विश्वामित्रसंहिता - पञ्चविंशोऽध्याय:

विश्वामित्रसंहिता


काश्यप:---
भगवन् करुणावास कङ्लारकुसुभार्चनम् ।
दमनीदलपूजां च वक्तुमर्हसि मे गुरो ॥१॥
विश्वामित्र:---
कङ्लारकुसुमै: पूजां लक्ष्मीभर्तुर्वदाम्यहम् ।
सावधानेन मनसया तच्छुणु द्विजपुंगव ॥२॥
पुराम्बरीषो नामाभूद्राजर्षिर्धार्मिकोत्तम: ।
चक्रकतींश्वर[श्चक्रे](?) सद्वीपां सागाराम्बराम् ॥३॥
विजित्य सकलामुवीं स राजा धर्मत: प्रजा: ।
रञ्चयामस सकला: प्रजा स्वा इव भूपति: ॥४॥
अदर्शनेन कार्याणामन्येषां यज्ञपूरुषम् ।
तोषयामास बहुभिर्यज्ञै: संपूर्णदिक्षिणै: ॥५॥
एकोनमश्वेधानां शतं चक्रे महामना: ।
कर्तुं शततमं यज्ञं तुरंगं सवविसृष्टवान् ॥६॥
खैरं चरन्तमश्वं तमात्यैर्बहुभिर्वृतम् ।
पश्यतां रक्षिणां शक्रो गृढमूर्तिर्जहार ह ॥७॥
रक्षिणोऽन्विष्य सर्वत्र तुरगादिर्शनेन [तम्] (तु?) ।
विषण्णवदना भूत्वा भूमिपालं व्यजिज्ञपन् ॥८॥
पश्यता सावधानेन(ना ?)अ(प्य ?)स्माकं ते (तु ?) तुरंगम: ।
अदर्शनं गतो देव करणीयं वद प्रभो ॥९॥
इति शुत्वा गिरं तेषामम्बरीषो महीपति: ।
ऋत्विक्पुरोहिताचार्यानाहूयेदं चचोऽब्रवीत् ॥१०॥
मध्ये तुरंगमो नष्ट: किं कृत्यं वदत दिजा: ।
इत्युक्तास्ते गिरं चेमाचुर्द्विजवरा द्विज ॥११॥
अन्विष्यतां द्विजसुत: कश्चित् तेन यजामहे ।
इत्युक्तो भूमिपालस्तु द्विजसूनुं स्वकैर्धनै: ॥१२॥
[विक्रया(?)]नीतवान् मार्गे मया नीत: कुमारक: ।
मह्मं निवेदयामास याथृत्तं मयापि स: ॥१३॥
पालित: शिष्यतां प्राप्त: शुन:शेप: स वै द्विज: ।
राजापि निर्विण्णमना वसिष्ठदिमुक्तवान् ॥ १४॥
यज्ञ[विध्रार्थ(?)]मानीतो मया विप्रकुमारक: ।
सोऽपि त्रातो भगवता विश्वाभित्रेण घीमता ॥१५॥
यज्ञ: सफलतां प्राप्स्तथापि मम चेतसि ।
विप्रो विशसनार्थाय मयानीत इति द्विज ॥१६॥
वर्तते विचिकित्सा तु प्रयश्चित्तं समादिश ।
इति पृष्ट: स भगवान् वसिष्ठो मुनिसत्तम: ॥१७॥
अम्बरीषं महाराजमुक्तवान् द्विजसत्तम ।
अत्मद्वाक्येन नृपते यत्त्वया द्विजबालक: ॥१८॥
आनीतस्तव दोषोऽत्र न भविष्यति भूमिप ।
तथापि विचिकित्सा ते सर्तते यदि चेतसि ॥१९॥
ब्रह्मत्यापहं राजन् श्रुयतां व्रतमुत्तमम् ।
धन्यं यशस्यमायुष्यमारोग्यजनकं महत् ॥२०॥
विष्णो: प्रीतिकरं सर्वसंपदामेककारणम् ।
विशेषेण श्रियो देवया: प्रीणनं तद्व्रतोत्तमम् ॥२१॥
सदा धारयते देवी मीह कह्लारसूनकम् ।
द्विधाभूता स्थिता शक्तिरेकैकं(व ?)मधुविद्विष: ॥२२॥
श्रीमहीरूपभेदेन तस्माद्भूम्या करे धृतम् ।
कह्लारं भगवत्प्रीतिकारणं तत्सभाजय ॥२३॥
एवमुक्तो भगवता वसिष्ठेन महीपति: ।
कह्नारैर्देवदेवेशमर्चयित्वा श्रिय: पतिम् ॥२४॥
ऐहिकान् सकलान् भोगान् भुक्त्वान्ते वैष्णवं पदम् ।
[गच्छेदत:](?) प्रवक्ष्यामि तव तेजोऽभिवृद्धये ॥२५॥
मयाप्याराधितो देव: कह्लारै: पुरुषोत्तम: ।
ब्राह्मण्यं तपसा कलब्धं यदा कश्यपनन्दन ॥२६॥
तदा मां ब्रह्माण: पुत्रो वसिष्ठो भगवान् ऋषि: ।
ब्रह्मर्षिस्त्वमसीत्युक्त्वा तव तेतोभिवृद्धये ॥२७॥
कङ्लारैर्यज तं देवं विष्णुं सनातनम् ।
इत्युक्त्वा तद्विधिं भूय: कथयित्वा मुनीश्वर: ॥२८॥
जगामादर्शनं भूयस्तच्छ्रुत्वाहमपि द्विज ।
जी(ची?)र्णवांस्तु व्रतेनैव तदुक्त्तेनैव वर्त्मना ॥२९॥
सकृदेतेन चीर्णेन व्रतेन द्विजसत्तम(?) ।
तच्छुणुप्वा(?)वधानेन व्रतं सर्वार्थसाधन् ॥३०॥
ऋतुराजे वसन्ते वा तथा शरदि वा द्विज ।
ज्येष्ठे वा श्रावणे वापि मासे पौषेऽथ फालगुने ॥३१॥
पूर्वपक्षे तु पञ्चम्यां द्वादशीपूर्णयोरपि ।
रोहिणीश्रवणादित्येष्टूत्तरासु तथैव च ॥३२॥
यजमानानुकूलेषु मासर्क्षादिषु च द्विज ।
त्रैवर्णिकेष्वेकतमो यजमानोऽपि काश्यप ॥३३॥
प्रार्थितो यजमानेन देशिक: कारयेदिमम् ।
कह्लारं भगवद्यागं सांवत्सरिकमुत्तमम् ॥३४॥
आराधनदिनात्पूर्वं नवमे पप्तमेऽपि वा ।
तृतीये वाथ सद्यो वा मङ्गलाङ्कुरवापनम् ॥३५॥
तस्मादारभ्य कुवींत विशेषयजनं हरे: ।
मण्डपादिष्वलंकरविधि: कार्यो विशेषत: ॥३६॥
सर्वा[श्च वृतयो](श्चैवावृती:?) धाग्नो ग्राममध्यं च सर्वत: ।
तोरणै: केतुमालामि: पताकाभिश्च सुव्रत ॥३७॥
अलंकुर्यात् प्रयत्नेन यथा दिव्या भवन्तयमी ।
संकल्पित्दिनात् पूर्वदिवसे तु प्रकेतनम् ॥३८॥
समाप्य सकलं कर्म सर्वमङ्गलसंयतम् ।
कारयेद्वापिकां खात्वा(?) तस्या: पश्चिमत: प्रपाम् ॥३९॥
चतु:स्तम्भयुतामष्टस्तम्भैर्युक्त्तामथापवि वा ।
विधाय स[विधानां तं [ (वितानां तु?) समीकृत्य च भूतलम् ॥४०॥
विलिप्य गोमयेनाथा सुधाचूर्णैर्विचित्र्य च ।
तन्मध्ये पञ्चभारेण शालीनां चतुरश्रकम् ॥४१॥
विधायोपरि विस्तीर्य क्षौमं भारद्वयं पुन: ।
तण्डुलानां विनिक्षप्य भारयुग्मं तदूर्ध्वत:(?) ॥४२॥
वस्त्रोपरि तिलान् भारातीतान् निक्षिप्य देशिक: ।
तत्कृते चतुरश्रेऽथ कुम्भं गन्धाम्बुपूरितम् ॥४३॥
तन्तुवेष्ठितसर्वाङ्गं क्षौमयुग्माभिष्टितम् ।
निक्षिप्य कुशकूर्चान्तं नवरत्नसुसंयुतम् ॥४४॥
तन्मध्ये पृथिवीं देवीमावाह्मार्ध्यादिना यजेत् ।
परितश्चाष्टकलशानिन्द्रादीस्तेषु पूजयेत् ॥४५॥
सुदर्शनं च करके सर्वविध्रप्रशान्तये ।
निवेदयेत् पायसं च मनुना पार्थिवेन तु ॥४६॥
दत्वा च क्षेत्रपालाय तत्प्राच्यां पायसेन तु ।
बलिदानं च परित: शक्रादीनां तथा बलिम् ॥४७॥
दत्वा पूर्वादिशार्वान्तं भूमिर्भूग्नेतिसूक्त्तत:(कम्?) ।
अधीयानोऽपि चिनुयात् पुष्पाणि सुशुभान्यपि ॥४८॥
शङ्खकाहलतूर्यादिनृत्तगीतसमन्वितम् ।
वापि(पि?)काया नूतनानि गृह्णीयात् कुसुमान्यपि ॥४९॥
वैष्णवाश्चापि गृह्मन्तु तूण्यीं पुष्पाणि सर्वश: ।
सौवर्णे ?पात्रनिचये स्थापयित्वा पिधाय च ॥५०॥
पुष्पाणि च समाहृत्य कुम्भस्य स्थापयेत्पुर: ।
देवयाश्चोद्वासनं कृत्वा क्षामयित्वा च देशिक: ॥५१॥
गजस्कन्धाधिढैश्च वाहयेद् द्विजसत्तम ।
छत्रच्छायासु चानीतै: पठदिभ: स्वस्तिसूक्तकम् ॥५२॥
अधीयानैश्च पुरतो विप्रैर्वेदचतुष्टयम् ।
शङ्खकाहलचिह्लानां(?) संनादस(न?)पुर:सरम् ॥५३॥
तूर्यघोषैश्च पुरतो बलिरीकृतदिङ्मुखम् ।
पताकाभिर्वित्राभिश्छादितातपसंचयम् ॥५४॥
धाम प्रदक्षिणं कृत्वा गीतनृत्तान्वितं पुर: ।
देवागारं प्रविश्यैव ध्रुवबेरपुरोभुवि ॥५५॥
स्थापयित्वा च देवाय दर्शयेत् कुसुमान्यपि ।
निर्गमय्य बहि: पुष्पं मण्डपं संनिवेश्य च ॥५६॥
स्त्रातै: शुक्लाम्बरधरै: सोष्णीषैर्वैष्णवैरपि ।
धृतोर्ध्वपुण्ड्रैर्विप्राद्यैर्मालाकर्मणि कोविदै: ॥५७॥
कारयेद्विविधा मालस्तत्तद्ब्रेरप्रमाणत: ।
अधिवासस्त्रजं कुर्यादाद्यामानामिलम्बिताम् ॥५८॥
मूलबेरस्य कुसुमै: कुर्यात् पञ्चशतैर्द्विज ।
अष्टोत्तरशतै: कुर्यात् कौतुकस्यौत्सवस्य च ॥५९॥
तदर्धेन स्त्रजं कुर्या?द्देव्यो: श्रीभूमिसंज्ञयो: ।
कर्मार्चाप्रभृतीनां तु पञ्चविंशतिभि: स्त्रजम् ॥६०॥
आनामिलम्बितां कुर्याद्यथाहारविभूषणम् ।
कुम्भमण्डलकुण्डानामधिवासस्त्रजं द्विज ॥६१॥
पञ्चाशदिभ: पृथक् कुर्यात् कुसुमैर्द्विजपुंगव ।
अधिवासस्त्रज: कुर्यादेवं द्विजवरोत्तम ॥६२॥
तद्दिनस्त्रवप्रमाणानि प्रोच्यन्ते शृणु तान्यपि ।
बेराणां तु ध्रुवादीनां प्रत्येकं पञ्चमालिका: ॥६३॥
उत्तमा मध्यमा चैव तथैवाधमसंज्ञिका ।
किरीटवनमाख्ये पञ्चेव स्युर्द्विजोत्तम ॥६४॥
उत्तमां मूलबेरस्य कुर्यादष्टसहस्त्रकै: ।
कुसुमैर्जानुपर्यन्तां मध्यमामष्टभि: शतै: ॥६५॥
उरुमध्यावलम्बां तु शृणु चापि कनीयसीम् ।
षङ्भि: शतैश्च पुष्पाणां नाभिलम्बां प्रकल्पयेत् ॥६६॥
किरीटमालां कुवींत पुष्पैरष्ठोत्तरै: शतै: ।
चतु:सहस्त्रै: कुवींत वनामालां द्विजोत्तम ॥६७॥
आपादलकम्बिनीं श्लक्ष्णां वृत्ताग्रां द्विजसत्तम ।
पीठस्य चापि कुसुमैरष्टौत्तरशतै: स्त्रजम् ॥६८॥
कल्याणैतुके कुर्यादुत्तमां पञ्चभि:शतै: ।
चतु:शतैर्मध्यमां च त्रिशतैरधमां स्त्रजम् ॥६९॥
पञ्चाशदिभश्च कुसुमै: किरीटस्त्रजमादरात् ।
विदध्याद्वनमालां च कुसुमै: पञ्चभि: शतै: ॥७०॥
पीठस्यापि प्रकुवींत स्त्रजमष्टशतैर्द्विज ।
उक्ते उत्तममध्याख्ये स्त्रजावधमसंज्ञितान् ॥७१॥
त्रिद्व्रयेकशतसंख्याकै: कुसुमै: क्रमशो मुने ।
प्रमाणं पूर्ववत्प्रोक्तमेतासां कुसुमस्त्रजाम् ॥७२॥
बेराणं कर्मपूर्वाणां पुष्पैरष्टशतैर्द्विज ।
तदर्धैरथवा कुर्यात् तदर्धैरपि वा मुने ॥७३॥
तिस्रो द्वे वा तथैका वा यथासंभवमेव वा ।
कुम्भमण्डलकुण्डान्तर्वर्तिन: पुरुषस्य च ॥७४॥
शतद्वयेन पुष्पाणामुत्तमा स्यातु मालिका ।
अध्यर्धशतपुष्पैस्तु मध्यमा परिकीर्तिता ॥७५॥
कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।
तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ॥७५॥
कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।
तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ॥७६॥
पह्मनाभ्यन्त(र)नेमीनां श्रितानां चाक्रमण्डलम् ।
तत्प्रमाणस्थितं कार्यं शतं द्वित्रिचतुर्गुणै: ॥७७॥
पुष्पै: कार्या: स्त्रजो बाह्मे तत्प्रमाणाश्च मालिका: ।
चतु:सहस्त्रै: पुष्पाणां मालिका द्विजपुंगव ॥७८॥
प्रभाया: कौतुकानां स्युर्मालास्तत्प्रमाणका: ।
उत्सवार्चाभायास्तु सहस्त्रद्वयसंख्यकै: ॥७९॥
पुष्पैर्माला?? विधातव्या सेनापक्षीशयोरपि ।
चण्डादीनां च सर्वेषामिन्द्रादीनां च कारयेत् ॥८०॥
प्रत्येकं मालिका: कार्या: पुष्यैस्त्रिंशतमै(न्मिते?)र्मुने ।
अन्येषां परतन्तस्त्रायां बिम्बानामपि काश्यप ॥८१॥
अष्टोत्तरशतैरेबमलंकुर्याद्विचक्षण: ।
आनाभिलम्बिता: कार्या हाराकरा द्विजोत्तम ॥८२॥
अनेन बर्त्मना कार्या: पुष्पाणां संभवे सति ।
असंपत्तौ तु पुष्पाणामर्धै: पादैरथापि वा ॥८३॥
यथासंभवमेव स्यात् क्रियामेतां न लोपयेत् ।
मालागणं विधायेत्थमभ्युक्ष्य हिमवारिणा ॥८४॥
स्वर्णपात्रेषु विन्यस्य सितै: सूत्रैर्नवाम्बरै: ।
पिधाय चक्रमुद्रां च कृत्वास्त्रेणाभिपूज्य च ॥८५॥
चक्रब्जपूर्वभागे तु पञ्चभि: शालिभारकै: ।
[भूपुरं(?)] कल्पयित्वैव तदूर्ध्वे नववाससा ॥८६॥
आस्तृये तण्डुलान् न्यस्य भारद्वयमितानपि ।
तदूर्घ्वे वाससास्तीर्णे तिलभारान् विनिक्षिपेत् ॥८७॥
चतुरक्षं विधायाथ तिलैस्तस्योपरि न्यसेत् ।
पुष्पपात्राणि सर्वाणि संवेष्ट्य च नवाम्बरै: ॥८८॥
गुरु: स्त्रात: शुचि: स्रग्वी नवसूत्राम्बरद्वश्य: ।
चदनेन विलिप्ताङ्गो हिमवार्याप्लुतेन च ॥८९॥
हारकेपूरकटककुण्डताद्यैरलंकृत: ।
सोत्तरीय: सितोष्णरष: स्वर्णयज्ञोपवीतिमा(तवा?)न् ॥९०॥
सपवित्र: साङ्गलीयो रत्नमुद्राविभूषित: ।
श्वेतमृत्स्त्राविरचितैरूतैर्ध्वपुण्ड्रैरलंकृत: ॥९१॥
केशवाद्याख्यसंयुक्तैर्देशिकेर्द्विजसत्तमै: ।
यजमानेन सहित: ऋत्विग्भिर्भूषितैर्वरै: ॥९२॥
धामान्त: संप्रविश्यैव देवं विज्ञापयेत्तत: ।
प्रणम्य दण्डवद् भूमौ कृताञ्चलिपुट: स्थित: ॥९३॥
भगवन् आर्तिहरण भक्तानां पुरुषोत्तम ।
कह्लाकुसुमैर्देव त्वद्धितैरर्चयाम्यहम् ॥९४॥
[दयामपि(?)]च सर्वेश तदनुज्ञातुमर्हसि ।
विडम्बनानि मे देव क्षान्ता पूजां जुषस्य मे ॥९५॥
इति विज्ञाप्य लक्ष्मीशं सविशेषं सभाज्य च ।
निवेद्य च इति: कृत्स्त्रं पुण्याहं वाचयेत्तत: ॥९६॥
निष्कैस्तु दशभि: कुर्यात् कौतुकं ध्रुवविग्रहे ।
त्रिभिर्निष्कै: सुवर्णस्य बिम्बे कल्याणसंज्ञिते ॥९७॥
कौतुकं दक्षिणकरे बध्वा देवयोर्गुरोरपि ।
प्रत्येकं निष्कमानेन कौतुकानि विधाय वै ॥९८॥
करेषु बध्वा च पुनस्तथा देवं प्रणम्य च ।
आरोप्य शिबिकां नीत्वा सर्वाभरणभूषितम् ॥९९॥
देवं मण्डपमासद्य पूर्ववद्वस्त्रभूषितम् ।
स्वनुकलप्तं सुधाचूर्णविचित्रिततलं तथा ॥१००॥
वितानध्वजमुक्तास्त्रग्भूषितोर्ध्वप्रदेशकम् ।
कह्लारमालासंवीतस्थूणागणविराजितम् ॥१०१॥
प्रलम्बिताभि: सर्वत्र कह्लारस्त्रग्भिरुज्जवलम् ।
कह्लापुष्पराचितविमानवरशोभितम् ॥१०२॥
चतुर्षु द्वारदेशेषु विनिवेशिततोरणम् ।
प्रतितोरणसंक्लृप्तत्स्त्रक्चन्दनमालिकम् ॥१०३॥
तस्मिन् यानादवारोप्य सिंहपादाष्टकोज्जले ।
कह्लारुष्परचितकल्पद्रुमविभूषिते ॥१०४॥
लम्बमानाभिरभित: कह्लारस्त्रग्भिरुज्जवले ।
विष्टरे विनिवेश्याथ देवं चात्र सभाजयेत् ॥१०५॥
आगत्य देशिकवर: पूर्वमेवात्र मण्डपे ।
मण्डलं कारयेद्विद्वान् ऋत्विग्भि: सहितो मुने ॥१०६॥
चक्राब्जं स्वस्तिकं वाथ भद्रकं वा द्विजोत्तम ।
मण्डलस्य बहि: कुर्यादैशान्ये धान्यसंचये(यम्?) ॥१०७॥
?सथावयेच्च महाकुम्भं सूत्रवेष्टितमुत्तमम् ।
क्षौमयुग्मेन संवीतं सूक्ष्मेन सदशेन च ॥१०८॥
नवरत्नानि तन्मध्ये निक्षिप्य शुचिवारिणा ।
पूरयेच्चन्दनादीनां गन्धानां चापि संचयम् ॥१०९॥
तत्तोये विन्यसेद्विद्वान् कुश(शान् ?) कूर्चं च विन्यसेत् ।
करकं चापि संवेष्ट्य पूरयित्वा सरत्नकम् ॥११०॥
कूर्च च विन्यसेन्मन्त्री कुम्भं दक्षिणतो न्यसेत् ।
एवं विधायाष्टकुम्भान् मण्डलस्याष्टदिक्ष्वपि ॥१११॥
स्थापयित्वाग्रिकुण्डं च कुर्यादुत्तरतो द्विज ।
परितो द्वारपार्श्वेषु कुम्भानवे विधाय च ॥११२॥
कुम्भानष्टौ च विन्यस्य सर्वान् कुग्भांश्चतुर्दिशि ।
संवेष्ट्य वस्त्रयुग्मेन वेष्टियित्वा सरत्नकान् ॥११३॥
सकूर्चान् मध्यनिक्षिप्तसौवर्णाष्टमहायुधान् ।
कृत्वा सर्वेषु कुम्भेषु महाश्वतथासमुदभवान् ॥११४॥
पल्लवानपि विन्यस्य कलशान् स्थापयेत्तत: ।
अष्टोत्तरशतं वाथ तथैकाशीतिमेव वा ॥११५॥
धान्यराशिषु विन्यस्य शास्त्रोक्तेनैव वर्त्मना ।
सकूर्चान् सापिधानांश्च पूरितान् गन्धवारिभि: ॥११६॥
छादयित्वैव वासोभि: शयनं कल्पयेत् पुन: ।
चतुरश्रे तु भूभागे गोमयाम्भोविलेपिते ॥११७॥
चूर्णै: सुधामयै: सूक्ष्मैर्पिचित्रिततलोदरे ।
दशभारेण शालीनां चतुरश्रं प्रकल्प्य च ॥११८॥
तस्योपिरिष्टादास्तीर्य सुशुभं सवनं नवम् ।
तस्यो?परि च विन्यस्य शालितुल्यप्रमाणकान् ॥११९॥
तण्डुलांश्च तदूर्ध्वं(र्ध्वे ?) तु तस्य(?) विस्तारयेत् पटम् ।
तिलानपि च तन्मध्ये निक्षिपेत् पूर्वसंमितान् ॥१२०॥
क्षौमेणाच्छाद्य तान् पश्चादुपरिष्टात् कृतान(न्य ?)पि ।
विचित्राणि सुसूत्राणि वासांस्यास्तीर्य चो?परि ॥१२१॥
मूर्धोषधानं विन्यस्य पादयोरपि पार्श्वयो: ।
पाणिपादविनिक्षेपयोग्यानि मृदुतूलकै: ॥१२२॥
कल्पितान्पुपधानानि विन्यस्य च तदूर्ध्वत: ।
प्रच्छाद्य सूक्ष्मवसनौर्दिक्ष्वष्टष्टकुम्भकान् ॥१२३॥
स्थापयित्वा च पूर्वोक्तविधानेन गुरूत्तम: ।
परित: स्थापयित्वा च मङ्गल्कुरपालिका: ॥१२४॥
धूपयेत् परितो धूपैश्चन्दनैश्चगारूत्तमै: ।
मुद्‌ग्रान् माषांस्तिलांश्चैव गोधूमान् सकुलुत्थकान् ॥१२५॥
निष्पावान् राजमाषांश्च सर्षपान् यवसंयुतान् ।
व्रीहीनपि च वियस्य प्रत्येकं शिवसंमितान् ॥१२६॥
फलानि कदलीनां च पनसानां च काश्यप ।
चूतानां नालिकेराणां लिकुचानां च सत्तम ॥१२७॥
निधाय मातुलुङ्गानां क्रमुकाणां फलान्यपि ।
ताम्बूलदलपूगं च हरिद्रा: सरसा अपि ॥१२८॥
मङ्गलान्यष्ट परित: श्रीवत्सं वनमालिकाम् ।
मत्स्ययुग्मं पूर्णकुम्भं स्वस्तिकं दर्पणं तथा ॥१२९॥
शङ्गं चक्रं च निष्केण स्वर्णस्य च पृथक् पृथक् ।
कारयित्वा च संस्थाप्य देवं विज्ञाप्य देशिक: ॥१३०॥
आसीनो देवपुरत: कृत्वाङ्गन्यासर्पकम् ।
अर्ध्यादीनां च पात्राणां स्थापनं च विधाय च ॥१३१॥
कलशानर्चयित्वा च कुम्भसंनिहितं हरिम् ।
आराध्य मण्डलस्थं च कुण्डेऽग्रिं विनिवेकश्य च ॥१३२॥
देवं संपूज्य विधिवन्मन्त्रासनपूरस्क्रियाम् ।
समर्य्य स्त्रानवेद्यां(दिं ?)च देवमध्यास्य पूजनम् ॥१़३३॥
विधाय च क्रमाद्देवं स्त्रापयेत् कलशोदकै: ।
सहस्त्रधारापयसप्यभिषिच्य विधाय च ॥१३४॥
नीराजनक्रियां चैवमलंकारासनं नयेत् ।
भूषयित्वा च या(मा ?)त्रान्तं संपूज्य च यथाविधि ॥१३५॥
भोज्यविष्टरगं देवं सभाज्यार्ध्यादिना तत: ।
मधुपर्कं निवेद्याय ताम्बूलं विनिवेद्य च ॥१३६॥
सवत्सं धेनुयुगलं स्त्रग्भिश्च समलंकृतम् ।
हेमसंकल्पितखुरं शृङ्गवेष्टितमर्चितम् ॥१३७॥
आचार्याय प्रदायाथ दत्वा धान्याष्टकं तत: ।
कुम्भमण्डलीबम्बेषु पञ्चवर्णान्नसंचयम् ॥१३८॥
निवेद्य लेह्मपेयानि विनिवेद्य महाहवि: ।
अपूपसहितं पश्चात् ताम्बूलं मुखवासनम् ॥१३९॥
विनिवेद्य च सर्वेषां बेराणां च विशेषत: ।
देवयोश्च सर्वेभोगाढ्ये विधाय च सभाजनम् ॥१४०॥
तिलान् वस्त्रं सुवर्णं च रत्नं तण्डुलानपि ।
ताम्बूलं घृतपात्रं च दत्वाचार्याय दक्षिणाम् ॥१४१॥
तत: कुण्डसमीपं च गत्वावाह्म च पावके ।
देवं समिद्घृतचरुहोमं च सुविधाय च ॥१४२॥
कह्लारकुसुमैराज्यसंपृक्तैर्जुयात्तत: ।
अष्टोत्तरसहस्त्रैश्च शान्तिहोमं विधाय च ॥१४३॥
भस्मना तिलकं कृत्वा देवमुद्वास्य चाग्रिगम् ।
गत्वा सकशं देवस्य हवनं च समर्प्य च ॥१४४॥
बलिं च दत्वा परित: कुमुदादिगणस्य च ।
संप्रार्थ्य देवदेवेशमानीय कुसुमस्रज: ॥१४५॥
शङ्खकाहलतूर्यादिनादयुक्तं पृथक् पृथक् ।
कुम्भे च मण्डले चैव कुण्डे चैकेकश: स्त्रज: ॥१४६॥
अधिवासाय विविहता विनिवेश्यौत्सवेऽपि च ।
बिम्बे देवयोश्च धामान्तर्गत्वा मूलादिकेष्वपि ॥१४७॥
बिम्बेषु विनिवेश्याथ पुनर्गत्वा च मण्डपम् ।
देवं क्षमापयित्वा च शयने चाधिरोपयेत् ॥१४८॥
तत्रस्थस्य च देवस्य देवीभ्यो सहितस्य च ।
धान्यपात्रादिसकलान् दर्शयित्वा पृथग्विधान् ॥१४९॥
यथापुरं संनिवेश्य शयने चापि शाययेत् ।
श्रीभूमिसहितं देवं प्राङ्मूर्धानं द्विजोत्तम ॥१५०॥
कम्बलै: सितरक्ताद्यैर्देवार्हैरवकुण्ठ्य च ।
दिक्ष्वष्टासु स्थापयित्वा हेतीश्चक्रादिका: पृथक् ॥१५१॥
यजमानेन सहितो जाग्रदेवं नयेन्निशम् ।
स्तोत्रेश्च वेदघोषैश्च गीतैर्नृत्तैश्च देशिक: ॥१५२॥
प्रभाते गुरुरुत्थाय स्त्रात्वा नित्यविधिं द्विज ।
समापय्य ततो गत्वा देवपार्श्वं च देशिक: ॥१५३॥
प्रणम्य देवमुत्थाप्य विष्टरे चोपवेश्य च ।
कुम्भाते गुरुरुत्थाय स्त्रात्वा देवपार्श्वं च देशिक: ॥१५४॥
अर्ध्यादिमुधपर्कान्तं देवं च स्त्रानवेदिकाम् ।
अधिरोप्य तत: कुम्भै: स्त्रापयित्वाधमोत्तमै: ॥१५५॥
अलंकृत्या यथापूर्वं विष्टरे विनिवेद्य च ।
अर्चयित्वा यथापूर्वं हवीषि विनिवेद्य च ॥१५६॥
महा?हवश्च दशाभिस्तण्डुलानां कृतं तथा ।
भारै: सर्वफलोपेतै: सर्वव्यञ्जनसंयुतै: ॥१५७॥
प्लतैर्धृतेन गव्येन गालितेन शुभेन च ।
अपूपपृथुकाद्यैश्च खाद्यवर्गै: सुसंस्कृतै: ॥१५८॥
निवेदयित्वा बिम्बानां ध्रुवादीनां च सत्तम ।
अग्रौ च हुत्वा विधिवत् समिष: सप्त देशिक: ॥१५९॥
पूर्णामपि विधायाथ देवाय विनिवेद्य च ।
समये शोभने प्राप्ते यजमानशुभावहे ॥१६०॥
अर्चयित्वा यथाकुम्भं कुण्डमण्डगं हरिम् ।
[बहिर्म](वह्लिम?)ध्ये स्थितं देवं बिम्बस्थमपि तं प्रभुम् ॥१६१॥
अर्चयित्वा विधानेन द्वारतोरणापूर्वकम् ।
कुम्भस्य कल्पिता माला: सकला विनिवेश्य च ॥१६२॥
मण्डलस्य च कुम्भस्य माला: सर्वा द्विजोत्तम ।
कल्याणैतुकं चैव परिभूष्य विधाय च ॥१६३॥
बलिपीठावसानं च भूषयित्वा समन्तत: ।
प्रासादं चापि तत्संस्थं देववृन्दं च देशिक: ॥१६४॥
पवित्रैरिव मालाभि: परिभूष्य समन्तत: ।
कुसुदादिगणं सर्वमिन्द्रादीनापि सर्वत: ॥१६५॥
तर्पयित्वा बहुविधैर्बलिभिर्वास्तुदेवता: ।
धान्यपात्राणि सर्वाणि मड्गलानि तथाष्ट च ॥१६६॥
फलानि च समस्तानि ताम्बूलीपूगिकाश्च ता: ।
देवाय दर्शयित्वा तत्सकलं देशिक: स्वयम् ॥१६७॥
शयनादि समस्तं च गृह्णीयात् स्वयमेव तत् ।
कुम्भमण्डलकुण्डादिसंस्थितं देवतागणम् ॥१६८॥
उद्वास्य पुष्पयागोक्तविधिना कुम्भपूर्वकम् ।
वाहने देवदेवेशं रथादावधिरोप्य तम् ॥१६९॥
ग्रामं वा धाम वा सर्वं परिभ्राम्य प्रदिक्षणम् ।
गर्भगेहान्तरं नीत्वा देवं कुम्भस्थवारिणा ॥१७०॥
प्रोक्षयित्वा ततस्तत्र देवं सम्यङ्निवेष्य च ।
संप्रार्य्य देवदेवेश यजमानेन संयुत: ॥१७१॥
गृहाण देवदेवेश कह्लारकुसुमै: कृताम् ।
त्वद्दत्तैर्भोगनिचयै:संपूर्णां सर्वकामदाम् ॥१७२॥
इति विज्ञाप्य देवेशं प्रणिपत्य क्षमापयेत् ।
तस्मिन् काले च गुरवे यजमानस्तु दक्षिणाम् ॥१७३॥
[दद्यान्निष्कशतं स्वर्णकतं](?) यद्वा तदर्धकम् ।
पशून् गृहाणि ग्रामांश्च वस्त्राणि विविधान्यपि ॥१७४॥
अन्येभ्यश्चापि ऋत्विग्भय: सहकारिजनाय च ।
तत्तकार्यानुरूपेण प्रदद्याद्दक्षिणामपि ॥१७५॥
गायकेभ्यो नर्तकेभ्यो वेदविद्भ्यश्र सर्वत: ।
वादकेभ्यश्च तूर्याणामुपकारिभ्य एव च ॥१७६॥
संप्रीणनार्थं निष्काणि वस्त्राणि विविधान्यपि ।
प्रदपयेद्यथाशक्ति वित्तशाठ्यं न कारयेत् ॥१७७॥
प्रभातायां रज्न्यां च पूजाया अवसानके ।
जपनीय च माल्यानि वैष्णपेभ्य: प्रदापयेत् ॥१७८॥
ये धारयन्ति शिरसा देवभुक्तोज्ज्ञितानि तु ।
माल्यानि तानि ते सर्वे दुष्कृतं सप्तजन्मजम् ॥१७९॥
अवधूय प्रपद्यन्ते विष्णुलोक पुनर्नरा: ।
य: कारयति विप्रेन्द्र पूजोमेतां मधुद्विष: ॥१८०॥
अकिंचनोऽपि लभते पृथ्वीराज्यमकण्टकम् ।
भुक्त्वा च विविधान् भोगानिह लोके सुदुर्लभान् ॥१८१॥
गजाश्वरथनागा(?) ढ्यान् पुत्रपौत्रसमन्वितान् ।
यशसा भुवनं सर्वं धवलीकृत्य मानव: ॥१८२॥
पितॄनपि समुत्तार्य दश पूर्वान् दशावरान् ।
देहान्ते परमं धाम प्राप्रोत्यपुनरागतिम् ॥१८३॥
आचार्यमपि तं देवभुक्तोच्छिष्टस्त्रगादिभि: ।
अलंकृत्य गजाश्वादियानमारोप्य चाग्रत: ॥१८४॥
भेरीकाहलशङ्खादिवाद्यधोषपुर:सरम् ।
वेदविदिभर्द्विजश्रेष्ठै: सेव्यमानं समन्तत: ॥१८५॥
छत्रचामरसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
प्रवेशयेत् स्वकं गंहं सर्वङ्गलसंयुतम् ॥१८६॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
कह्लारकुसुमारोपणं (णविधि:?) नाम पञ्चविंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP