स्वर्गखण्डः - अध्यायः १०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ऋषय ऊचुः-
पृथिव्या हि परीमाणं संस्थानं सरितस्तथा
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥१॥
तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम्
आचक्ष्व तानि सर्वाणि यथाफलकराणि च
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव ॥२॥
सूत उवाच-
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥३॥
पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ॥४॥
हृतराज्याः पांडुपुत्रा वने तस्मिन्महारथाः
न्यवसंति महाभागा द्रौपद्या सह पांडवाः ॥५॥
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥६॥
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनंदनः
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ॥७॥
यथा च देवान्सावित्री याज्ञसेनी तथा पतीन्
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥८॥
प्रतिगृह्य ततः पूजां नारदो भगवानृषिः
आश्वासयद्धर्म्मपुत्रं युक्तरूपप्रियेण च ॥९॥
उवाच च महात्मानं धर्म्मराजं युधिष्ठिरम्
ब्रूहि धर्म्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते ॥१०॥
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्रांजलिर्वाक्यं नारदं देवसंमितम् ॥११॥
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत ॥१२॥
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि ॥१३॥
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥१४॥
नारद उवाच-
शृणु राजन्नवहितो दिलीपेन यथा पुरा
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥१५॥
पुरा भागीरथीतीरे दिलीपो राजसत्तमः
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥१६॥
शुभेदेशे महाराजपुण्ये देवर्षिपूजिते
गंगाद्वारे महातेजा देवगंधर्वसेविते ॥१७॥
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥१८॥
कस्यचित्त्वथ कालस्य जपन्नेव महामनाः
ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम् ॥१९॥
पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥२०॥
उपस्थितं महाराज पूजयामास भारत
स हि धर्म्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥२१॥
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नामसंकीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥२२॥
दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोहं सर्वकिल्बिषैः ॥२३॥
एवमुक्त्वा महाराज दिलीपो द्विपदां वरः
वाग्यतः प्रांजलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥२४॥
तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम्
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् ॥२५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : November 01, 2020
TOP