वायवीयसंहिता उत्तर भागः - अध्यायः ४१
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच
तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ॥१॥
अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥१॥
समंततः संघटितं स्फटिको पलसंचयैः ॥२॥
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥२॥
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥३॥
तरंगैरभ्रसंकाशैराकाशमिव भूमिगम् ॥३॥
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥४॥
सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥४॥
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥५॥
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥५॥
जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ॥६॥
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥६॥
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥७॥
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥७॥
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥८॥
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥८॥
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ॥९॥
आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः ॥९॥
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥१०॥
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥१०॥
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥११॥
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥११॥
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥१२॥
सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम् ॥१२॥
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥१३॥
क्वचिच्च तृषयायातमृगीमृगतुरंगमम् ॥१३॥
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥१४॥
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥१४॥
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ॥१५॥
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥१५॥
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ॥१६॥
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥१६॥
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥१७॥
आतपोपहतान्सर्वान्नामंत्रयदिवानिशम् ॥१७॥
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥१८॥
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥१८॥
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ॥१९॥
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥१९॥
उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ॥२०॥
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥२०॥
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥२१॥
तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः ॥२१॥
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥२२॥
गणेश्वरैरसंख्येयैः संवृतं च समंततः ॥२२॥
अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ॥२३॥
मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥२३॥
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥२४॥
मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः ॥२४॥
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥२५॥
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥२५॥
कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥२६॥
तस्य मध्ये विमानस्य चामरद्वितयांतरे ॥२६॥
छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ॥२७॥
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥२७॥
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥२८॥
प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥२८॥
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ॥२९॥
सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम् ॥२९॥
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥३०॥
विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥३०॥
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ॥३१॥
चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम् ॥३१॥
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ॥३२॥
सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥३२॥
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ॥३३॥
दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥३३॥
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥३४॥
अथ तत्रांतरे तस्मिन्विमाने चावनिं गते ॥३४॥
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥३५॥
षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥३५॥
आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया ॥३५॥
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥३६॥
शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥३६॥
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥३७॥
व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥३७॥
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥३८॥
नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥३८॥
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥३९॥
तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति ॥३९॥
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ॥४०॥
अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥४०॥
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥४१॥
काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥४१॥
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥४२॥
अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः ॥४२॥
व्यास उवाच
एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥४३॥
पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥४३॥
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥४४॥
अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥४४॥
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥४५॥
अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥४५॥
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥४६॥
तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥४६॥
पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥४७॥
परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥४७॥
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥४८॥
सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥४८॥
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥४९॥
इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः ॥४९॥
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥५०॥
भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम् ॥५०॥
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥५१॥
सगणस्ससुतस्सांबश्शं करोतु स शंकरः ॥५१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : October 14, 2020
TOP