विश्वामित्रसंहिता - पञ्चमोऽध्याय:
विश्वामित्रसंहिता
काश्यप:---
अनिरुद्धाज्जगत्सृष्टि: साक्षादभगवतत्स्त्वया ।
उक्ता यत्सृजति ब्रह्मा लोकानित्यनुशुश्रुम ॥१॥
तत्सत्यं किमुतासत्यं महत् कौतूहलं हि मे ।
सर्तते ज्ञातुमधुना कथ्यतामखिलं गुरो ॥२॥
[विश्वामित्र:---]
देवो नरायण: श्रीमान् क्षीरार्णवनिकेतन: ।
आदौ विनोदमन्विच्छन् स्वातन्त्र्येणात्मन: प्रभु: ॥३॥
अप: सृष्टा स्वलं वीर्यं निदधे तासु चोज्जवलम् ।
हैरण्यमण्डमभवद् रविकोटिसमप्रभम् ॥४॥
तस्मादभूत् स्वयं ब्रह्मा सर्वकोपितामह: ।
तं ट्टष्टवा भगवान् विष्णुर्लोकसृष्ट्यर्थमादिशत् ॥५॥
तथेत्युक्त्वा पुनर्ब्रह्मा सनकादीन् तथासृजत् ।
तानुवाचाथ स ब्रह्मा प्रजा: सृजत पुत्रका: ॥६॥
इत्युक्ता अपि ते सर्वे तथा स्वायंभुवा द्विज ।
मनो न प्रवणं चक्रु: जगन्निर्माणकर्मणि ॥७॥
ते तु सर्वे समभवन् योगिनो विजितेन्द्रिया: ।
निर्ममा निरहंकारा रागद्वेषविवर्जिता:॥८॥
विशुद्धसत्वा: सततं तत्त्वचिन्तापरायणा: ।
इत्येवं तेषु सर्वेषु [जगत्सृष्ट्यर्थमेषु च] ॥९॥
चुकोप भगवान् ब्रह्मा स्वतन्त्रान् स्वसुतान् प्रति ।
तत: क्रुद्धस्य देवस्य ललाटात् कुटिलभ्रुव: ॥१०॥
प्रादुर्बभूव पुरुषो नीललोहितवर्णभाक् ।
नाम मह्मं ददस्वेति सोऽरोदीत् पितुरग्रत: ॥११॥
रुदन्तं तमथो टृष्ट्वा व्ययाहार प्रजापति: ।
अरोदीरिति यत्तेन रुदुनामा भविष्यसि ॥१२॥
द्विधा कुरु शरीरं ते पुत्रकेत्याह तं प्रभु: ।
ततो हृष्टमना रुद्र: शरीरं स द्विधाकरोत् ॥१३॥
अर्धेन सोऽभवन्नारी नरोऽप्यर्धेन चाभवत् ।
तस्मात्तु मिथुनान्नाता रुद्राणां कोटयोऽद्भुता: ॥१४॥
चतुर्भुजा: शूलहस्तास्त्रिनेत्रा: क्रूरमूर्तय: ।
प्रधानास्तेषु च मुने रुद्रा एकादशाभावन् ॥१५॥
ब्रह्माथ रुद्रसृष्टिं तां व्यर्थां वीक्ष्य तत: प्रभु: ।
मरीचिमद्धिं पुलहं पुलस्त्यं च भुगुं तथा ॥१६॥
दक्षं च मनसा देवसृष्ट्यर्थं निर्ममे पुन: ।
तैरेव सकलं सृष्टं जगत् स्थावरङ्गमम् ॥१७॥
इत्येवं जगत: सृष्टिं विधाय कमलासन: ।
ध्यानं परं समास्थाय पश्यन्नास्ते परं मह:॥१८॥
इति ते ब्रह्मण: सृष्टि: कथिता द्विजसत्तम ।
ब्रह्मा हरो विष्णुरिति भेदो नैवास्ति कर्हिचित् ॥१९॥.
गुणत्रयं समास्थाय भगवान् पुरुषोत्तम: ।
सृष्टिं स्थिति संहृतिं च जगत: कुरुते स्वयम् ॥२०॥
मूतीरास्थाय भगवान् ब्रह्मविष्णुशिवात्मिका: ।
विना तेन तृणाग्रं च न किंचिच्चलितुं क्षमम् ॥२१॥
काश्यप:---
किं गुणानां त्र्यं प्रोक्तमधिष्ठाय च कं गुणम् ।
किं च रूपं समास्थाय किं कर्म कुरुते पर: ॥२२॥
विश्वामित्र:---
सत्त्वं रजस्तम इति गुणत्रयुमुदाहृतम् ।
रजोगुणधिष्ठाय ब्रह्नामा सृजत्ययम् ॥२३॥
सत्त्वमास्था विष्ण्वाख्य: पालत्यखिलं जगत् ।
तमस्संश्रयणाद्रुद्ररूपी संहरति प्रजा: ॥२४॥
सृष्टिस्थितिविनाशानामेकमेव हि कारणम् ।
काश्यप:---
जानामि कस्माल्लोकोऽयमाविर्भवति सुव्रत ॥२५॥
अन्ते च कस्मिन् वसति कथ्यतां द्विजपुंगव ।
प्रसादप्रवणं चित्तं मयि चेतद् द्विजोत्तम ॥२६॥
विश्वामित्र:---
नारायणस्य द्वे रूपे पुरुष: प्रकृतिश्च ते ।
आत्मेच्छयानुप्रविश्य द्वितयं क्षोभयत्यसौ ॥२७॥
अनादिरेषा प्रकृतिस्त्रिगुणा चाविनाशिनी ।
चराचरमिदं सूते जगत् पुरुषसंश्रयात् ॥२८॥
गुणसम्ययुतात् तस्मात् पुरुषेणाप्यधिष्ठितात् ।
अभूत् तत्त्वं महन्नाम गुणैस्तैस्त्रिविधं द्विज ॥२९॥
तस्मादभूदहंकार: त्रिविध: संप्रकीर्तित: ।
वैकारिस्तैजसश्च भूतादिश्चेति नामत: ॥३०॥
वैकारिकात् सत्त्वयुतादहंकारात् बभूव ह ।
श्रोत्रत्वक्चक्षुजिह्वाग्रघ्राणमिन्द्रियपञ्यकम् ॥३१॥
रजोयुक्तादहंकारात तैजसात् पञ्च जज्ञिरे ।
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थपदानि च ॥३२॥
तमोयुक्तादहंकारात् भूतादे: समजायत ।
शब्दतन्मात्रमेतस्माद् आकाश: संबभूव ह ॥३३॥
आकशात् स्पर्शतन्मात्रं वायुस्तस्मादभूद् द्विज ।
वायोश्च रूपतन्मात्रं क्रमेणाग्निमजीजनत् ॥३४॥
अग्रेश्च रसतन्मात्रं तस्मादाप: प्रजज्ञिरे ।
अदभ्यश्च गन्धतन्मात्रमभूत् तस्मादभून्मही ॥३५॥
आकाशस्य गुण: शब्द एक एव प्रकीर्तित: ।
वायो: स्पर्शश्च शब्दश्?च द्वौ गुणौ कीर्तितौ ॥३६॥
अग्रे: स्पर्शश्च शब्दश्च रूपं चेति गुणत्रयम् ।
चत्वारोऽपां गुणा: शब्दरूपर्शरसा: स्मृता: ॥३७॥
भूमे: पञ्च गुणा: शब्दस्पर्शरूपरसा अपि ।
गन्धश्च पञ्च भूतानि जातान्येवं द्विजोत्तम ॥३८॥
नानावीर्याणि चान्योन्यसंसर्गेण विना स्वयम्
नाशकन् जगत: सृष्टौ तस्मात् संहतिमाययु: ॥३९॥
महदाद्या विशेषान्ता: प्रधापनपुरुषेरिता: ।
अण्डमुत्पादयन्ति स्म ते सर्वे लोककारणम् ॥४०॥
देवस्य पह्मनाभस्य नाभौ हेममयं बृहत् ।
तस्मात् स्वयंभूर्भगवान् तेन सृष्टमिदं जगत् ॥४१॥
एवं यथा प्रकृतितो जगदासीच्चराचरम् ।
तथा तत्रैव विप्रेन्द्र लयमेति पुन: पुन: ॥४२॥
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[जगत्सृष्टिलयकथनं नाम] पञ्चमोऽध्याय:॥
N/A
References : N/A
Last Updated : January 17, 2021
TOP