क्रियाखण्डः - अध्यायः १८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


जैमिनिरुवाच-
तीर्थश्रेष्ठमिति प्रोक्तं यत्त्वया पुरुषोत्तमम्
तन्माहात्म्यं गुरो ब्रूहि यदि ते मय्यनुग्रहः ॥१॥
व्यास उवाच-
पुरुषोत्तमस्य माहात्म्यं समासेन शृणु द्विज
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो विष्णुना विना ॥२॥
लवणांभोनिधेस्तीरं पुरुषोत्तमसंज्ञितम्
पुरं तद्ब्राह्मणश्रेष्ठ स्वर्गादपि च दुर्ल्लभम् ॥३॥
स्वयमस्ति पुरे तस्मिन्यतः श्रीपुरुषोत्तमः
पुरुषोत्तममित्युक्तं तस्मात्तन्नामकोविदैः ॥४॥
क्षेत्रं तद्दुर्ल्लभं विप्र समंताद्दशयोजनम्
तत्रस्थदेहिनो देवैर्दृश्यंते च चतुर्भुजाः ॥५॥
प्रविशन्वै तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्तयः
तस्माद्विचारणा तत्र न कर्त्तव्या विचक्षणैः ॥६॥
चाण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः
साक्षाद्विष्णुर्यतस्तत्र चाण्डालो द्विजसत्तम ॥७॥
तत्रान्नपाचिका लक्ष्मीः स्वयं भोक्ता जनार्द्दनः
तस्मात्तत्रौदनं विप्र दैवतैरपि दुर्ल्लभम् ॥८॥
हरिभुक्तावशिष्टं यत्पवित्रं भुवि दुर्ल्लभम्
अन्नं ये भुञ्जते लोकास्तेषां मुक्तिर्न दुर्ल्लभा ॥९॥
ब्रह्माद्यास्त्रिदशाः सर्वे तदन्नमतिदुर्ल्लभम्
भुञ्जते नित्यमागत्य मानुषाणां च का कथा ॥१०॥
न यस्य रमते चित्तं तस्मिन्नन्ने सुदुर्ल्लभे
तमेव विष्णुद्वेष्टारं प्राहुः सर्वमहर्षयः ॥११॥
पवित्रं भुवि सर्वत्र यथा गङ्गाजलं द्विज
तथा पवित्रं सर्वत्र तदन्नं पापनाशनम् ॥१२॥
तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तम
कृकचस्योदरप्रायं तथाप्यघविदारणे ॥१३॥
पूर्वार्जितानि पापानि क्षयं यास्यंति यस्य वै
भक्तिः प्रवर्तते यस्य तस्मिन्नन्ने सुदुर्ल्लभे ॥१४॥
बहुजन्मार्जितं पुण्यं यस्य यास्यति संक्षयम्
तस्मिन्नन्ने द्विजश्रेष्ठ तस्य भक्तिर्न जायते ॥१५॥
इन्द्रद्युम्नस्य सरसि मार्कंडेयह्रदे तथा
रोहिण्यां च समुद्रे च श्वेतगङ्गाजलेषु च ॥१६॥
स्नानं ये कुर्वते मर्त्या भक्तिभावसमन्विताः
तेषां न विद्यते जन्म पुनरस्मिन्महीतले ॥१७॥
लवणांभोनिधेस्तोयैः पितरस्तर्पिता द्विज
सर्वदुःखविनिर्मुक्ता व्रजंति हरिमंदिरम् ॥१८॥
तीर्थराजः समुद्रो ऽसौ कीर्तितस्तत्वदर्शिभिः
तस्मात्तत्र कृतं कर्म सर्वमेवाक्षयं भवेत् ॥१९॥
पित्रर्चनं तथा दानं भगवच्चरणार्चनम्
जप यज्ञं तथान्यच्च तस्मिन्क्षेत्रे मनोरमे ॥२०॥
यत्कर्म कुरुते मर्त्यो विष्णुप्रीणनहेतवे
सर्वमेवाक्षयं तच्च भवेन्नास्त्यत्र संशयः ॥२१॥
बलभद्रं सुभद्रां च कृष्णं च कमलेक्षणम्
ये मानवाः प्रपश्यंति तेषां किंचिन्न दुर्ल्लभम् ॥२२॥
अदृष्ट्वा श्रीजगन्नाथं सुभद्रां च बलं तथा
मोक्षं न लभते मर्त्यः कुर्वन्पुण्यशतान्यपि ॥२३॥
तत्र वेत्रप्रहारेण शरीरं यस्य लोहितम्
तं वंदंते द्विजश्रेष्ठ देवाः शक्रादयोऽखिलाः ॥२४॥
स्थित्वांतरिक्षे शक्राद्याः सर्वदेवगणा द्विज
विमानचारिणोऽन्योन्यं प्रवदंतीति हर्षिताः ॥२५॥
कदा मानुष्यमस्मभ्यं दास्यते कमलापतिः
मनुष्य इव गच्छामस्तदा द्रष्टुं हरिं प्रभुम् ॥२६॥
कदा वेत्रप्रहारेण क्षेत्रे श्रीपुरुषोत्तमे
भविष्यंत्यस्मदीयानि लोहितानि वपूंषि च ॥२७॥
वासवाद्याः सुराः सर्वे तस्मिन्क्षेत्रे वरप्रदे
सदा वेत्रप्रहारांश्च वांछंति द्विजसत्तम ॥२८॥
तत्राक्षयवटं ये तु भक्त्या पश्यंति मानवाः
कोटिजन्मार्जितैः पापैर्मुक्ता यांति परां गतिम् ॥२९॥
सुभद्रां बलभद्रं च जगन्नाथमनामयम्
श्वेतं माधवदेवेशं मार्कंडेयह्रदं तथा ॥३०॥
ज्यामेश्वरं हनूमंतं तत्राक्षय्यं वटं द्विज
पश्यंति भक्त्या ये मर्त्यास्तेषां मुक्तिर्हि शाश्वती ॥३१॥
दोलायमानं गोविन्दं फाल्गुनेमासि तत्र ये
पश्यंति मानवा भक्त्या तेषां पुण्यं निशामय ॥३२॥
विमुक्ताः सकलैः पापैरंते यांति हरेर्गृहम्
ज्ञानं संप्राप्य तत्रैव मोक्षं यांति सुदुर्ल्लभम् ॥३३॥
चेत्रके मासि वारुण्यां यो जगन्नाथमीक्षते
स मृतः प्रविशेद्देहं जगन्नाथस्य जैमिने ॥३४॥
वैशाखे चैव शुक्लायामेकादश्यां जगत्पतिम्
तृतीयायां च यः पश्येन्मुक्त एव स मानवः ॥३५॥
प्रविशेद्यस्तु मनुजो महास्नानं जगत्पतेः
तस्य सिद्ध्यंति विप्रर्षे सर्व एव मनोरथाः ॥३६॥
ब्रह्माद्यास्त्रिदशाः सर्वे स्थित्वाकाशे जगत्पतेः
महास्नानं प्रपश्यंति भक्तिभावसमन्विताः ॥३७॥
महाज्येष्ठ्यां च विप्रर्षे जगन्नाथमनामयम्
आलोक्य लभते मर्त्यो विष्णोस्तत्परमं पदम् ॥३८॥
गुंडिकामण्डपं यांतमाषाढे कमलापतिम्
बलभद्रं च यः पश्येत्स मुक्तो नात्र संशयः ॥३९॥
यः पश्यति जगन्नाथं रथस्थं कमलेक्षणम्
तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे ॥४०॥
रथारूढां सुभद्रां च भक्त्या पश्यंति मानवाः
छिनत्ति भगवांस्तस्य दुःखदं भवबंधनम् ॥४१॥
अपुत्रा मृतपुत्रा च या सुभद्रां प्रपश्यति
बह्वपत्या जीववत्सा सा नारी भवति द्विज ॥४२॥
दुर्भगा काकवंध्या वा सुभद्रां या प्रपश्यति
सा स्वामिसुभगा नारी बह्वपत्या भवेत्खलु ॥४३॥
गुंडिकामंडपस्थं च कृष्णं पश्यति यः पुमान्
बलभद्रं सुभद्रां च स याति परमं पदम् ॥४४॥
रोगी दुःखी च यः पश्येद्गुण्डिकामंडपे हरिम्
रोगाच्छोकाच्च सहसा जैमिने स प्रमुच्यते ॥४५॥
यस्त्वपुत्रो जगन्नाथं गुंडिकामण्डपे स्थितम्
पश्येत्स च द्विजश्रेष्ठ पुत्रं प्राप्नोति वैष्णवम् ॥४६॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
दारार्थी लभते दारान्मोक्षार्थी मोक्षमाप्नुयात् ॥४७॥
भ्रष्टराज्यो नृपो यस्तु हरिं पश्यति भक्तितः
गुंडिकामंडपे विप्र निजराज्यं लभेत सः ॥४८॥
शत्रुभिर्वर्जितो यस्तु गुंडिकामंडपे हरिम्
भक्त्या पश्यति विप्रर्षे तस्य नश्यंति शत्रवः ॥४९॥
गुंडिकामंडपे पश्येद्यो राजपीडितो भृशम्
स सद्य एव राजानं स्वकीयं वशमानयेत् ॥५०॥
सर्वासामेव यात्राणां गुंडिका प्रवरा मता
तस्मात्स मानवैः कार्या त्यक्त्वा कार्यशतान्यपि ॥५१॥
शयने च तथोत्थाने तस्मिन्क्षेत्रे मनोरमे
हरिं पश्यति यो मर्त्यः स देवैरपि पूज्यते ॥५२॥
पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ
यस्य प्रवेशमात्रेण नरो नारायणो भवेत् ॥५३॥
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया
सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमम् ॥५४॥
संसारसिन्धुमतिनिम्नमिमं तितीर्षुः क्लेशप्रदं विषमपापगणाश्रयं यः
क्षेत्रे समस्तसुखदे पुरुषोत्तमाख्ये पश्येदमुं सुरवरं पुरुषोत्तमं च ॥५५॥

इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तममाहत्म्यंनाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP