संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ४५

स्वर्गखण्डः - अध्यायः ४५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम्
विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात्
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् ॥१॥
मार्कंडेय उवाच-
शृणु राजन्प्रयागे तु अनाशकफलं विभो
प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् ॥२॥
अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥३॥
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान्
मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ॥४॥
युधिष्ठिर उवाच-
महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो
अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ॥५॥
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह
एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ॥६॥
मार्कंडेय उवाच-
शृणु राजन्महावीर युदुक्तं पद्मयोनिना
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ॥७॥
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम्
प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ॥८॥
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश
नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ॥९॥
एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत्
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः
न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम् ॥१०॥
युधिष्ठिर उवाच-
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः
कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ॥११॥
विक्रयं सर्वभांडानां कार्याकार्यमजानतः
प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने ॥१२॥
मार्कंडेय उवाच-
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम्
मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः ॥१३॥
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः ॥१४॥
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्
विश्रंभघातकानां तु प्रयागे शृणु तत्फलम् ॥१५॥
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत्
त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः ॥१६॥
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते ॥१७॥
स्थानं स लभते नित्यं धनधान्यसमाकुलम्
एवं ज्ञानेन संपूर्णः सदा भवति भोगवान् ॥१८॥
तारिताः पितरस्तेन नरकात्प्रपितामहाः
धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥१९॥
युधिष्ठिर उवाच-
अद्य मे सफलं जन्म अद्य मे सफलं कुलम्
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै
त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः ॥२०॥
मार्कंडेय उवाच-
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम्
कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् ॥२१॥
युधिष्ठिर उवाच-
यमुनायां तु किं पुण्यं किं फलं तु महामुने
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥२२॥
मार्कंडेय उवाच-
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना यत्र निम्नगा ॥२३॥
येनैव निःसृता गङ्गा तेनैव यमुना गता
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥२४॥
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर
कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥२५॥
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥२६॥
प्रयागे गङ्गा-यमुनयोः सङ्गमः.
अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे
पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् ॥२७॥
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे ॥२८॥
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः
तीर्थं तु विरजं नाम यत्र देवाः सवासवाः ॥२९॥
उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर
देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः ॥३०॥
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम्
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ॥३१॥
तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
गंगा च यमुना चैव उभे तुल्यफले स्मृते ॥३२॥
केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते
एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम् ॥३३॥
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ॥३४॥
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥३५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP