
मुखे यस्य शिवनाम सदाशिवशिवेति च
पापानि न स्पृशंत्येव खदिरांगारंकयथा ॥६॥
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा
तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥७॥
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः
तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥८॥
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा
तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ॥९॥
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥१०॥
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥११॥
तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक्
एवं योनविजानाति सपापिष्ठो न संशयः ॥१२॥
विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम्
नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥१३॥
शैवं नाम यथा गंगा विभूतिर्यमुना मता
रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी ॥१४॥
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम्
एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥१५॥
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा
समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥१६॥
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः
धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥१७॥
ऋष्य ऊचुः
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम्
तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥१८॥
सूत उवाच
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः
तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥१९॥
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि
भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥२०॥
कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः
महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥२१
वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः
शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥२२॥
शिवेति नामदावाग्नेर्महापातकपर्वताः
भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः ॥२३॥
पापमूलानि दुःखानि विविधान्यपि शौनक
शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥२४॥
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः
शिवनामजपासक्तो यो नित्यं भुवि मानव ॥२५॥
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः
येषां भवति विश्वासः शिवनामजपे मुने ॥२६॥
पातकानि विनश्यंति यावंति शिवनामतः
भुवि तावंति पापानि क्रियंते न नरैर्मुने ॥२७॥
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने
शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥२८
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये
संसारमूलपापानि तानि नश्यंत्यसंशयम् ॥२९॥
संसारमूलभूतानां पातकानां महामुने
शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥३०॥
शिवनामामृतं पेयं पापदावानलार्दितैः
पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥३१॥
शिवेति नामपीयूषवर्षधारापरिप्लुताः
संसारदवमध्येपि न शोचंति कदाचन ॥३२॥
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम्
तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥३३॥
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर
शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥३४॥
यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥३५॥
कृत्वाप्यनेकपापानि शिवनामजपादरः
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥३६॥
भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने
तथा तावंति दग्धानि पापानि शिवनामतः ॥३७
यो नित्यं भस्मपूतांगः शिवनामजपादरः
संतरत्येव संसारं सघोरमपि शौनक ॥३८॥
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून्
न लिप्यते नरः पापैः शिवनामजपादरः ॥३९
विलोक्य वेदानखिलाञ्छिवनामजपः परम्
संसारतारणोपाय इति पूर्वैर्विनिश्चितः ॥४०॥
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम्
शिवनाम्नो महिमानं सर्वपापापहारिणम् ॥४१॥
पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी
शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥४२॥
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम्
इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥४३॥
तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥४४
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम्
शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥४५॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : September 27, 2020
TOP