विश्वामित्रसंहिता - दशमोऽध्याय:
विश्वामित्रसंहिता
काश्यप:----
आराधनविधिं ब्रह्मन् मम वक्तुं त्वमर्हसि ।
येन सम्यक् कृतेनाहं तरामि भवसागरम् ॥१॥
विश्वामित्र:---
आराघनविधिं वक्ष्ये शृणु कश्यपनन्दन ।
संसारपाशबद्धानां विमुक्तेर्हेतुमञ्जसा ॥२॥
शुद्धेनैव हि कर्तव्या विष्णोराराधनक्रिया ।
स्त्रानेनापि भवेच्छुद्धि: शरीरस्य विचक्षण ॥३॥
तस्मात् स्त्रानं प्रवक्ष्यामि शृणुष्वैकाग्रमानस: ।
स्त्रानं सप्तविधं प्रोक्तं वाव्यं पार्थिवं तथा ॥४॥
दिव्यं वारुणमाग्रयं मानसं मात्रमित्यपि ।
गच्छन्तीनां गवां पादैरुद्यतां वायुना हृताम् ॥५॥
धूलिं संधारयेन् मूर्ध्रा वाव्यं तत् प्रचक्षते ।
प्रशस्तवैष्णवक्षेत्रतातया श्वेतमृत्स्रया ॥६॥
मू?तीनां केशवादीनां नामोच्चारणपूर्पकम् ।
ललाटादिषु यद्ग्रात्रे ऊर्ध्वपुण्ड्रस्य धारणम् ॥७॥
तत्पर्थिवं भवेत् स्त्रानं योगिवर्यैर्निषेवितम् ।
निरभ्रपटलव्योम्रि वर्षे जाते च सातपे ॥८॥
तेन संप्लावनं यत्स्यात् तद्दिव्यं स्त्रानमुच्यते ।
नद्यादिषु तटाकेषु सर्वैर्यदवगाहनम् ॥९॥
स्त्रानं तु विधिवद्यत्तद्वारुणं परिचक्षते ।
समिदिभर्गोमयै: स्वस्य हवने विहिते सति ॥१०॥
तदभस्म संगृह्म करे मन्त्रेणैवाभिमन्त्र्य च ।
यदूर्ध्वपुण्ड्रकरणमाग्रेयं स्त्रानमेव तत् ॥११॥
पादौ प्रक्षाल्य चाचम्य धौतवासेयुगं दधत् ।
आसीनश्चासने शुद्धे प्राणानायन्य वाग्यत: ॥१२॥
हृत्पुडरीकसंस्थस्य हरेर्यत् स्मरणं पुन: ।
करोति मानसं तत्स्यात् स्त्रानं स्त्रानेषु पूजितम् ॥१३॥
आपो हि ष्ठेति मन्त्राणामुच्चारणपुरस्मरम् ।
कुशग्रै: शुचिभिस्तोयै: प्रोक्षणं यद्विधीयते ॥१४॥
तन्मान्त्रं स्त्रानमित्युक्तं सप्तैतान्युदितानि ते ।
कृत्वापि वारुणं पूर्वमितरेषां विधिर्मवेत् ॥१५॥
तस्मान्योच्यते स्त्रानं वारुणं तच्छृणु द्विज ।
नदीसरित्तटाकादि गत्वा दक्षिणतीरग: ॥१६॥
उदकाञ्जलिभि: पूर्वं तीरं संशोध्य तत्र च ।
निधाय तत्र स्त्रानीयं धौतं वस्त्रयुगं तत: ॥१७॥
शुचेर्देशात् समानीय मृत्तिकां विभजेद् द्विधा ।
कुर्यादेकेन भागेन शरीरपरिशोधनम् ॥१८॥
स्त्रानीयादिभिरन्यैश्च शिर:प्रभृति शोधयेत् ।
स्त्रात्वाचन्य मृदो भागं स्थापितं विन्यसेत् त्रिधा ॥१९॥
एकं वामकरे कृत्वा एकं दिग्बन्धमाचरेत्॥
भागेनान्यरेणैव लिम्पेद्ग्रात्रं स्वकं पुन: ॥२०॥
अवशिष्ठेन वै पीठं तेन तीर्थस्य कल्पयेत् ।
तत्र गङ्गां स्मरेद्ग्रिष्णोर्वामपादाब्जनि:सृताम् ॥२१॥
अर्ध्यादिकं निवेद्याथ समाहृत्य जलाञ्जलिम् ।
त्रीन् वारान् सप्त वा मन्त्रानुच्चार्य शिरसि क्षिपेत् ॥२२॥
हृदि नारायणं देवं ध्त्यात्वा तत्पादपह्मयो: ।
अधो निवेश्य स्वशिरो यथाशक्ति जपेन्मनुम् ॥२३॥
उत्तीर्य पश्चादाचम्य शुद्धवासेयुगं दधत् ।
कृतोर्ध्वपुण्ड्रकरणो देवर्षिपितृरूपिणम् ॥२४॥
ध्यायेद्देवं तर्पयित्वा स्वसूत्रोक्त्तेन वर्त्मना ।
विधायाह्निकशेषं च कृत्वोपस्थानकं रवे: ॥२५॥
आगम्य यागसदनं प्रक्षाल्य पदयोर्युगम् ।
आ जानु हस्तुग्मं च प्रक्षाल्या मणिबन्धनात् ॥२६॥
आचम्य द्वारमाश्रित्य उङ्गन्यासपुरस्सरम् ।
पाणिभ्यां ताडनं चैव कृत्वा द्वारस्य संमुखम् ॥२७॥
विधाय चाग्रिप्राकारं तर्जन्या चोर्ध्वसंस्थया ।
कवाटं वायुमन्त्रेण समुद्धाठ्यान्तरं व्रजेत् ॥२८॥
देवव्रतं साम जपन् ?दक्षिणाङ्घ्रिपुरस्सरम् ।
गन्धादिसंभारयुतं जप्त्वा वरुणमन्?त्रकम् ॥२९॥
द्वा:स्थानामर्चनं कृत्वा सर्वेषां मण्डपं व्रजेत् ।
सर्वमङ्गलसंयुक्तं रत्नकुट्टिमिसंयुतम् ॥३०॥
सौवीरतोणैश्चापि ध्वजैश्च समलंकृतम् ।
मणिकिङ्किणिमालाढ्यं मणिपीठविचिव्रकम् ॥३१॥
माणिक्यमालिका[भिश्च] (युक्तं?)लम्बमालाविराजितम् ।
एवं कर्तुमशक्तश्चेत् मनसैवं स्मरेद्बुध: ॥३२॥
गत्वा च देवपुरत: पुण्डरीकाक्षविद्यया ।
प्रणन्य दण्डवद् भूमावुत्थाय रचिताञ्जलि: ॥३३॥
आरोप्य दीपनिकरं मालाद्यपि निरस्य च ।
पात्रप्रक्षालनं कृत्वा निर्गते परिचारके ॥३४॥
शुक्लाम्बरयुगं बिभ्रत् सर्वालंकारभूषित: ।
स्त्रग्भिर्विलेपनै: श्वेतैरलंकृतशरीक: ॥३५॥
ऊर्ध्वपुण्ड्राणि पिन्यस्य द्वादश श्वेतमृत्स्रया ।
देवस्य दक्षिणे पार्श्वे वृस्यादावासने शुभे ॥३६॥
उस्त्रमन्त्रेण संशुद्धे स्वयमासीत वाग्यत: ।
बध्वा पह्मासनं वाथ स्वस्तिकासनमेव वा ॥३७॥
शङ्खकाहलसंश्रिं तूर्यघोषं प्रवर्त्य च ।
तिरस्करिण्या द्वारं च निच्छिद्रमपिधाय च ॥३८॥
संकल्प्य वह्निप्राकारं तन्मन्त्रेणात्मनो बहि: ।
चक्रमन्त्रेण चाब्ध्य चक्रमुदां स्वरक्षणम् ॥३९॥
विधायेत्थं तत: कुर्यात् प्राणायामत्रयं क्रमात् ।
इत्थं स्वरक्षणं कृत्वा योगमुद्रां विधाय च ॥४०॥
नाभिकन्दे चतुष्कोणे मण्डले वायुसंज्ञिते ।
तद्बीजं मनसा ध्यात्वा तत्समुत्थेन वायुना ॥४१॥
धूम्रवर्णेन देहसथं पाप्मानमपि शोष्य च ।
हृदब्जान्तस्त्रिकोणस्थं वह्निबीजं विचिन्त्य च ॥४२॥
रक्तवर्णं तदुत्थाग्रिज्वालाभि: कल्मषं दहेत् ।
पीताभं कण्ठदेशे च माहेन्द्रं चतुरश्रकम् ॥४३॥
बीजं विधाय ज्वलनमुत्थितं वायुना सह ।
स्तम्भयेत् कुमभकेनैव मूर्ध्रि स्फटिकसंनिभम् ॥४४॥
वर्तुलं मण्डलं ध्यात्वा वारुणं तस्य मध्यभाक् ।
तद्बीजनि:सृतेनैव क्षालयेदमृताम्भसा ॥४५॥
आ पादादा च मूर्ध्रश्च शरीरं सर्वतस्तत: ।
भूमिप्रभृतितत्त्वानि?नि सावधानेन चेतसा ॥४६॥
संहारक्रमयोगेन कारणेषूपसंहरेत् ।
आ पादादा च जान्वन्तं पृथिवीस्थानमुच्यते ॥४७॥
तत्रस्थं पञ्चगुणितं पीताभं चतुरश्रकम् ।
घ्राणोपस्थसनायुक्तं तन्मात्रालक्ष्यते तत: ॥४८॥
गन्धे संहृत्य पश्चात्तमप्सु चैवोपसंहरेत् ।
आ जानो: [पायु](नाभि?)पर्यन्तं [वायु](अपां ?)स्थानं विदुर्बुधा: ॥४९॥
तस्माच्च्तुर्गुणा आप: श्वेताश्चन्द्रार्धसंस्थिता: ।
रसनां पायुसंयुक्तां गन्धतन्मात्रया सह ॥५०॥
रसे संहृत्य पश्चात् तं संहरेत् तेजसि द्विज ।
नाभेर्हृदयपर्यन्तं वह्निस्थानं प्रकीर्त्यते ॥५१॥
तत्संस्थं त्रिगुणं त्र्यश्रं पाटलं वह्निमुज्जवलम् ।
सरसं टृष्टिपादाभ्यां रूपे संहृत्य तत्पुन: ॥५२॥
वायौ संहृत्य हृदयादा भ्रूमध्यं मरुस्त्थिति: ।
तत्स्थं वायुं धूम्रवर्णं द्विगुणं रूपसंज्ञितम् ॥५३॥
संहृत्य ततस्पर्शगुण खे चैव पुनराहरेत् ।
आ भ्रूमध्याच्छिरोऽन्तं च गगनस्थानमुच्यते ॥५४॥
तत्थं शब्दगुणं नीलं श्रुतिवाक्सहितं तत: ।
संहरेत् स्पर्शसंसुक्तं शब्दतन्मात्रमध्यत: ॥५५॥
संहृत्य शब्दतन्मात्रं खान्ते तच्चाप्यहंकृतौ ।
तां बुद्धौ प्रकृतौ तां च तां जीवे सवासनाम् ॥५६॥
तं सूक्ष्मं नाभिचक्रस्थं सूर्यप्रतिमतेजसम् ।
पह्मसूत्रा[ह](भ ?)या नाङ्या सूक्ष्मया च सुषुम्रया ॥५७॥
वायुना कुम्भकेनोर्ध्वं शनैरारोहयेत्तत: ।
निर्भिद्य ब्रह्मणो रन्ध्रं देहादूर्ध्वं विनिर्गतम् ॥५८॥
रविबिम्बं प्रविश्योर्ध्वमुत्थितं चाशरीरिणम् ।
परं ब्रह्म प्रविष्टं तं जीवं ध्यात्वा समाहित: ॥५९॥
वह्निबीजेन पादाग्रसंस्थितेनोज्जवलत्विषा ।
योनिजं स्वशरीरं तु दग्धं सर्वं विचिन्त्य च ॥६०॥
ध्यायेन्निवृत्तिगीजं खे चन्द्रकोटिसमप्रभम् ।
तदुत्थे चामृतमये जलधौ श्वेतपङ्कजम् ॥६१॥
ध्यात्वा तु जीवं संभूतं परस्माद्ब्रह्मणो मुने ।
जीवाच्च प्रकृतिं तस्या बुद्धिं बुद्धेरहंकृतिम् ॥६२॥
[तस्मान्म](स्या म ?) न: समुत्पन्नं शब्दतन्मात्रमप्यत: ।
तस्माज्जातं वाक्श्रुतिभ्यां सहकाशं विचिन्येत् ॥६३॥
शब्दैकगुणकाकाशात् स्पर्शतन्मात्रमुत्थितम् ।
युक्तं शब्दस्पर्शरूपैश्चक्षु:पादसमन्व्रितम् ॥६४॥
अग्रेश्च रसतन्मात्रं तस्मादापश्चतुर्गुणा: ।
सायुजिह्ना: संजातस्ताभ्या वै गन्धमात्रकम् ॥६५॥
तस्माच्छब्दस्पर्शरूपरसगन्धुणैर्यु[तम् [(ताम् ?) ।
घ्राणोपस्थयुतां भूर्मि समुत्पन्नां विचिन्तयेत् ॥६६॥
इत्थं शरीरमापाद्य पञ्चभूतसमुदभवम् ।
पूर्वोक्तात् पङ्कजात् तस्मादमृतौघै: समुत्थितै: ॥६७॥
स्नापयित्वा निजं देहं शुद्धमप्राकृतं स्वकम् ।
समाराधनयोम्यं तद्धरेरिति विचिन्त्य च ॥६८॥
संस्मृत्याष्टाक्षरं मन्त्रं द्विषडखरमेव वा ।
त्रिषु न्यासेष्वेकतमं कृत्वाङ्गन्यासमादरात् ॥६९॥
ऋष्यादिप्रणवं कृत्वा नम:स्वाहान्तमेव वा ।
वर्णात्मानं वासुदेवं गन्धपुष्पादिभि: क्रमात् ॥७०॥
अर्चयित्वा ततो देवं हृदयाम्भोजसंस्थितम् ।
मानसैरुपचारेश्च होमान्तैरर्चयेत् क्रमात् ॥७१॥
ततो विज्ञप्य देवेशं बाह्मयागं समाचरेत् ।
समाराधनवस्तूनि क्षलनीं जलपूरिताम् ॥७२॥
?दक्षिणे स्थापयित्वा तु वामे पार्श्वे गलन्तिकाम् ।
विष्णुगायत्रियार्ध्यादिपात्राणि क्षालयेत् सुवी: ॥७३॥
अग्रे देवस्य सौवर्णं स्थापयित्वासनं तत: ।
क्षालयित्वा तदुपरि पादानि स्थापयेत् पुन: ॥७४॥
क्रमशस्तेषु पादेषु पात्राष्यपि निवेशयेत् ।
अग्रिकोणे न्यसेदर्ध्यपात्रं दक्षिणपश्रिमे ॥७५॥
पाद्यपात्रं च विन्यस्य पात्रमाचमनार्थकम् ।
विन्यसेद्वायुकोण तु स्त्रानीयं शांकरे पुन: ॥७६॥
प्रोक्षणार्ध्यस्य पात्रं च विन्यसेत् सर्वमध्यत: ।
सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥७७॥
यवं गन्धं फलं पुष्पमर्ध्यमाष्टाङ्गमुच्यते ।
दूर्वा च पिष्णुपणीं च श्यामाकं पह्ममेव च ॥७८॥
पाद्ये द्रव्याणि चैतानि निक्षिप्य तदनन्तरम् ।
लवङ्ग जाति[त](क ?) कोलद्रव्याण्याचमनीयके ॥७९॥
सिद्धार्थकादि स्त्रानीये पूर्ववत् कल्पयेद् बुध: ।
पात्राण्येतानि सर्वाणि पूरयेद्ग्रालितोदकै: ॥८०॥
हस्ते वामेतरे चक्रं द्वादशारं ससूर्यकम् ।
ध्यात्वा तद्रश्मिपुञ्जेन दहेद् द्रव्याणि तानि च ॥८१॥
वामे हस्ते सिते पह्मे चन्द्रं ध्यात्वा सुभास्वरम् ।
तदुत्थैरमृताम्भोर्ध्यात्वा सिक्तानि तानि च ॥८२॥
उभयोर्हस्तयोर्ध्यात्वा देवं नारायणं प्रभुम् ।
ताभ्यां द्रव्याणि पात्रेषु स्पृष्ट्वा सर्वेष्वनन्यधी: ॥८३॥
उचचार्य विष्णुगायत्रीमभिमन्त्र्य सकृत् सकृत् ।
संप्रदर्श्य ततो मुद्रां सौरभेयीं तदुत्थया ॥८४॥
दुग्धस्य धारया तानि पूरितानि विचिन्त्य च ।
ओमर्ध्यं कल्पयामीति पात्रमर्ध्यस्य संस्पृशेत् ॥८५॥
एवमन्यान्यपि स्पृष्टवा कल्ययामीति चोच्चरेत् ।
पात्रान्तरेणार्ध्यपात्रात् किंचिदुद्धृत्य वारि च ॥८६॥
निवेश्य वामहस्ते च मूलमन्त्रेण मन्त्रयेत् ।
सप्तकृत्व: पठेत्तेन तदादाय जलं पुन: ॥८७॥
कूर्चेन तानि द्रव्याणि प्रोक्ष्य चात्मानमन्वत: ।
कल्पयेद्देवदेवस्य योगपीठं समाहित: ॥८८॥
आधारशक्तिं प्रथमं कालाग्रिं कूर्ममन्वत: ।
अनन्तमुपरिष्ठाच्च सहस्त्रफणसंयुतम् ॥८९॥
तस्योपरि भुवं देवीं चतुरश्रां विचिन्त्य च ।
तस्योपरिष्टाद्धर्मादीन् पादानष्टौ प्रकल्पयेत् ॥९०॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं कोणदिक्षु च ।
नपूर्वाश्चतुरोऽप्येतान् पूर्वाद्यासु ककुप्सु च ॥९१॥
सिता: पूर्वे च चत्वार: पाश्चात्या रक्तवर्णका: ।
पुरुषाकृतय: सर्वे सिंहवकत्राश्चतुर्भुजा: ॥९२॥
ध्यातव्याश्चर्चनीयाश्च चतुर्थ्यन्तैर्नमोऽन्वितै: ।
नामभि: प्रणवाद्यैश्च मन्त्रा: कल्प्या द्विजोत्तम ॥९३॥
एताश्चतस्त्र: पूर्वाद्यास्तासु देवचतुष्टयम् ।
अहंकारत्रयं पाशा गुणा: सत्त्वादयो गुणा: ॥९४॥
जीवामत्मा पञ्चभूतात्मा तूलिका स्यात् तदूर्ध्वत: ।
विद्यादास्तरणं चाग्रेर्मण्डलं सोमसूर्यणे: ॥९५॥
[मण्डलानि (लं च ? )क्रमाद् ध्येया(यं ? )[स्तदूर्ध्वे द्वादशच्छदम् ।
स्मेरकेसरसंपूर्ण मध्ये कर्णिकया युतम् ॥९६॥
[दलद्वादश वि (के ? ) ज्ञेया:] क्रमाद् द्वादशमूर्तय: ।
मोहिन्याद्या: पञ्चदश केसरेषु च शक्तय: ॥९७॥
कर्णिकायास्तु मूले स्यात् गुण्योनित्रयं मुने ।
गुणशक्तित्रयं मध्ये क्रमेणैवं विचिन्तयेत् ॥९८॥
भद्रसनं विधायैवं तस्मिन् देवं समर्चयेत् ।
पीठस्य दक्षिणे पार्श्वे ब्रह्मविष्णुशिवान् यजेत् ॥९९॥
गन्धपुष्पादिभिर्भो?गौरिष्ट्वा पार्श्वे तथोत्तरे ।
सनत्कुमारसनकसनन्दानर्चयेदपि ॥१००॥
यजेत् पश्चिमपार्श्वे च दुर्गाविध्नेशनारदान् ।
आत्मनो गुरुपङ्क्तिं च पूजयित्वा विधानत: ॥१०१॥
कस्मिंश्चित् क्षालिते पात्रे पूरिते चार्ध्यवारिणा ।
मूलमन्त्रेण हस्ताभ्यां ललाटे (ट ?)सममुद्धृते ॥१०२॥
आवाह्म मूलबिम्बात्तु दीपाद्दीपवदच्युतम् ।
आगच्छपदसांयुक्तं चतुष्कृत्वा समुच्चरेत् ॥१०३॥
मूलमन्त्रं जलं तच्च कर्मार्वाशिरसि न्यसेत् ।
कूर्चेन तद्ग्रतं देवं विचिन्तय प्रणमेत् क्षितौ ॥१०४॥
उत्थाय स्वागतं ब्रूयात् पश्चान्मुद्रां च दर्शयेत् ।
सन्निधिं प्रार्थयेतत्र यावत्पूजावसानकम् ॥१०५॥
आभिमुख्यं विघायास्य पुण्डरीकाक्षविद्यया ।
आसनं च विधायास्य मूलमन्त्रेण मन्त्रवित् ॥१०६॥
अर्चायां [देह(अङ्ग ? )विन्यासं] मन्त्रस्य विदधीत च ।
विनैव तु करन्यासं शङ्मुद्रां च दर्शयेत् ॥१०७॥
सुरै: सिद्धै: सत्त्वनिष्ठैर्मुनिभिश्चैव कारिते ।
आवाहनं न कुर्वीत स्थापिते निश्चले हरौ ॥१०८॥
आवाहनं भवेदस्य संमुखीकरणं द्विज ।
कुण्डस्थितं हव्यवाहं होमकाले समागते ॥१०९॥
उत्थापयेत्तथा देवभिज्याकाले प्रबोधयेत् ।
योगपीठ[प्रकलृप्तं] च (कलृप्तिश्च ? ) मन्त्रन्यासश्च काश्यप ॥११०॥
इत्याकले विधातव्ये स्थिरबिम्बे महामते ।
[दिक्षुर](देवम ?)र्ध्याम्बराकल्पुष्पगन्धानुलेपने ॥१११॥
स्थितं ध्यायेत् तथासीनं पाद्याचमनयो: पुन: ।
आसीनमभिषेके तु पह्मासननिवेशितम् ॥११२॥
धूपप्र?दीपनैवेद्येष्वसीनं स्वस्तिकासने ।
अन्येष्वप्युपचारेषु तत्कर्मानुगुणं स्थितम् ॥११३॥
देवमाराधको ध्यायन् तत्तत्कर्म साचरेत् ।
अर्चयामीति साम्रादौ विकिरेत् पुष्पसंपुटम् ॥११४॥
विज्ञापयेज्जगाथं [कृत्वा](ता ?)ञ्जलिपुट: स्थित: ।
प्रभो सर्वामराधीश विष्णो जिष्णो श्रिय: पते ॥११५॥
यजाम्यर्ध्यादिभिर्भोगैस्त्वां जुषस्व कृपां मयि ।
इति विज्ञाप्य शिरसा प्रणम्यार्ध्यं तु मूर्धनि ॥११६॥
दद्यात् पादाब्जयो: दाद्यं क्षिपेत् पाद्यप्रतिग्रहे ।
ध्यायेदाचमनस्याथ दाने देवं जलैईरिम् ॥११७॥
आचामन्तं पुनस्तच्च देवदेम्भ:परिग्रहे ।
धूपं चागरुगन्धाढ्यं देवदेवस्य दर्शयेत् ॥११८॥
सकर्पूरदशं दीपं देवदेवस्य दर्शयेत् ।
आवहनार्ध्यधूपेषु परिवारस्य भोजने ॥११९॥
घण्टां संचालयेद्दीपदर्शने नैव चालयेत् ।
पुष्पाञ्जलिं च विकिरेत् प्रतिभोगं पदाब्जयो: ॥१२०॥
मधुपर्कं दर्शयित्वा हस्ताभ्यां तत्पदाम्बुजे ।
गृहीत्वा शिरसा चैव प्रणमेदभक्तिपूर्वकम् ॥१२१॥
प्रणम्य दण्डवद् भूमौ देवं विज्ञापयेत्तत: ।
दासोऽहमस्मि ते देव सपुत्र: सपरिग्रह: ॥१२२॥
नियुङ्क्ष्व मां यथाकामं कर्तव्येषु जगद्ग्रुरो ।
इत्थं विज्ञाप्य तदनु परिवारान् प्रकल्पयेत् ॥१२३॥
दलेष्वासनपह्मस्य प्राच्यादिषु यजेत् क्रमात् ।
श्रीकत्सं वनमालां च योगमायां च वैष्णवीम् ॥१२४॥
विमला सृष्टिशक्याह्वा तथा चोत्कर्षिणीति च ।
ज्ञानशक्ति: सत्यशक्तिरीशान्या ह्मनुकम्पका ॥१२५॥
पितामही क्रमेणैता: स्मृता द्वादश शक्तय: ।
प्रथमावरणे दिक्षु प्रागादिषु यथाक्रमम् ॥१२६॥
व्याप्ति: कान्तिश्च तृप्तिश्च श्रद्धाविद्ये दया क्षमा ।
अष्टैता: शक्तिपर्यन्ता: शक्तिचामरधारिणी: ॥१२७॥
इष्ट्वा द्वितीयावरणे शङ्खचक्रादिधारिण: ।
प्राच्याद्यसू चतुर्दिक्षु पूजयेत् पुरुषानिमान् ॥१२८॥
श्रीवाराहं नारसिंहं श्रीधरं च हयाननम् ।
आग्रेयादिषु कोणेषु रामौ भार्गवराघवौ ॥१२९॥
वामनं वासुदेवं च क्रमादष्टाविमे स्मृता: ।
आवृतौ च तृतीयायां पूजयेदायुधाष्टकम् ॥१३०॥
पाञ्चजन्यं च मुसलं चक्रं नन्दकमेव च ।
गदां शार्ङ्गं च तह्मं च वनमालां क्रमाद्यजेत् ॥१३१॥
चतुर्थ्यामावृतौ पश्चात् कुमुदादीन् यजेत् क्रमात् ।
पञ्चमावरणे चैव दिक्पालानिन्द्रपूर्वकान् ॥१३२॥
एवं विधाय गरुडं देवस्याभिमुखं स्थितम् ।
कृताञ्जलिकरद्वन्दं भौगैरर्ध्यादिभिर्यजेत् ॥१३३॥
देवस्य दक्षिणे पार्श्वे श्रियं देर्वी समर्चयेत् ।
वामे भूभिं यथादेवमिह चार्ध्यादिभिर्यजेत् ॥१३४॥
बहिर्द्वितीयावरणात् सोमेशानदिगन्तरे ।
विष्यक्सेनं चतुर्बाहुं शङ्खचक्रधरं यजेत् ॥१३५॥
पश्चादिज्ञपयेद् देवं गन्तुं स्नानासनं प्रति ।
उत्थितस्य प्रभो: पश्चात् पादुके प्रणिधापयेत् ॥१३६॥
इदं विष्णुरिति द्वाभ्यामृग्भयामारोपयेत्तयो: ।
उत्तिष्ठ ब्रह्मण इति प्रापयेत् स्त्रानवेदिकाम् ॥१३७॥
भद्रं कर्णेभिरिति च वेदिकायां निवेशयेत् ।
विष्णुगायत्रियार्ध्यं स्यात् पाद्यं विष्णु (त्रीति ?) पदेति च ॥१३८॥
आचामयेज्जगन्नाथं पश्चादाप: पुनन्त्विति ।
शालिमात्र: प्रदर्श्याथ विष्णुगायत्रिया पुन: ॥१३९॥
मधुपर्कं च दातव्यं जितं त इति मन्त्रत: ।
निवेदयेच्च ताम्बूलं मुखवासं च दापयेत् ॥१४०॥
दन्तधावनकं दद्यात् तद्विष्णोरिति विष्ण्वे ।
जिह्वानिर्लेहनं दद्यात् तद्विप्रास इति प्रभो: ॥१४१॥
मुखप्रक्षालनं दद्याद् विष्णुगायत्रिया पुन: ।
निवेदयित्वा ताम्बूलं जितं त इति मन्त्रत: ॥१४२॥
विकिरेत् पादपुष्पाणि पश्चादभ्यञ्जयेद्विभुम् ।
वामदेव्येन मन्त्रेण स्त्रजं तेनैव दापयेत् ॥१४३॥
आदर्शनं दर्शायित्वा कुर्यादुद्वर्तनं तत: ।
माषचूर्णेन च ततो विष्णोर्नुकमिति प्रभो: ॥१४४॥
न ते विष्णो इति ददेत्(?) शुद्धामलकवारि च ।
संक्षालनं गन्धतोयैरापो हि ष्ठादिमुच्चरेत् ॥१४५॥
धान्यराशिस्थितै: सप्तदशकुम्भैश्च सेचयेत् ।
हिरण्यवर्णां हरिणीमित्यालेपो हरिद्रया ॥१४६॥
विलिप्य कुङ्कुमेनैव पुष्पस्त्रग्भिर्विभूष्य च ।
नीराप्य कलशाम्भोभि: क्षालयेत् पावमानिभि: ॥१४७॥
परिधाप्याम्बरयुगं चन्दनेन विलप्य च ।
ब्रह्म जज्ञानमिति च कया नश्रित्र आभुवत् ॥१४८॥
स्त्रग्भिर्विभूष्य चार्ध्याद्यैर्यजेत परमेश्वरम् ।
सहस्त्रधारया स्नानं पुंसूक्तेन विधाय च ॥१४९॥
?अग्रिर्मूर्धेति मन्त्नेण प्लोतेनाङ्गानि [अर्ह](मार्ज ? )येत् ।
विधय धौते द्वे वस्त्रे निर्मले परिधाप्य च ॥१५०॥
प्रणवेन ब्रह्मसूत्रमुत्तरीयं प्रकल्प्य च ।
दत्वा चाचमनं तस्माद्ग्रमनं प्रार्थयेदनु ॥१५१॥
प्रदाय पादुके देवमलंकारासनं नयेत् ।
तस्मिन् देवे सुखासीने यजेदर्ध्यादिना पुन: ॥१५२॥
केशानगरुजैर्धूपैर्धानं दिव इत्यृचा ।
शोषयित्वाथ शुचिना चन्दनेन सुगन्धिना ॥१५३॥
सकर्पूरेण तुहिनजलसंद्रावितेन च ।
इदं विष्णु पठन् मन्त्रं विलि[(प्या ?)विरलं तनौ ॥१५४॥
इरावतीतिमन्त्रेण पादयोरक्षतं क्षिपेत् ।
जितं त इति मन्त्रेण मकुटादिविभूषणे: ॥१५५॥
विभूष्य धारयित्वा च विचित्रा: सुमनस्त्रज: ।
तद्विष्णोरिति मन्त्रेण विष्णुगायत्रियाञ्जनम् ॥१५६॥
निधाय चक्षुषो: पश्चादर्शमपि दर्शयेत् ।
व्याहृतीभिर्जितं तेन धूपयेदगरूत्थितै: ॥१५७॥
धूपै: सुरभिगन्धैश्च दीपान् संदर्शये पुन: ।
उद्दीप्यस्वेति मत्रेण तिलान् वै तण्डुलानपि ॥१५८॥
वस्त्रं स्वर्णं च ताम्बूलं रत्नानि विविधानि च ।
पलानि गाश्च धान्यानि सघृतानि यथावसु ॥१५९॥
गोम्रासं चैव पुरतो देवदेवस्य देशिक: ।
वैष्णवेभ्य: कृते त्वस्मिन् दाने राष्ट्रस्य भूपते: ॥१६०॥
सुखहेतुर्भवेच्चैव प्राणिनां राष्ट्रवर्तिनाम् ।
तिरस्करिष्यपनयं कृत्वा भक्तानुकम्पया ॥१६१॥
वादयेत् सर्ववाद्यानि शङ्खकाहलनि:स्वनै: ।
शृङ्गैरपि च सौवर्णै: श्रवणानां सुखवाहै: ॥१६२॥
गापयेद्ग्रायकैश्चैव नर्तकीभिश्च नर्तनम् ।
कारयेद्रथमातङ्गतुरङ्गशिबिकादिकान् ॥१६३॥
दर्शयेद्वाहनवरान् गरुडं च ध्वजोपरि ।
निवेश्य दर्शयित्वा तु छत्रं मुक्तामयं तत: ॥१६४॥
[?श्वेते च(तैश्च ?) वालव्यजने(नै:?) मायुरव्यजने] (नै:?) तथा ।
तालवृन्तैरपि क्षोमैर्वीजयेदभितो विभुम् ॥१६५॥
ब्राह्मणैश्चतुरो वेदान् श्रावयेत् सषङ्गकान् ।
कारयेत् स्तोत्रपठनं ब्राह्मणैर्वेदवित्तमै: ॥१६६॥
सौवर्णपात्रनिक्षिप्तैर्गव्याज्परिदीपितै: ।
आहृतैर्द्विजवर्यैश्च देवं नीराजयेदपि ॥१६७॥
भोजनासनयानाय देवं विज्ञापयेत् तत: ।
प्रदाय पादुके पश्चात् भोजनासनमानयेत् ॥१६८॥
तत्रासीनाय देवाय दद्यार्ध्यं सपाद्यकम् ।
पश्चादाचमनीयं च मधुपर्कं निवेदयेत् ॥१६९॥
प्रणवेन ततो दद्यात् ताम्बूलीवीटिकां तत: ।
धेनुं सवत्सां सौवर्णखुरशृङ्गविभूषिताम् ॥१७०॥
पात्रस्थैरष्टभिर्धान्यै: सह मात्रां प्रदर्शयेत् ।
आर्चाय च तां दद्यात् पूजासंपूराणाय च ॥१७१॥
अन्नं निवेदयेत् सिद्धं पायसद्यं चतुष्ठयम् ।
अपक्वैरतिपक्वैश्च यथायोगं प्रकल्पितै: ॥१७२॥
फलै: सर्वर्तुसंभूतैर्मधुरादिसमन्वितै: ।
संप्रोक्ष्य चास्त्रमन्त्रेण परिविच्य च वर्मणा ॥१७३॥
प्रणवेनार्हणं दत्वा दहनाप्यनादिकम् ।
इविषो दोषाशान्त्यर्थं कारयित्वा प्रदक्षिणम् ॥१७४॥
मुद्रां च सौरभीं कृत्वा दर्शयित्वा च भक्तित: ।
अर्ध्यपात्रस्थितं पुष्पं विन्यस्य च यथाक्रमम् ॥१७५॥
विष्णुहस्तमाख्यं च कृत्वा वामकरेण च ।
अन्वारब्धं दक्षिणेन ग्रासमुद्रायुतेन च ॥१७६॥
देवस्य त्वेतिमन्त्रेण करे देवस्य दक्षिणे ।
निर्वपेत् सावधानेन भक्तियुक्तेन चेतसा ॥१७७॥
अर्ध्ये धूपे च नैवेद्ये त्रिषु घण्टां निनादयेत् ।
दत्वा च पावनं भक्तं पानीयं च सुसंस्कृतम् ॥१७८॥
दद्यादचमनीयं च मृजेत् पाण्योश्च चन्दनम् ।
निवेदयेच्च तताम्बूलं कर्पूरेण समन्वितम् ॥१७९॥
सरत्नतिलमात्रं च ह्माचर्याय प्रदापयेत् ।
कर्मार्चायां दुदितं क्रियाजातं द्विजोत्तम ॥१८०॥
तत्सर्वं ध्रुवबेरादौ विदधीत विचक्षण: ।
क्षमापयित्वा देवेशं भक्तिनम्रेण चेतसा ॥१८१॥
परिवारांश्च गन्धाद्यैश्चतुर्भि: पूजयेद् द्विज ।
स्तोत्राणि विज्ञाप्य पुनर्मूलमन्त्रं जपेद् बुध: ॥१८२॥
अष्टोत्तरशतं वापि तदर्धं वा तदर्धकम् ।
अर्ध्यपात्रकर: पश्चात् विनिर्गत्याग्रिमण्डपम् ॥१८३॥
तथा होमं विधायाथ गत्वा देवस्य संनिधौ ।
निवेद्य [तत्कर्म----न] (जातां ?) देवापाम्बुजद्वये ॥१८४॥
महोत्सवविधानेन परिवारबलिं चरेत् ।
देवभुक्तोज्ज्ञितैर्भोगैर्विष्वक्सेनं च पूजयेत् ॥१८५॥
विज्ञप्य देवदेवाय प्रणमेद्दण्डवत् क्षितौ ।
आदाय चावशिष्टानि पूजावस्तूनि कृत्स्नश: ॥१८६॥
गृहं गत्वा च तैर्द्रव्यैर्हृदयाम्बुजसंस्थितम् ।
अर्चयित्वा जगन्नाथं कृतकृत्य: सदा भवेत् ॥१८७॥
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[नित्याराधनक्रमविधिर्नाम] दशमोऽध्याय:॥
N/A
References : N/A
Last Updated : January 17, 2021
TOP