वायवीयसंहिता उत्तर भागः - अध्यायः ३८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥१
अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥१॥
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥२॥
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥२॥
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥३॥
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥३॥
प्रमादो नाम योगस्य साधना नाम भावना ॥४॥
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥४॥
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥५॥
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥५॥
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥६॥
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥६॥
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥७॥
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥७॥
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥८॥
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥८॥
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥९॥
उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥९॥
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥१०॥
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥१०॥
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥११॥
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥११॥
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥१२॥
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥१२॥
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥१३॥
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥१३॥
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥१४॥
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥१४॥
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥१५॥
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥१५॥
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥१६॥
सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥१६॥
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥१७॥
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥१७॥
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥१८॥
नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥१८॥
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥१९॥
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥१९॥
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥२०॥
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥२०॥
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥२१॥
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥२१॥
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥२२॥
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥२२॥
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥२३॥
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥२३॥
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥२४॥
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥२४॥
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥२५॥
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥२५॥
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥२५॥
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥२६॥
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥२६॥
पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥२७॥
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥२७॥
अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥२८॥
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥२८॥
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥२९॥
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥२९॥
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥३०॥
आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥३०॥
आकाशपिण्डीकरणमशरीरत्वमेव च ॥३१॥
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥३१॥
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥३२॥
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥३२॥
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥३३॥
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥३३॥
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥३४॥
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥३४॥
छेदनं ताडनं चैव बंधनं मोचनं तथा ॥३५॥
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥३५॥
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥३६॥
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥३६॥
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥३७॥
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥३७
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥३८॥
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥३८॥
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥३९॥
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥३९॥
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥४०॥
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥४०॥
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥४०॥
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥४१॥
विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥४१॥
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥४२॥
निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥४२
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥४३॥
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥४३॥
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥४४॥
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥४४॥
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥४५॥
यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥४५॥
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥४६॥
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥४६॥
विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥४६॥
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥४७॥
मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥४७॥
कुशपुष्पसमित्तोयफलमूलसमन्विते ॥४८॥
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥४८॥
न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥४९॥
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥४९॥
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥५०॥
नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥५०॥
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥५१॥
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥५१॥
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥५२॥
न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥५२॥
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥५३॥
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥५३॥
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥५४॥
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥५४॥
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥५५॥
अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥५५॥
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥५६॥
किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥५६॥
दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥५७॥
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥५७॥
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥५८॥
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥५८॥
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥५९॥
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥५९॥
संभृतप्राणसंचारः पाषाण इव निश्चलः ॥६०॥
स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥६०॥
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥६१॥
मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥६१॥
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥६२॥
परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥६२॥
तत्र सावरणं वापि निरावरणमेव वा ॥६३॥
द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥६३॥
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥६४॥
भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥६४॥
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥६५॥
विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥६५॥
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥६६॥
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥६६॥
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥६७॥
भानुवर्णस्य पद्मस्य ध्येयं तद्१ हृदयान्तरे ॥६७॥
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥६८॥
अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट् ॥६८
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥६९॥
मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥६९॥
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥६९॥
एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥७०॥
तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥७०॥
अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥७१॥
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥७१॥
इन्दुरेखासमाकारं तारारूपमथापि वा ॥७२
नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥७२॥
कदम्बगोलकाकारं तुषारकणिकोपमम् ॥७३॥
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥७३॥
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥७४॥
सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥७४
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥७५॥
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥७५॥
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥७६॥
घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥७६॥
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥७७॥
सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥७७॥
सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥७८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP