अनिरुद्धसंहिता - चतुर्दशोऽध्यायः
अनिरुद्धसंहिता
श्रीभगवान्--
जलवासमथो वक्ष्ये समासान्मुनिपुङ्गव।
कर्मारम्भदिनात्पूर्वे तृतीये पञ्चमेऽपि वा ॥१॥
एकाहमथवा कुर्यात् एकरात्रमथापि वा।
यामं यामार्धकं वापि जलावासं समाचरेत् ॥२॥
कौतुकं पूर्वतः कुर्यात् बेरस्य सकलस्य च।
आचार्यस्य विशेषेण ऋत्विजानां तथैव च ॥३॥
चित्रयोगे विशेषेण महाबेरैस्तथैव च।
छायाधिवासनं कुर्यात् बिम्बाभावे तु दर्पणम् ॥४॥
तदभावे तु कूर्चं स्यात् अलंकृत्य यथाविधि।
गमयेत्परिकरैस्सार्धं तीरदेशे विशेषतः ॥५॥
नद्यां वापितटाके वा निझरोपान्त एव च।
तदभावे विशेषेण कटाहे मणिकेऽपि वा ॥६॥
जलमध्ये प्रपां कृत्वा तीरदेशे तु मण्डपम्।
अलंकृत्य वितानाद्यैः कुम्भमण्डलकुण्डकैः ॥७॥
मण्डलं स्वस्तिकं प्रोक्तं कुण्डं पङ्कजमेव च।
द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत् ॥८॥
कुम्भैराराधनं प्रोक्तं मण्डले वासुदेवकम्।
अग्नौ वै विष्णुमन्त्रेण पद्मभूवर्तयेत्ततः ॥९॥
एवमभ्यर्चनं कृत्वा जलमध्ये निवेशयेत्।
शयनं कल्पयित्वैवं ब्रह्मकुम्भादिकान् न्यसेत् ॥१०॥
न्यासपूर्वं ततः कृत्वा मालान्नेन बलिं क्षिपेत्।
पुण्याहवाचनं पूर्वं रक्षां कुर्यात्समन्ततः ॥११॥
नृत्तगीतादिवाद्यैश्च वेदघोषैः प्रणादयेत्।
पुराणैः शान्तिमन्त्रैश्च जागरेण नयेन्निशाम् ॥१२॥
गृहार्चास्थापने काले सद्योवासं समाचरेत्।
ततः प्रभाते विमले तीरमण्डपमानयेत् ॥१३॥
स्वस्स्थाने सन्निवेश्याथ चतुः स्थानं क्रमाद्यजेत्।
ब्रह्मकुम्भादिकान् सर्वान् ब्रह्ममूर्धनि सेचयेत् ॥१४॥
कलशैः स्नपनं कुर्यात् पञ्चविंशतिभिः क्रमात्।
तत्तन्मन्त्रेण मन्त्रज्ञो मूर्तिमन्वेण वाहयेत् ॥१५॥
शुद्धस्नानं ततः कृत्वा पुरुषेनाभिषेचयेत्।
नीराजनं ततः कृत्वा निवेद्यान्नबलिं क्षिपेत् ॥१६॥
गमयेदालये देवं पूर्बवत्परिकल्पयेत्।
मण्डपं समलंकृत्य पश्चिमाभिमुखं न्यसेत् ॥१७॥
चक्राब्जमण्डलं कृत्वा दर्शनार्थं सकुम्भकम्।
नयनोन्मीलनार्थाय सर्वमापादयेद्बुधः ॥१८॥
देवस्य पुरतः स्थाने व्रीहितण्डुलपीठके।
घृतपात्रं मधु न्यस्य अष्टधान्यं च निक्षिपेत् ॥१९॥
गाञ्चैव कन्यकाञ्चैव विनिवेश्य तदन्तिके।
स्वर्णसूचींचतट्टिञ्च? रजतेन तथैव च ॥२०॥
परिस्तीर्य चतुर्दिक्षु वासुदेवादिकान् यजेत्।
कुम्भमण्डलकं पूज्यं पुण्याहमपि वाचयेत् ॥२१॥
अर्घ्याद्यैर्देवमभ्यर्च्य घृतपात्रादिकान् न्यसेत्।
उन्मील्य दक्षिणं नेत्रं घृतसिक्तशलाकया ॥२२॥
चित्रंदेवेति मन्त्रेण तच्चक्षुरिति मन्त्रतः।
दर्शयेन्मण्डलं कुम्भं गां च कन्यां तथैव च ॥२३॥
अष्टधान्यानि सर्वाणि सुवर्णपलमेव च।
नानाविधानि पुष्पाणि फलानि विविधानि च ॥२४॥
एतद्द्रव्याणि सर्वाणि आचार्याय प्रदापयेत्।
आच्छादनपटश्चैव क्षौमवस्त्रं तथैव च ॥२५॥
पुनरभ्यर्चयेद्देवं श्रावयेद्वेदघोषणम्।
गीतं नृत्तं च वाद्यं च पुराणं द्राविडं तथा ॥२६॥
पुष्पवृष्टिमुषस्सर्वे तुष्टिस्तु पुरुषोत्तमः?।
स्नानापीठे विशेषेण मोदयेद्देशिकोत्तमः ॥२७॥
कलशस्थापनं कृत्वा अष्टोत्तरशतं परम्।
एकाशीतिघटं वापि चत्वारिंशन्नवोत्तरम् ॥२८॥
घृतमुष्णोदकञ्चैव रत्नं चैव फलोदकम्।
लोहजंमार्जनञ्चैव गन्धञ्चैवाक्षतोदकम् ॥२९॥
यवोदकं तथाचार्घ्यं पाद्यमाचमनीयकम्।
पञ्चगव्यं दधिक्षीरं मधु चैव कषायकम् ॥३०॥
त्रिविधे कलशे ब्रह्मन् एतद्द्रव्यं विधीयते।
पूर्वादिब्रह्मपर्यन्तमुद्धारक्रम इष्यते ॥३१॥
सूत्रवस्त्रादिभिर्वेष्ट्य कूर्चच.....षान्वितम्।
ततश्चूर्णपटैरक्तं मृदालेपं समाचरेत् ॥३२॥
पञ्चभूतार्चने चैव सन्निधत्ते हरिः स्वयम्।
प्रतिष्ठायां विशेषेण पञ्चभूतार्चनं चरेत् ॥३३॥
मृदालेपं जले स्नानं दीपं नीराजनं तथा।
गन्धालेपञ्च सेचादि वाद्यवादनमेव च ॥३४॥
मृदालेपक्रमं वक्ष्ये समासादवधारय
नदीतटाकवल्मीकपर्वतक्षेत्रमृत्तिकाः ॥३५॥
गजसूकरगण्डस्थं गोवृषशृङ्गसंस्थितम्।
तीर्थसिन्धुमृदं चैव एतद्द्वादशकं स्मृतम् ॥३६॥
ताम्रपात्रे तथाग्राह्यं पृथक्पात्रे विनिक्षिषेत्।
शरावं कलशं वापि किञ्चिदुक्तमृदाश्रितम्।? ॥३७॥
धान्यराशौ प्रतिष्ठाप्य कोष्ठद्वादशकं भवेत्।
पुण्याहं वाचयित्वा तु मृदानभ्यर्च्य साधकः ॥३८॥
द्वादशाक्षरमन्त्रेण मृदालेपं समाचरेत्।
पूजयेत्संपुटीकृत्य उपस्नानसमन्वितम् ॥३९॥
कलशस्नपनं कुर्यात् द्वादशाक्षरमन्त्रतः।
विष्णुसूक्तेन वा विप्र पुरुषसूक्तमथापि वा ॥४०॥
अन्तरान्तरयोगेन उपस्नानादिनार्चयेत्।
चूर्णस्नानं ततः कुर्यात् शुद्धस्नानं तथैव च ॥४१॥
सहस्रधारया स्नानं कुर्यान्नीराजनं तथा।
घटदीपद्वादशकैः प्रतिष्ठाप्य पुरः स्थले ॥४२॥
सूत्रमल्लकसंयुक्तं वन्दिवादसमन्वितम्।
नीराजयेद्धटं विप्र पूजयेत्पूजयान्वितम् ॥४३॥
नीराजनविधानेन अग्निपूजनमिष्यते।
अग्निपूजाविहीने तु प्रतिष्ठा निष्फला भवेत् ॥४४॥
मारुतप्रीणनार्थाय गन्धस्नानं समाचरेत्।
चन्दनं कुङ्गुमञ्चैव कर्पूरमगरुं तथा ॥४५॥
उशीरं कोष्ठकञ्चैव कचोरं रजनी तथा।
एलालवङ्गकञ्चैव तक्कोलं मुरमेव च ॥४६॥
एतानि द्वादशोक्तानि मन्त्रेऽस्मिन् परमेष्ठिना।
पृथक् पात्रे निवेश्यार्च्य स्नापयेद्द्वादशार्णकैः ॥४७॥
पूजया संपुटंकुर्यात् साधकस्तन्त्रपारगः।
आकाशप्रीणनार्थाय वेदवाद्यादिना चरेत् ॥४८॥
चतुर्वेदादिघोषञ्च पुराणं गीतमङ्गलम्।
गाथापद्यं तथा मिश्रं प्रत्यङ्गागमनं तथा ॥४९॥
श्रावयेत्सन्निधौ विप्र देवदेवस्या शार्ङ्गिणः।
अर्ध्याद्यैः पूजयेद्देवं प्रीतिशब्दमनन्तरम् ॥५०॥
अलङ्कृत्य यथान्यायं शयनं परिकल्पयेत्॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
जलाधिवासो नाम चतुर्दशोऽध्यायः
N/A
References : N/A
Last Updated : January 20, 2021
TOP