क्रियाखण्डः - अध्यायः ५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
अस्ति तालध्वजा नाम नगरी त्रिदशोपमा
सर्वलोकेषु विख्याता प्रकीर्णा गुणिनां गणैः ॥१॥
तत्रासीद्विक्रमो नामा राजा शुद्धकुलोद्भवः
धार्मिकः सत्यवादी च प्रजापालनतत्परः ॥२॥
तस्य हारावती नाम वल्लभा भुवि दुर्ल्लभा
आसीत्स्वकीयवदनप्रभाजित शशिप्रभा ॥३॥
तस्य सैव प्रिया राज्ञः स्त्रीगणेऽपि च तिष्ठति
गङ्गेव सरितां भर्त्तुस्तिष्ठत्यपि सरिद्गणे ॥४॥
भूदेवदैवपरतः कालेन कियता द्विज
व्यजायत सुतस्तस्यां सर्वलक्षणसंयुतः ॥५॥
शास्त्रोक्तविधिना तस्य स राजा सर्वशास्त्रवित्
माधवेति ततो नाम चक्रवर्ती चकार ह ॥६॥
ततोऽसौ माधवो विप्रः कालेन कियता बली
सर्वविद्यासरित्पारंगतः सद्गुणसंगतः ॥७॥
अथासौ यौवराज्येन राज्ये नरपतिः सुतम्
सिक्तवांस्तं महीदेव सर्वदेवगणार्चकम् ॥८॥
एकस्मिन्दिवसे विप्र चतुरंगबलैर्वृतः
जगाम कौतुकेनासौ मृगयायै महद्वनम् ॥९॥
तत्र हत्वा बहूञ्जन्तून्मध्याह्ने समये ततः
कृतवान्नगरे गंतुमुद्यमं विपिनादसौ ॥१०॥
नगरं स्वकमागच्छत्ससैन्यो माधवो मुदा
ददर्श युवतीमेकां सरसि स्नानतत्पराम् ॥११॥
स्नानार्हद्रव्यवसनैर्व्यक्तीकृतकलेवराम्
स्वकीयमुखसौन्दर्य्यजितपूर्णनिशाकराम् ॥१२॥
सुवर्णकुण्डलद्वन्द्व विभ्राजद्गण्डमण्डलाम्
सुदीर्घकेशकैश्छन्न नितंबां चारुहासिनीम् ॥१३॥
सुवर्णपद्मकलिकां चारून्नतपयोधराम्
मृगारिकृशमध्यां च वसंते कोकिलस्वराम् ॥१४॥
यूनां मनोहरा राज्ये कन्दर्पेण महात्मना
आरोपिता पताकेव सुन्दरी सा व्यजायत ॥१५॥
तादृशीं तां समालोक्य प्रान्तरे सङ्गवर्जिते
कः कामवशगो न स्यात्क्षितौ प्राणान्वहन्पुमान् ॥१६॥
अथ विक्रमपुत्रोऽसौ तामालोक्य वराननाम्
कंदर्पबाणव्रणित हृदयश्चेति चिंतयन् ॥१७॥
एतस्याः सदृशी कापि न दृष्टा क्षितिमण्डले
एतामिह समालिङ्ग्य सफलं जन्म चेष्यते ॥१८॥
श्रेष्ठोऽस्मि सर्वलोकानां वयस्तेजोगुणैरहम्
यद्यपीन्द्रांगनेयं स्यान्नेतव्याद्य तथापि च ॥१९॥
परस्त्रीहरणे यो वा दोषो भवति सांप्रतम्
को वा शक्नोति तद्वक्तुं यतो राजा पिता मम ॥२०॥
इति संचिंत्य मनसा सुदृढं तेन कामिना
दूरे संस्थाप्य सैन्यानि ययौ सा स्नाति यत्र ह ॥२१॥
ऐश्वर्यं च मदश्चैव कामश्चैव महीतले
त्रय एते विवेकस्य तेजो घ्नंति किमद्भुतम् ॥२२॥
पितास्य दुरितध्वंसी धर्मरक्षाकरो नृणाम्
धिक्स्वयं कामदेवोऽसौ मोहयत्यखिलं जगत् ॥२३॥
तमायातं समालोक्य वेगेन महता ततः
एकाकिनी सा रमते भृशं चिंताकुलाभवत् ॥२४॥
एकाकिनीं समालोक्य कांतारस्थां सयौवनाम्
अयं धावति वेगेन तन्मे मनसि वर्तते ॥२५॥
जल्पंति मुनयः सर्वे धर्मो रक्षति रक्षितः
न च ज्ञातव्यमत्रैव किमत्र च भविष्यति ॥२६॥
सहायहीनं यत्स्थानं पुरो धावति शत्रवः
श्लाघ्यं पलायनं तत्र निवासः प्राणनाशकः ॥२७॥
इत्यालोच्य वरारोहा सव्यकच्छे घटं ततः
कृत्वा पलायने भीत्या मनश्चक्रे सरोवरात् ॥२८॥
ततः स माधवश्चापि जवेन महता द्विज
एवं तस्याः पुरो गत्वा प्रसारितकरः स्थितः ॥२९॥
श्रीमाधव उवाच-
वराङ्गने चारुदेहे सुयौवनबलान्मम
पलायसे मनो हृत्वा हतोस्म्यहमचेतनः ॥३०॥
किं नाम चंचलापांगि चार्वङ्गि तव कः पतिः
स्वर्गात्किं वा गतासि त्वं त्वत्तुल्या नास्ति भूतले ॥३१॥
सुन्दरि त्वमिह श्रेष्ठा सर्वलक्षणसंयुता
कथं वहसि पानीयं दासीव कमलानने ॥३२॥
पयोधरौ शातकुंभौ सदा वहसि वक्षसि
कक्षेण जलकुम्भं च कोमलाङ्गीदमद्भुतम् ॥३३॥
दिवाकरकरात्यंत संतप्ते पथि लोहिताः
पादांगुल्यंतरा भांति जपानां कलिका इव ॥३४॥
सुश्रोणि भज मां प्रीत्या त्यज कुंभं वरानने
तव दुःखावसानोऽभून्मम दर्शनमात्रतः ॥३५॥
श्रीमद्विक्रमभूभर्त्तुः पुत्रोऽहं माधवाह्वयः
सर्वभावैर्भविष्यामि वराङ्गस्तव सुन्दरि ॥३६॥
ममस्त्रीगणमध्येषु सुभगा त्वं भविष्यसि
सुपुष्पवल्ली मध्येषु द्विरेफस्येव मालती ॥३७॥
अथवा मम वाक्यं त्वं गर्वाल्लंघितुमिच्छसि
न त्यक्षामि तथापि त्वां यतोऽहं नृपतेः सुतः ॥३८॥
व्यास उवाच-
तेनोक्तं वचनं श्रुत्वा पंथानं प्रविहाय सा
तस्थावधोमुखी विप्र प्राहेति च शनैः शनैः ॥३९॥
कदापि चेत्परस्यापि न शृणोति वचो मम
तथापि लज्जां संत्यज्य वक्ष्याम्येव भवाग्रतः ॥४०॥
तथा ह्यहं महावीर सुबाहुक्षत्त्रियप्रिया
नयामि देवपूजार्थं जलं चंद्रकला ह्यहम् ॥४१॥
यद्वचो भवता प्रोक्तं न च तत्त्वत्कुलोचितम्
त्वद्वंशप्रभवाः सर्वे परस्त्रीषुनपुंसकाः ॥४२॥
अहमेकाकिनी नारी वीराणां प्रभवो भवान्
बलादालिङ्ग्य मामत्र यशः किं ते भविष्यति ॥४३॥
परस्त्रियं समालिङ्ग्य क्षणमात्रसुखं भवेत्
इहापकीर्तिः शेषं च दुःखं कल्पशताधिकम् ॥४४॥
कर्मभूमिरियं शूर पुण्यमत्र विधीयताम्
परस्त्रीहरणे चित्तं कदाचिन्मां करिष्यसि ॥४५॥
लोभात्प्रवर्तते कामः कामात्पापं प्रवर्त्तते
पापान्मृत्युर्मृतेऽपि स्याद्दुस्तरे नरके स्थितिः ॥४६॥
सर्वेऽपि त्वद्गुणा व्यर्थं त्वज्जन्मापि च निष्फलम्
कामस्य वशतां गत्वा रंतुमिच्छेः परस्त्रियम् ॥४७॥
मांसमूत्रपूरीषास्थिनिर्मितं मे कलेवरम्
एतदेव समालोक्य स्मरस्य वशतां गतः ॥४८॥
भूपालवंशोत्पत्तित्वात्पौरेभ्यो न बिभेषि किम्
मस्तकोपरि गर्जंतं नेक्षसे समवर्त्तिनम् ॥४९॥
ग्रसंति बडिशं मत्स्यास्ते सर्वे ज्ञानवर्जिताः
ज्ञानीचेत्प्राप्य बडिशं भवान्कस्माद्ग्रसिष्यसि ॥५०॥  
विवेकस्त्रिषु लोकेषु संपदां परमं पदम्
अविवेको हि लोकानामापदां परमं पदम् ॥५१॥
तयोक्तं वचनं श्रुत्वा माधवः काममोहितः
उवाच जैमिने वाचं विनयावनतः पुनः ॥५२॥
तवोद्वीक्षणनाराच धाराजर्जरमानसम्
प्रिये मां त्राहि त्राहीति तवास्मि शरणं गतः ॥५३॥
तावत्प्रियतमा नारी यावत्तिष्ठति यौवने
मृणालकोषां नलिनीं हेमभृंगो न गच्छति ॥५४॥
प्रसीद हरिणीनेत्रे रक्ष मां सेवकं स्वकम्
त्वद्वाचं नीरसां श्रुत्वा भिनत्ति हृदयं मम ॥५५॥
चन्द्रकलोवाच-
त्यज दुःखं महावीर शृणु मद्वचनं शुभम्
प्रवक्ष्यामि मनोदुःखं हंतुं यद्भवतः क्षमाम् ॥५६॥
समुद्रपारे विख्याता पुरंदरपुरोपमा
प्लक्षद्वीपेऽस्ति दीप्यंती विख्याता संज्ञया पुरी ॥५७॥
गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः
आस्ते सर्वगणैर्युक्तः प्रतापेऽग्निसमो बली ॥५८॥
सुशीला नाम तद्भार्या सर्वलक्षणसंयुता
सेवावशीकृतस्वामि हृदया सदया जनैः ॥५९॥
सुलोचनाख्या तत्कन्या वीरतत्कुक्षिसंभवा
सदूहरूपैरजयत्सकलान्सुन्दरीगणान् ॥६०॥
तस्या रूपं गुणौघं च वर्णितुं भुवि कः क्षमः
तद्रूपदर्शमालोक्यासृजदन्यां स्वयं विधिः ॥६१॥
अहमासं महावीर तस्या दासी नृपात्मजः
समागतास्मि दैवेन त्वद्देशं प्रति सुन्दरी ॥६२॥
तत्समा सुन्दरी नास्ति त्वत्समो नास्ति सुन्दरः
गृहाण तां विवाहेन स्वर्गभोगं यदीच्छसि ॥६३॥
जंबुकीं बलवान्सिंहो विहायांकगतामपि
हस्तिनीं न हि किं धत्ते यत्नतः प्रतिपत्तये ॥६४॥
उद्योगी पुरुषो लोके लभते परमां श्रियम्
उद्योगेन विना ब्रूहि किं कार्यं भुवि विद्यते ॥६५॥
व्यास उवाच-
तस्यास्तद्वचनं श्रुत्वा माधवो माधवार्चकः
दूरीकृत्य स्मरोद्भावं तामित्याह वराननाम् ॥६६॥
माधव उवाच-
केन चिह्नेन तां कन्यां ज्ञास्यामि कमलानने
तन्मे कथय सुश्रोणि यदि ते मय्यनुग्रहः ॥६७॥
सिंधुपार प्रतीपाज्ञः कथं यास्यामि मानुषः
भविष्यति तया सार्द्धं कथं संदर्शनं मम ॥६८॥
चन्द्रकलोवाच-
तस्यास्तु वामजघने तिलकं तिलसन्निभम्
अस्ति तद्दर्शनेनैव ज्ञास्यसि त्वं सुलोचनाम् ॥६९॥
उच्चैःश्रवससंज्ञस्य तुरगस्य महात्मनः
त्वन्मंदुरायां पुत्रोस्ति सर्वगामी हयोत्तमः ॥७०॥
तमश्वश्रेष्ठमारुह्य जवेन पवनोपमम्
गमिष्यसि समुद्रांतं सुखसाध्या महीयतः ॥७१॥
ततो भूपालपुत्रोऽसौ ससैन्यो गृहमागतः
सापि चन्द्रकला साध्वी सुप्रीता स्वगृहं गता ॥७२॥
विचिंत्य वचनं तस्या माधवोऽति त्वरान्वितः
चिंताकुलितचित्तोऽसौ सहसा मंदुरां ययौ ॥७३॥
तत्र बद्धाञ्जलिर्भूत्वा वैक्रमिर्विक्रमान्वितः
तुरंगमानिति प्राह गुणयुक्तान्महाबलान् ॥७४॥
माधव उवाच-
यूयं सर्वे महात्मानः सर्वलक्षणसंयुताः
समुद्रपारे मां नेतुं कः शक्नोति तुरङ्गमः ॥७५॥
अथ ते तुरगाः सर्वे श्रुत्वा तद्वचनं भिया
परस्परं क्षितिमुखास्तस्थुर्नो नेतुमुद्यताः ॥७६॥
अथैकस्तुरगस्तत्र समस्तलक्षणैर्युतः
माधवस्य पुरो गत्वा वाचमेतामुवाच ह ॥७७॥
अहं भवंतं नेष्यामि सिंधुपारं न संशयः
किं त्वाकर्णय दुःखानि मदीयानि नृपात्मज ॥७८॥
अन्यभुक्तावशिष्टं यत्तत्तृणं मम भक्षणम्
ग्रंथिकोटिप्रयुक्ताभीरज्जुभिर्मम बंधनम् ॥७९॥
स्वप्नेऽपि व्रीहयो वीर न दृष्टा बलिना मया
अन्येषामपि भोगानां का कथात्र नृपात्मज ॥८०॥
गौरवेण विना वीर न सतां विक्रमो भवेत्
जनिष्यति कथं वह्निर्विना काष्ठं घृतादिभिः ॥८१॥
अहमीदृगिमे सर्वे नानाभूषासमन्विताः
न तु सिंहसमाः श्वानः सर्वाभरणभूषिताः ॥८२॥
प्रदक्षिणाकारतया सशैलद्वीपसागराः
क्षणमात्रेण पृथिवीं शक्नोमि भूपते प्रभो ॥८३॥
माधव उवाच-
क्षमस्व दोषं सकलं मत्पित्रा विहितं हय
अद्यप्रभृति मुख्योऽसि मंदुराभ्यंतरे मम ॥८४॥
परेण दत्तः संतापः सदा तिष्ठति नोत्तमे
सलिलं वह्निसंतप्तं क्षणाच्छीतलतां व्रजेत् ॥८५॥
स्वमाधुर्यैर्भवेदिक्षुः क्षणमपि हि तृप्तये
इत्युक्त्वा तं नमस्कृत्य तुरंगं नृपनंदनः ॥८६॥
ततः शुभे क्षणे तस्य पृष्ठमारुह्य वाजिनः
प्रचेष्टाख्येन भृत्येन विलंघ्य जलधिं ययौ ॥८७॥
पुरीं सर्वगुणैर्युक्तां पुरंदरपुरोपमाम्
जगाम माधवो भ्राजन्सौधावलिभिरुज्ज्वलाम् ॥८८॥
तत्रोपस्थां च युवतीं गंधिनीं माधवो द्विजः
दृष्ट्वास्मितमुखो वाक्यमुवाचेति च कोमलम् ॥८९॥
वृद्धे मातरहं पार्थो दिनमेकं तवालये
स्थातुमिच्छामि काऽज्ञाते धनवान्माधवाह्वयः ॥९०॥
आतिथेयी गंधिनी सा तमादायातिथिं ततः
हर्षित्वा स्वगृहं तत्र जगामात्यंतभक्तितः ॥९१॥
यथोक्तविधिना विप्र तया तस्यार्हणा कृता
माधवस्तां निशां निन्ये चिंताव्याकुलमानसः ॥९२॥
अथ प्रभाते विमले गन्धिन्याः पुरतो द्विज
माधवः सकलं कार्यं कथयामास भूसुरः ॥९३॥
देवी सुलोचनायाश्च तस्मिन्नेव दिने शुभे
गन्धादिवासनं कर्म रचयामास सा च तत् ॥९४॥
श्रुत्वाधिवासनं कर्म राजपुत्र्यास्ततो द्विज
शोकसागरकल्लोल निकरो माधवोऽभवत् ॥९५॥
यदर्थं राज्यवसतिर्मया त्यक्ता तदिच्छुना
यदर्थं बांधवास्त्यक्ता लंघितश्च महोदधिः ॥९६॥
अद्यैव तस्या दैवेन भविष्यत्यधिवासनम्
निष्फलाः सकला एव यावंतो विहिताः श्रमाः ॥९७॥
किंतु लोका न जल्पंति माध्व्या मुग्धो गतोऽखिलम्
कोऽपि भग्नोद्यमो न स्यात्प्रज्ञात्वा कार्यनिश्चयम् ॥९८॥
एतद्विचिंत्य मनसा माधवोऽसौ पुनः पुनः
मालापुष्पादिके कार्यं लिलेख प्रेमवर्णितम् ॥९९॥
कन्ये माधवनामाहं कुमारो धरणीपतेः
तालध्वजाधिराजस्य विक्रमस्य महात्मनः ॥१००॥  
त्वच्चेटी तत्र काप्यस्ति कन्ये चन्द्रकलाह्वया
तया तवगुणग्रामः कथितो मे पुरा किल ॥१०१॥
त्वद्गुणग्रामसंलग्नचित्तोऽहं निम्नसागरम्
विलङ्घ्य तुरगारूढः समायातः पुरीं तव ॥१०२॥
अधुना मां वरत्वेन वृणु कन्ये सुलोचने
यतः संसारमध्येऽस्मिंस्तवास्मि शरणं गतः ॥१०३॥
यथा गुणवतीं त्वां हि नान्यो जानाति तत्पुमान् ॥१०४
सरोजिनीगुणं वेत्ति भृंग एव न दर्दुरः
शुभ्रस्य जलदस्यापि गगनैकस्य नोदयः ॥१०५॥
तथापि न भजेदन्यं विना चन्द्रं कुमुद्वती
अथ तल्लिखनं वीरो मालाकारप्रिया करे ॥१०६॥
स्वर्णांगुलीय सहितं ददौ स विनयो नृपः
पुष्पमालांतरे कृत्वा तं लेखं सांगुलीयकम् ॥१०७॥
राजपुत्री समीपे सा गंधिनी तरसा ययौ
पुष्पमालां बलिं तस्यै दत्वा सा गंधिनी ततः ॥१०८॥
तस्थौ बद्धाञ्जलिर्भूत्वा दूरं गत्वा भिया कियत्
ततः सा राजतनया लिखितं सांगुलीयकम् ॥१०९॥
विलोक्य सकलं मूलात्पपाठात्यंतपण्डिता
सापि तत्पृष्ठपत्रे तु तद्योग्यमुत्तरं द्विज ॥११०॥
अलिखद्विस्मिता कन्या यद्यच्च सर्वमुच्यते
राजपुत्र महाबाहो त्वद्वाक्यमखिलं श्रुतम् ॥१११॥
शृणु सत्तम वाक्यं मे यथोचितमिदं वचः
अद्याधिवासनं कर्म श्वो विवाहो मम ध्रुवम् ॥११२॥
पितुर्यत्संमतं कार्यं पृथिव्यांकोऽपि नत्यजेत्
कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ॥११३॥
कार्येसिद्धे श्रमो न स्यादसिद्धे श्रम एव हि
तथापि शृणु वक्ष्यामि येन प्राप्नोति मां भवान् ॥११४॥
यदर्थो भवता चैव समुद्रोपि च लंघितः
मया प्रदक्षणी कार्यो वरो विद्याधरो ह्ययम् ॥११५॥
तत्पुरोऽहं गमिष्यामि नानाभरणभूषिता
वामबाहूर्द्ध्वं कृत्वा च वीरः स्यान्मम संमुखः ॥११६॥
येन मां शक्यते नेतुं स मे भर्ता भविष्यति
सत्यं सत्यमिदं सत्यं पत्रेऽस्मिंल्लिखितं मया ॥११७॥
अन्यथा सुदृढं कार्यं लंघितुं न हि शक्यते
एतद्विलिख्य सा कन्या तस्या एव करे ददौ ॥११८॥
सापि तत्पत्रमादाय गता माधवसन्निधिम्
तया यल्लिखितं पत्रे तत्पठित्वा तु माधवः ॥११९॥
भूयोपि लिखितं विप्र लिलेखात्यंतकौतुकैः
त्वया यदुक्तं हे कन्ये धन्ये धन्यकुलोद्भवे ॥१२०॥
तदेव मन्मतं सर्वं कोऽपि नास्त्यत्र संशयः
ततस्तु गंधिनी भूयो गत्वा तन्निकटे द्विज ॥१२१॥
ददौ सुलोचनायै सा लिखनं सुन्दराक्षरम्
अथ तल्लिखनं ज्ञात्वा कुमारांगी कृतं द्विज ॥१२२॥
बभूवात्यन्तसंहृष्टा विस्मिता च पुनः पुनः
तस्मिन्नसंशयं कार्यं यदासौ स्वीकृतं ददौ ॥१२३॥
तदा किं स्वयमिन्द्रो वा यन्माया माधवः पुमान्
इहलोके परत्रास्ति स्नेहभूमिः पतिः सदा ॥१२४॥
विना संदर्शनेनापि न वरत्वेदृतो मया
इति संचिन्त्य सा साध्वी निःश्वस्य च पुनः पुनः ॥१२५॥
स्नानव्याजाद्गतावासं गन्धिन्याश्च सहालिभिः
हस्ते विधृत्य तां कन्यां गंधिनी सा पुरंध्रिका ॥१२६॥
माधवं दर्शयामास शयानं मंचकोपरि
तं समालोक्य सा कन्या कंदर्पसदृशं ततः ॥१२७॥
रोमांचितं समस्ताङ्गमुदात्तं पश्यति क्रमात्
तन्नेत्रयुगलं तस्मिन्यत्र यत्र निमज्जति ॥१२८॥
कष्टदृष्ट्या च नान्यत्र तस्मान्नामात्र गच्छति
साक्षादयं वा कन्दर्पो देवकीनन्दनोऽपि वा ॥१२९॥
शर्वो वा विषयाधीशः साक्षाद्वा पार्वतीपतिः
रूपैरेतैर्जगन्मध्ये मानुषो न हि जायते ॥१३०॥
अनेन स्वामिना जन्मसफलं हरिणीदृशः
मद्भक्तिवशगो भूत्वा विधातात्यंतयत्नतः ॥१३१॥
यदाहं कन्यका जाता तदैनं किं ससर्ज ह
अद्यप्रभृति नाथोऽयं स्वयं नास्त्यत्र संशयः ॥१३२॥
इत्युक्त्वा सा मतिं चक्रे गंतुं निजगृहं प्रति
गन्धिन्युवाच-
कन्ये युक्तिरियं भद्रे त्वयापि हृदि सेव्यताम् ॥१३३॥
यथा सुमूर्तिः पुरुषो न तथा भाति निन्दया
उल्लासो गात्रभंगश्च मन्ददृष्टिश्च विस्मितम् ॥१३४॥
सर्वाणि विष्णुचिह्नानि निद्रायां मृगलोचने
संदष्टौष्ठपुटाक्षेपात्प्रोक्तो नोत्तिष्ठति ध्रुवम् ॥१३५॥
शनैः शनैः करं तस्य स्वकराभ्यामदर्शयत्
त्वां द्रष्टुं राजकन्यायाः संधृत्यागमनं शृणु ॥१३६॥
श्रुत्वैतत्सोपि चोत्तस्थौ संभ्रमाक्रांतमानसः
विनयावनतो वाक्यं माधवश्चेत्युवाच ताम् ॥१३७॥
माधव उवाच-
कन्ये मज्जन्मसफलं श्रमश्च सफलो मम
त्वच्चारुवदनांभोजं साक्षादेव मयेक्षितम् ॥१३८॥
सकलैर्यौवनैः कन्ये त्वं वरत्वेन मां वृणु
त्वद्योगोस्ति वरो नान्यो मां विना भुवि सुन्दरि ॥१३९॥
सुलोचनोवाच-
सुगते त्वं मम स्वामी भाग्येन महता भवेः
मया यद्वचनं प्रोक्तं तदेव सुदृढं खलु ॥१४०॥
आज्ञां कुरु महाभाग गच्छामि निजमंदिरम्
माधव उवाच-
तिष्ठेति यदि वा वच्मि कन्ये गर्वस्तदा भवेत् ॥१४१॥
गच्छेति वचनं वक्तुं नायाति वदनान्मम
स्वयं विचार्य चार्वंगि यद्युक्तं तद्विधीयताम् ॥१४२॥
सत्येहवचनं तस्मिन्भविष्यसि सुतत्परा
इत्युक्ता तेन सा कन्या हर्षिता स्वगृहं गता ॥१४३॥
तत्रैव माधवस्तस्थौ वृतो बहुपरिच्छदैः
चारुविद्याधर एव स्थितो विद्याधरो वरः ॥१४४॥
तत्रस्थाश्च जनाः सर्वे स्रक्चन्दनविभूषिताः
दिव्यांबरपरीधाना रेजुर्देवगणा इव ॥१४५॥
क्वचिद्गीतं क्वचिन्नृत्यं क्वचित्कोलाहलध्वनिः
क्वचित्केन प्रदीपालिस्तत्पुरे समवर्तत ॥१४६॥
हेषितैः सप्तिवृंदानां हस्तिनां चैव बृंहितैः
हर्षस्वनैश्च पत्रीणां पूरिताः ककुभो दश ॥१४७॥
नानापताकानिवहैर्धवलैर्नृपसद्मभिः
समंताद्गगनं सर्वं व्याप्तं हि यत्र जैमिने ॥१४८॥
केऽपि शङ्खान्समादध्मुर्ढक्काडिंडिमझर्झरान्
वादयांचक्रिरे केऽपि मधुकोहलकादिकम् ॥१४९॥
ततो युवतयः सर्वाः सरोजकोरकस्तस्था
ललितानि सुगीतानि जगुश्चन्द्रनिभाननाः ॥१५०॥  
परस्परं यौवनतो घर्षणच्युतमालया
प्रस्वेदाम्बुगलद्गंधैर्बभौ कन्येव तत्र भूः ॥१५१॥
गंभारीकाष्ठरचितं पीठमारुह्य सुन्दरी
ज्ञातिभिर्वेष्टिता याता वरं स्थानं सुलोचना ॥१५२॥
अत्रांतरे विक्रमपुत्र एष शय्योपरिष्टात्किल लब्धनिद्रः
न वेद दैवेन विवाहकार्यं सुलोचनायाश्च सुलोचनायाः ॥१५३॥
विधातृमायाशतमोहितानां कदापि न स्याद्भुवने सुखाय
ततः स्वसंकेतविधिं जनोऽयं विस्मृत्य निद्रामभजत्सुखेन ॥१५४॥
वनं परित्यज्य कृशानुभीत्या जलं प्रविष्टा नलिनी सुखार्थम्
संदह्यते तत्र हिमानलेन यद्यस्य कर्म न तदन्यथा स्यात् ॥१५५॥
वेदादिशास्त्रमखिलं प्रपठंतु लोकाः कुर्वंतु नामक्षितिपालसेवाम्
उग्रं तपः प्रतिदिवं प्रतिसाधयंतु न श्रीस्तथापि च भजत्यतिभाग्यहीनम् ॥१५६॥
मस्तकोपरि तिष्ठंति दुःखानि च सुखानि च
अन्यकाले समायान्ति हठादन्यानि सत्तम ॥१५७॥
निद्रावंतं समालोक्य माधवं दुःखभागिनम्
प्रचेष्टश्चिंतयामास जानन्संकेतमेतयोः ॥१५८॥
धिगस्त्वमुं राजपुत्रं दैवमायाविमोहितः
विस्मृत्य निजसंकेतं निद्रां संप्राप्य सेवते ॥१५९॥
असौ दुःखागता कन्या वरस्य निकटेऽधुना
किं भवेन्नयने तादृक्संकेतं याति निष्फलम् ॥१६०॥
तिष्ठ त्वं वै पापकर्मन्निद्रां संसेव्य मस्तके
मया हयं समारुह्य नेतव्या सा वराङ्गना ॥१६१॥
कन्यारत्नं च रत्नं च मुदा प्राप्नोति दुर्ल्लभम्
तदा किं सेवया कार्यं माधवस्यास्य दुर्मतेः ॥१६२॥
धनार्थं क्रियते सेवा सर्वभावेन भूभुजाम्
तच्चेन्मुदा स्वयं प्राप्तं सेवादुःखेन किं तदा ॥१६३॥
प्रचेष्ट इति संचिंत्य समारुह्य तुरंगमम्
सा राजकन्या यत्रास्ते ययौ तत्र नभः पथा ॥१६४॥
वरं प्रदक्षिणीकृत्य स्मरंती समयं स्वकम्
वामहस्तं समुद्धृत्य तस्थौ विद्याधराग्रतः ॥१६५॥
हस्ते विधृत्य तां कन्यां प्रचेष्टोऽतिजवेन सः
पृष्ठे निवेशयामास सप्तेस्तस्य महाबलः ॥१६६॥
तां राजपुत्रीमादाय पुरीं कांचीं सुशोभनाम्
तामथासौ समालोक्य प्रचेष्टोऽतित्वरान्वितः ॥१६७॥
उवाच प्रवहन्पाणिं नष्टमानससाध्वसः
प्रचेष्ट उवाच-
समुद्रांतरतीरस्थां कांचीं नाम पुरीमिमाम् ॥१६८॥
पश्य सर्वत्र विख्यातां जनसर्वसुखप्रदाम्
अत्र माधववीरस्य तस्य विद्याधरस्य वा ॥१६९॥
कस्यापि च भयं नास्ति पश्य चन्द्रनिभानने
मच्चित्तेंधनसंलग्नां कामानलशिखावलिम् ॥१७०॥
कुचकुंभकरैः सिद्धं निर्वाणं देहि सुंदरि
त्वच्चारुमुखपद्मेऽस्मिन्मन्मुखभ्रमरोऽधुना ॥१७१॥
इच्छेत्पातुं मधून्यत्र काऽज्ञाते तिष्ठति प्रिये
त्वच्चारुगात्रसंस्पर्शाच्छरैस्तुदति मां स्मरः ॥१७२॥
त्राहि त्राहि प्रिये त्राहि तवास्मि शरणं गतः
इति ब्रुवंतं तं मूढमभिवीक्ष्य वरांगना ॥१७३॥
शोकाग्नितप्तसर्वाङ्गी चिंतयामास चेतसा
अयं मूढो दुष्टचेष्टः प्रचेष्टो नाम वेधसा ॥१७४॥
लिखितः किं ललाटे मे यन्मया हा हतास्म्यहम्
क्व माता क्व च मे तातः क्व च विद्याधरो वरः ॥१७५॥
अनेनाहं समानीता धिगस्तु घटनां विधेः
अलं लोकाः प्रकुर्वंति गर्वं जगति सर्वदा ॥१७६॥
वेत्ति च्छेतुं गर्ववृक्षं विधाता घटनासिना
तथापि विपदे धैर्यं निर्भयत्वं च तत्परम् ॥१७७॥
उपायाश्चेति चत्वारः प्रशस्या दीर्घदर्शिभिः
इत्यालोक्य हृदा कन्या वचोभिः कोमलाक्षरैः ॥१७८॥
प्रचेष्टं प्रत्युवाचासौ सर्वकार्यविचक्षणा
सुलोचनोवाच
दृढं कुरु मनो वीर कन्याहमविवाहिता ॥१७९॥
मां समालिङ्ग्य मोहेन कथं यास्यसि दुर्मते
शास्त्रोक्तविधिना वीर विवाहेन गृहाण माम् ॥१८०॥
तव सेवां करिष्यामि दासीवत्कोऽत्र संशयः
त्वं मे प्राणाश्च मित्रश्च भूषणं बांधवस्तथा ॥१८१॥
अनन्यगतयो नार्यो भवान्नीतिमवैति किम्
विवाहयोग्यवस्तूनि विवाहार्थं समानय ॥१८२॥
मत्पाणिग्रहणं शीघ्रं कुरु जाड्यंगृहीति च
अंतर्दृढं बहिः श्लक्ष्णं बदरीफलवद्वचः ॥१८३॥
आकर्ण्य तस्या मूढोऽसौ परमां प्रीतिमाययौ
तुरंगमं च तां कन्यां संस्थाप्यैकत्र दुर्मतिः ॥१८४॥
करकंकणमादाय तस्यास्तत्पुरमाययौ
ततः सा चिंतयामास विधिं नूनं प्रशस्यतम् ॥१८५॥
यत आवां परित्यज्य मूढोऽसौ हर्षितो ययौ
किं कर्तव्यं क्व गंतव्यं क्व स्थातव्यं मयाधुना ॥१८६॥
अतिसंकटकार्येस्मिन्निस्तारो मे भवेत्कथम्
यदाहमत्र तिष्ठमि किं वदिष्यंति ते तदा ॥१८७॥
पुण्यतीर्थं समासाद्य परत्र जन्मकाम्यया
पंचतां प्रतियास्यामि सापि श्रेयस्करी यतः ॥१८८॥
मद्वियोगादयं मूढो न विद्याधर माधवौ
जीविष्यंति त्रयोप्येते क्षणमात्रमपि स्मरन् ॥१८९॥
मयि स्थितायामेतेषां भवेज्जीवनरक्षणम्
मृतायामपि यास्यंति त्रयोऽप्येते तु पंचताम् ॥१९०॥
मामुद्दिश्य यदा प्राणाः यक्ष्यंते तेऽत्र मे जनाः
भविष्यामि तदा नूनमहं तद्वधभागिनी ॥१९१॥
इदानीं पुण्यतीर्थेषु यष्टव्यो भगवान्हरिः
तस्मिन्प्रसन्ने भद्रं मे सर्वमेव भविष्यति ॥१९२॥
प्राणेषु च विनष्टेषु सर्वमेव विनश्यति
तेषु स्थितेषु सकलं स्तोकस्तोकेन सिध्यति ॥१९३॥
निशावशिष्टा नलिनी हिमाकरे दूरीकृते चण्डकरेण भास्वता
सुगन्धपुष्पप्रकरोऽतिसुंदरी नाप्नोति किं भृंगवरस्य संगमम् ॥१९४॥
हृदा विचिंत्येति वरांगना सा सप्तिं समारुह्य महाजवं तम्
तप्तुं तपः सागरविष्णुपत्न्योर्जगाम विज्ञोत्तमसंगमाय ॥१९५॥
तस्मिन्क्षेत्रवरे पुण्ये गङ्गासागरसंगमे
वसेद्राजा सुषेणाख्यः सोमवंशसमुद्भवः ॥१९६॥
गंतुं तस्य सभां राज्ञश्चेतसा सा व्यचिंतयत्
मया युवत्या कर्तव्यं कथं भूपालदर्शनम् ॥१९७॥
अधिवासनसूत्राणि सदूर्वाणि भुजे मम
कन्याहं तुरगारूढा युवती संगवर्जिता ॥१९८॥
चारित्रं मामकं नूनं मनोविस्मयकारकम्
आत्मानं गोपयित्वाहं यास्यामि नृपतेः सभाम् ॥१९९॥
इन्द्रजालप्रभावेण सा भूत्वा पुरुषाकृतिः
प्रविवेश सभां राज्ञः सुधर्मामिव जैमिने ॥२००॥  
तं सपन्नमिवायांतं शक्तिहस्तं हयासनम्
स्वयं पप्रच्छ भूपालः कस्त्वं कुत इहागतः ॥२०१॥
तस्यैतद्वचनं श्रुत्वा सा कन्या पुरुषाकृतिः
प्रणम्योवाच राजानं सुहृदं सज्जनाश्रयम् ॥२०२॥
देव वीरवरो नाम पुत्रोऽहं पृथिवीपतेः
वर्तनाय समायातस्त्वद्राज्यं प्रति संप्रति ॥२०३॥
यद्यत्कार्यमसाध्यं स्यात्तदेव साधयाम्यहम्
मयि स्थिते न मद्भर्त्तुः कुत्रापि स्यात्पराजयः ॥२०४॥

इति श्रीपद्मपुराणे क्रियायोगसारे वीरवरप्रदर्शोनाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP