संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
चतुर्विंशोऽध्यायः

अनिरुद्धसंहिता - चतुर्विंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
पवित्रारोपणं वक्ष्ये विस्तरेण तवानघ
चातुर्मासस्य मध्ये वा आदावन्ते च वा भवेत् ॥१॥
चातुर्मास्यं त्रिधा प्रोक्तं सौरञ्चान्द्रमासं तथा
वैष्णवं च विशेषेण त्रिविधं संप्रकीर्तितम् ॥२॥
संक्रान्त्यादिकं सौरं स्यात् चान्द्रञ्च प्रथमादिकम्।
द्वादश्यादि त्रिकं चैव वैष्णवं परिकीर्तितम् ॥३॥
वैष्णवं चोत्तमं प्रोक्तं मध्यमं सौरमुच्यते।
चान्द्रमप्यधमं प्रोक्तं उत्तमे तु समाचरेत् ॥४॥
तस्मात्सर्वप्रयत्नेन द्वादश्यान्तु समाचरेत्।
पवित्रकर्महीने तु नित्यपूजा विनश्यति ॥५॥
नित्यपूजाविनाशे तु राष्ट्रं क्षयमवाप्नुयात्।
तद्ग्रामोनिधनं? याति तत्स्थानं नाशनं भवेत् ॥६॥
तस्मात्सर्वप्रयत्नेन पवित्रारोपणं चरेत्।
पतनात्‌त्रायते तस्मात्पवित्रं परिकीर्तितम् ॥७॥
आत्मार्थे वा परार्थे वा पवित्रारोपणं भवेत्।
एकबेरे तु वा विप्र बहुबेरे तु वा भवेत् ॥८॥
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत्।
मण्डपं कारयेद्धीमान् अग्रतः परितोऽपि वा ॥९॥
बहुस्तम्भसमायुक्तं शिलयेष्टकयापि वा।
केवलं दारुमात्रं वा प्रपामात्रमृथापि वा ॥१०॥
भित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा।
अधिष्ठानान्वितं वापि उपपीठान्वितं तु वा ॥११॥
पादबन्धयुतं वापि प्रस्तरादियुतं तु वा।
ज्वालातोरणसंयुक्तं पताकाभिरलंकृतम् ॥१२॥
कूटाकारयुतं वापि गरुडेनापिशोभितम्।
सिंहयुक्त मयुक्तं वा बहुद्धारयुतं तु वा ॥१३॥
भित्तित्रययुतं वापि प़ञ्च सप्त नवात्मकमू।
एवं कृत्वा विधानेन सुधया षरिलेपयेत् ॥१४॥
चित्रं कुर्या द्विशेषेण अवतारैरनेकशः।
तोरणानि चतुर्दिक्षु कारयेद्विजसत्तमः ॥१५॥
अश्वत्थं वा वटं वापि प्लक्षं वा बिल्व मेववा।
तालं वेणुं तथैवापि कारयेद्विधिचोदितम् ॥१६॥
द्वारायामसमं वापि स्तम्भायामसमन्तु वा।
आयामर्धेन विस्तीर्णं हस्तमान मथापि वा ॥१७॥
क्षुद्रप्रासादकं विप्र हस्तमानेन कारयेत्।
शूलत्रयसमायुक्तं गरुडेन समन्वितम् ॥१८॥
तोरणे तोरणे कुर्यात् गरुडञ्चोर्ध्वसंस्थितम्।
गोमयालेपनं कुर्यात् मण्डपाभ्यन्तरस्थलम् ॥१९॥
तन्मध्ये वेदिकां कुर्यात् विधिरेवं प्रकीर्तितः।
मण्डलं मध्यभागे तु दक्षिणे कुम्भसंस्थितम् ॥२०॥
उत्तरे चाग्निकुण्डं स्यात्सौम्येशानान्तरेपि वा।
एकैकं पञ्जहस्तं वा चतुर्हस्तं त्रिहस्तकम् ॥२१॥
तत्पीठ हस्तमानं वा तालमानमथापि वा।
वेदिकोच्छ्रायमानं वा चतुरङ्गुलकं भवेत् ॥२२॥
मण्डपस्य तु वेदी तु दर्पणोदरवद्भवेत्।
कुम्भवेदीं समां कृत्वा कुण्डं वा पङ्कजाकृति ॥२३॥
चतुरश्र मथोवापि चक्राकारमथापि वा।
मेखलात्रयसंयुक्तं योनिनाभिसमन्वितम् ॥२४॥
तद्बहिश्चाष्टदेशे तु कुण्डं कुर्या द्विचक्षणः।
अश्रं योनिं तथा चापं त्र्यश्रं वृत्ति षडश्रकम् ॥२५॥
पद्मं वस्वश्रकञ्चैव पूर्वादीनां दिशां क्रमात्।
यद्वा चक्रादिकं वापि अष्टकुण्डं प्रकल्पयेत् ॥२६॥
चतुष्कुण्डमथो वापि एतन्न्यूनन्नकारयेत्।
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितः क्रमात् ॥२७॥
वेद्याः पश्चिम भूभागे उत्सवं सन्निवेशयेत्।
सिंहासने तु विप्रेन्द्र कल्पद्रुमसुमण्डिते ॥२८॥
निश्चलप्रभया युक्तं पुष्पमाल्यैः परिष्कृतम्।
श्रीभूमिसहितं देव मासने सन्निवेशयेत् ॥२९॥
गरुडं पूर्वदिग्भागे दक्षिणे चक्रमेव च।
पश्चिमे वायुपुत्रन्तु विष्वक्‌सेनं तथोत्तरे ॥३०॥
ध्वजतोरणकुम्भाद्यै र्द्वारेऽपि च निवेशयेत्।
वितानाद्यै रलंकृत्य क्षौमैः कार्पासकैस्तथा ॥३१॥
स्तम्भानां वेष्टनं कुर्यात् रम्भापूगैरलंकृतम्।
फलै र्नानाविधै श्चैव दीपकुम्भैरलंकृतम् ॥३२॥
दर्पणै श्चामरैश्चैव आतपत्रै र्मनोहरैः।
घण्टाभिरर्धचन्द्राद्यै र्दर्भमाल्यैरलंकृतम् ॥३३॥
एवंकृत्वा विधानेन पवित्रं वाथ कारयेत्।
क्षौमं कार्पासकं वाषि स्वर्णसूत्रमथापि वा ॥३४॥
ब्राह्मण्या निर्मितं वाथ क्रीतं चैवापणस्थले।
अयुग्मं युग्मं वापि अयुग्मे नवकं भवेत् ॥३५॥
युग्मे र्द्वादशकं प्रोक्त मष्टौ वापि चतुष्टयम्।
प्रक्षाल्य शुद्धतोयेन शोषयेत्प्रणवेन तु ॥३६॥
निर्माणमण्डपे विप्र गोमयालेपनं भवेत्।
शङ्खञ्च निखनेद्भूमौ आचार्यो वायुसूत्रकैः ॥३७॥
प्रथमं मुखमानं तु द्वितीयं द्विगुणं भवेत्।
तृतीयं त्रिगुणं प्रोक्तं चतुर्थन्तु चतुर्गुणम् ॥३८॥
अष्टोत्तरशतञ्चाद्यं द्वितयं द्विगुणन्तु वा।
तृतीयं त्रिगुणं प्रोक्तं चतुर्थन्तु चतुर्गुणं ॥३९॥
यद्वा सहस्रमरकं तदर्धञ्च तदर्धकम्।
तदर्धञ्चाद्यकं चैव ग्रन्थयेद्विधिना ततः ॥४०॥
अन्तरान्तरकञ्चैव द्विजाण्डसदृशं भवेत्।
धात्रीफल समाकारं स्थूलमुक्तासमं भवेत् ॥४१॥
अन्तरान्तरयोगेन ग्रन्थनीयञ्च दूरतः।
कुम्भमण्डलकुण्डेषु द्वन्द्वमानं प्रकीर्तितम् ॥४२॥
पञ्चकं वेदिमानं स्यात् उपकुम्भेषु चेष्यते।
त्रितयं द्वितयं वापि समासं वा समाचरेत् ॥४३॥
प्रथमं नालमानन्तु द्वितीयं द्विगुणं भवेत्।
तृतीयं त्रिगुणं ज्ञेयं परिकुम्भे तथैव च ॥४४॥
परिकुम्भेषु विप्रेन्द्र एकमेवाप्यलं भवेत्।
करके चास्त्रके विप्र एकं वापि त्रयं भवेत् ॥४५॥
अधिवासे पवित्रं हि आद्यमानं प्रशस्यते।
मण्डले कर्णिकामानं केसरेषु तथैव च ॥४६॥
दले दले बिशेषेण दलमानं प्रशस्यते।
अक्षरेष्वरमानं स्यादरक्षेत्रे तु तत्समम् ॥४७॥
नाभिक्षेवे तथा प्रोक्त मारक्षेत्रे तु तत्समम्॥
नेमिक्षेत्रि समं प्रोक्तं तृतीये त्रितयं भवेत् ॥४८॥
द्वितीये त्रितयं विद्यात् एके चैव परं भवेत्।
चक्राब्जमण्डले स्थित्वा पवित्रारोपणं भवेत् ॥४९॥
बहुचक्रेषु विप्रेन्द्र एकैकं वा त्रयं त्रयम्।
कुण्डेषु मेखलामानं एकैकं च पृथक् पृथक् ॥५०॥
एतत्पवित्रकं विप्र यथेच्छाग्रन्थितन्तुभिः।
अन्येषु सर्वकार्येषु तालमानं प्रशस्यते ॥५१॥
बिम्बप्रतिसराणां तु मानं तस्य प्रचक्षते।
शिरः प्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥५२॥
द्वितीयं जानुमानं तु तृतीयं पादमानकम्।
चतुर्थं पीठमानन्तु मूलबेरे तदेव हि ॥५३॥
देवीभ्यान्तु विशेषेण त्रितयं द्वितयन्तु वा।
नाभिजानुपदं विप्र तृतीये परिकीर्तितम् ॥५४॥
द्वितीयं.....पादन्तु एकं वा जानुपादकम्।
भूषणानामायुधानां तालमानं प्रशस्यते ॥५५॥
चण्डादि परिवाराणां मुखमानं प्रकीर्तितम्।
बिम्बप्रमाणकं पीठे प्रभामानं तु तद्भवेत् ॥५६॥
बहिः कृण्डेषु विप्रेन्द्र तृतीयं त्रितयं भवेत्।
द्वितयं वा मुनिश्रेष्ठ एकैकं वापि कारयेत् ॥५७॥
आचार्या बहवः प्रोक्ता ऋत्विजश्च तथैव च।
परिचारकाश्च बहवः पवित्रारोपणे वरम् ॥५८॥
ऋत्विजो दीक्षिताश्चैव सर्वे च गुणवत्तराः।
उपरिष्टात्सुवर्णाद्यैः क्षौमसूत्रैश्च सन्यसेत् ॥५९॥
पूरितं मृद्विलेपेन कुङ्कुमेनानुरञ्जयेत्।
पृथक् पात्रे विनिक्षिप्य पुष्पगन्धैश्च साधयेत् ॥६०॥
कुम्भयोग्यानि चैकस्मिन् मण्डले चाग्निनापरे?
कुण्डयोग्यानि चैकस्मिन् बिम्बयोग्यानि चापरे ॥६१॥
अन्यानि सर्वयोग्यानि एकपात्रे विनिक्षिपेत्।
विविधेन सुगन्धेन वासितं गन्धुपुष्पकैः ॥६२॥
तत्क्रमं ते प्रवक्ष्यामि अवधारय सांप्रतम्।
कर्मारंभदिनात्पूर्वं सप्तमे पञ्चमेऽहनि ॥६३॥
ततोऽङ्कुरार्पणं कुर्यादुत्सवोक्तविधानतः।
त्रिवर्गपालिकायां वै अङ्कुरानर्पयेत्सूधीः ॥६४॥
मण्डपं समलंकृत्य तोरणाद्यैरशेषतः।
मृद्ग्रहं पूर्ववत्कृत्वा पालिकाः परिपूरयेत् ॥६५॥
अष्टोत्तरशतं चैव उत्तमं परिकीर्तितम्।
तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ॥६६॥
षोडशं द्वादशं वापि अष्टकं वा समाचरेत्।
पालिकास्यानुरूपेण सूत्रपातं समाचरेत् ॥६७॥
व्रीहिपीठे प्रतिष्ठाप्य सोमकुम्भन्तु विन्यसेत्।
बीजपात्रं तथा पूर्वं द्वारपूजां समाचरेत् ॥६८॥
चतुः स्थानार्चनं कुर्यात्पुण्याहमपि वाचयेत्।
पवित्राणामर्चनं स्यात्सोमकुम्भस्य पूजनम् ॥६९॥
संपाताज्येन विप्रेन्द्र घृतारोपणमाचरेत्।
बीजावापं ततः कुर्यात् बलिं दद्याद्विचक्षणः ॥७०॥
गुह्यस्थाने निवेश्याथ अपरे वासरे यजेत्।
एकादश्यान्तु प्राप्तायां धामप्रक्षालनं चरेत् ॥७१॥
उद्वृतोदककुम्भैश्च क्षालये द्धूपवर्जनम्?
लेपयेच्चन्दनाद्यैश्च बहिरन्तश्च साधकः ॥७२॥
चित्रवेश्मनि विप्रेन्द्र मण्डपं चातुलेपयेत्।
अलंकृत्य यथापूर्वं ध्वजतोरणकुम्भकैः ॥७३॥
विचित्रपुष्पमाल्यैश्च मुक्तादामैश्च दर्पणैः।
फलै र्नानाविधैश्चैव रम्भापूगगणैस्तु वा ॥७४॥
बहुदीपगणै र्युक्तं फलपुष्पादिभिस्तथा।
मध्ये वेदिं विशेषेण मण्डलं कारयेद्बुधः ॥७५॥
पौष्करोक्तप्रकारेण यन्त्रं विष्णु मथापि वा।
वासुदेवाख्ययन्त्रं वा सात्वतोक्त मथापि वा ॥७६॥
चक्राब्जं स्वस्तिकं वापि इष्टसिद्धि मथापि वा।
वासुदेवाख्ययन्त्रं वा विष्णुयन्त्रं मथापि वा ॥७७॥
तस्य दक्षिणपार्श्वे तु कुम्भं संस्थापयेद्बुधः।
महाकुम्भं चोपकुम्भं परिकुम्भञ्च वर्धनीम् ॥७८॥
पालिकां परितः स्थाप्य अष्टमङ्गलकं न्यसेत्।
सूत्रवस्त्रसमायुक्तं विधानं कूर्चसंयुतम् ॥८१॥
कुम्भे कुम्भे विशेषेण नारिकेलफलं न्यसेत्।
क्रमुकं स्तम्बकं वापि नारिकेलस्य मञ्चरीम् ॥८०॥
नानाविधफलैश्चैव वेदिकोर्ध्वन्तु विन्यसेत्।
मण्डपस्योत्तरे पार्श्वे कुण्डं वै वेदिकोपरि ॥८१॥
परिकुम्भं न्यसेद्धीमान् अष्टधान्यानि निक्षेपेत्।
कदलीफलवृन्दैश्च नालिकेरकदम्बकैः ॥८२॥
क्रमुकैस्तम्बकै श्चैव पनसाम्रफलै स्तथा।
कुम्भे कुण्डे विशेषेण तथैव परिपूजयेत् ॥८३॥
वेदिपश्चिमभागे तु उत्सवं सन्निवेशयेत्।
सिंहासने समारोष्य षरिष्कारे परिष्कृते ॥८४॥
एवं कृत्वा विधानेन द्वारपूजां समाचरेत्।
पुण्याहं कारयेद्धीमान् स्नपनं सम्यगाचरेत् ॥८५॥
एकाशीतिघटैर्वापि षट्‌त्रिंशत्कलशैस्तु वा।
गोक्षीरं केवलं वापि नारिकेलरसं तु वा ॥८६॥
स्नपनान्ते विशेषेण चूर्णस्नानं समाचरेत्।
सुद्धस्नानं ततः कृत्वा नृसूक्तेनाभिषेचयेत् ॥८७॥
नीराजनं ततः कृत्वा अलंकारासने न्यसेत्।
कुम्भेषु मण्डले चैव कुम्भपूजां समाचरेत् ॥८८॥
अनैकै रुपचारैश्च पूजयेद्देवबिम्बवत्।
उपकुम्भेषु सर्वेषु षोडशैः परिपूजयेत् ॥८९॥
अस्त्रकुम्भे तथा प्रोक्तं परिकुम्भेत्विदं? भवेत्।
कुम्भमण्डलकुण्डेषु प्रोक्षणस्नान माचरेत् ॥९०॥
अष्टाक्षरेण मन्त्रेण महाकुम्भे तु पूजयेत्।
द्वादशाक्षरमन्त्रेण मण्डले तु समर्चयेत् ॥९१॥
विष्णुमन्त्रेण विप्रेन्द अग्निस्थं हरिमर्चयेत्।
उत्सवे तु विशेषेण गायत्र्या संप्रपूजयेत् ॥९२॥
उपकुम्भे वासुदेवामिन्द्रादीन् परिकुम्भके।
मण्डलाराधनं कुर्यात् उपचारै रनेकशः ॥९३॥
पञ्चवर्णसमायोगात् पञ्चतत्वमयं स्मृतम्।
पञ्चतत्वमयो विष्णुः पञ्चतत्वमयश्शिवः ॥९४॥
पञ्चतत्वमयो ब्रह्मा पञ्चतत्वमयं जगत्।
पञ्चतत्वमयं सर्वं जगद्दृष्टं चराचरम् ॥९५॥
तस्मात्सर्वप्रयत्नेन मुण्डलाराधनं परम्।
मण्डले पूजयेद्देवं वासुदेवमनामयम् ॥९६॥
पात्रार्चनं पुरा कुत्वा आत्मार्चनमनन्तरम्।
पीठार्चनं ततः पश्चात् परिवारार्चनं ततः ॥९७॥
आसनादिनिवेद्यान्तं मण्डलाराधनं परम्।
बिम्बे संपूजयेद्देवं उपचारै रनेकशः ॥९८॥
मूलबेरे तथा कुर्यात् प्रधानकुण्ङे होमयेत्?।
विष्णुमन्त्रेण मन्त्रज्ञः समिदाज्यचरून् क्रमात् ॥९९॥
दिक्कुण्डे तु विशेषेण ऋत्विजै र्होममाचरेत्।
ऋत्विजामप्यभावे तु आचार्यस्स्वयमाचरेत् ॥१००॥
पालाशं खादिरञ्चैव बिल्वमौदुम्बर न्तथा।
प्लक्षन्यग्रोधापामार्गमश्वत्थंसमिदष्टकम्? ॥१०१॥
पूर्वादीशानपर्यन्तं समिधः परिकीर्तिताः।
पायसं कृसरञ्चैव हरिद्रान्नञ्च मौद्गिकम् ॥१०२॥
माषान्नं तिलशुद्धान्नं दध्यन्न मथचाष्टकम्।
लाजनीवारकौ चैव तिलस्सर्षप एव च ॥१०३॥
व्रीहिमाषयवाश्चैव गोधूमश्चाष्टमं भवेत्।
अष्टकुण्डेषु होतव्यं तद्‌द्रव्यै स्तु पृथक् पृथक् ॥१०४॥
पवित्राधिवासनं कुर्यात् देवस्य पुरतः स्थले।
मार्गत्रयं ततः कृत्वा धान्यराशिं विनिक्षिपेत् ॥१०५॥
तदर्धं तण्डुल़ञ्चैव तदर्धं तिलमेव च।
तस्योपरि न्यसेत्पात्रं पीठवत्परिपूजयेत् ॥१०६॥
ततो भूषणपात्राणि विन्यसेन्मन्त्रवित्तमः।
प्रोक्षणादिक्रियास्सर्वाः कारयेन्मन्त्रवित्तमः ॥१०७॥
प्रोक्षणं ताडनं दाहमुत्पाटापूरणं तथा?
लोहकारमृत्तिकाभि र्भोगिकालञ्च पूजनम्? ॥१०८॥
सांस्पर्शञ्चेति दशधा सर्वभोगेषु संस्कृतिः।?
संपाताज्येति मन्त्रज्ञः सेचयेच्छास्त्रवित्तमः ॥१०९॥
गन्धानुलेपनं कुर्यात् धूपद्रव्यैश्च धूपयेत्।
गन्धपुष्पेषु निक्षिप्य स्थापयेदम्बरेण तु ॥११०॥
पुनः पूजां ततः कृत्वा कौतुकं बन्धयेत्सुधीः।
मूलबिम्बे तथा बध्वा आचार्यस्य च बन्धयेत् ॥१११॥
पूर्वोक्तेन तु मार्गेण शयने सन्निवेशयेत्।
गीतनृत्तपुराणाद्यैः रात्रिशेषं नयेद्‌द्विजः ॥११२॥
ततः प्रभावे विमले नित्यकर्म समाचरेत्।
स्नानवेद्यां समारोप्य स्नपनं सम्यगाचरेत् ॥११३॥
अष्टोत्तरशतैः कुम्भैरेका३शीतिघटैस्तु वा।
युक्तद्रव्ययुतै र्वापि केवलं क्षीरमेव वा ॥११४॥
सर्वं घृतमयं वापि नालिकेरजलं तु वा।
पूर्ववत्स्नपनं कृत्वा नीरजनावसानकम् ॥११५॥
अलङ्कारासने नीत्वा अलङ्कारै रलंकृतैः।
सिंहासने निवेश्याथ श्रीभूमिसहितं विभुम् ॥११६॥
द्वारादियजनं कृत्वा कुम्ममण्डलपूजनम्।
होमकर्म ततः कृत्वा मूर्तिहोमं समाचरेत् ॥११७॥
निवेदनबलिं दद्याद्भूषणानि समर्चयेत्।
भूषणं पात्रमादाय कुम्भपार्श्वे समानयेत् ॥११८॥
पवित्र योजनकाले प्रोक्षणादिदिशं चरेत्।
पवित्रं नीत्वा पाणिभ्यां गन्धालेपनमाचरेत् ॥११९॥
धृपयित्वा विशेषेण अग्निसन्धान माचरेत्।
अव्यक्तं सात्विकं चैव मन्त्रं विग्रहमेव च ॥१२०॥
योगचिन्त्यमनव्यक्तं? तात्विकं तत्वचिन्तनम्।
किरीटादीन् समावाह्य भूषणे भूषणे प्रति ॥१२१॥
अर्घ्यपाद्यै स्समभ्यर्च्य योजयेत्कुम्भमूर्धनि।
संहिताद्यैश्चतुर्भिस्तु कुम्भे संपुजयेद्धरिम् ॥१२२॥
शाखाद्यै र्मण्डलैः प्रोक्तमारणाद्यैस्तु बिम्बकैः।
अनुवाकत्रयेणैव विष्णुसूक्तेन कुण्डकैः ॥१२३॥
कुम्भे चाष्टाक्षरेणैव मण्डयेद् द्वादशाक्षरण्।
बिम्बे च विष्णुगायत्र्या कुण्डे चैव षडक्षरम् ॥१२४॥
भूषणै र्भूषणैश्चैव अर्घ्याद्यै स्संप्रपूजयेत्।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ॥१२५॥
ताम्बूलं तत्क्रमाद्दद्यात् भोजनान्तै स्तु तैः क्रमात्?
दीपं नीराजनञ्चैव वेदं श्लोकं तथैव च ॥१२६॥
गीतं नृत्तं च वाद्यं च दानं वै स्वर्णवस्त्रगैः।
स्तोत्रञ्चैव नमस्कारं बिम्बमण्डलके तथा ॥१२७॥
उपकुम्भेषु सर्वेषु वासुदेवादिमन्त्रतः।
वारूणादिनिर्ऋत्यन्तं योजयेन्मन्त्रवित्तमः ॥१२८॥
त्रितयं द्वितयं वापि एकैकं वा यथेच्छया।
रक्षां कुम्भेषु सर्वेषु पूर्वादिक्रमयोगतः ॥१२९॥
एकमेवाप्यलं प्रोक्तं वस्त्रकुम्भे त्रयं द्वयम्।
अष्टमण्डलके पश्चात्पालिकायामनन्तरम् ॥१३०॥
पायसान्नं निवेद्याथ सूक्तेनैव बलिं क्षिपेत्।
मण्डले च तथा कुर्यात् विशेषमधुनोच्यते ॥१३१॥
पद्मक्षेत्रे अरे विप्र पश्चिमादि समायजेत्।
पश्चिमे द्वारदेशे तु योजयेद्भूषाणादि वै ॥१३२॥
अन्यानि सर्वकर्माणि पूर्ववत्तु समाचरेत्।
बिम्बे संपूजयेत् पश्चात् कमलं पूर्ववद्भूवेत् ॥१३३॥
चतुष्टयं प्रदद्यात्तु अङ्गादीनाञ्च योजयेत्‌।
अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज ॥१३४॥
भूषणानां च शक्तीनां तथैव विहगेशितुः।
पीठपादुकपात्राणां धूपदीपादिकं ततः ॥१३५॥
आचार्यसाधकानां च वाहनानां तथैव च।
गीतवादित्रपात्राणां शङ्खादीनां तथैव च ॥१३६॥
वेदं गीतं च वाद्यञ्च दीपं नीराजनं परम्।
पायसादिनिवेद्यान्तं ताम्बूलञ्च निवेदयेत् ॥१३७॥
मूर्तिबिम्बे तथा कुर्याद्धोमकुण्डे तथैव च।
उपचारादि सर्वेषा माज्येनाहुतिं हुवेत् ॥१३८॥
ऊर्ध्वादिमेखलानां च तत्पात्राणां तथैव च।
परिकुण्डेषु सर्वेषु पूर्वादिक्रमयोगतः ॥१३९॥
त्रितयं द्वितयं वापि एकं वापि नियोजयेत्।
पूर्वोक्तद्रव्यनिचये होमं कुर्याद्वि चक्षणः ॥१४०॥
देवीनां कर्मबिम्बानां त्तत्पात्रे नियोजयेत्।
स्तोत्रैः स्तुत्वा मुनिश्रेष्ठ विकिरेत्पुष्पजालकैः ॥१४१॥
यात्रोत्सवं तथा कुर्यात् अपराह्णे तु देशिकः।
नैकैः परिकरै र्युक्तं बहुदीपसमन्वितम् ॥१४२॥
नवाहञ्चैव सप्ताहं पञ्चाहं त्रितयं तथा।
एकाहं वापि विप्रेन्द्र पूर्वं संकल्पमाचरेत् ॥१४३॥
यथाचोत्सववत्कुर्यात् वाहनारोहणं विभो-।
समाप्तिदिवसे रात्रौ ततस्सन्न्यासमाचरेत् ॥१४४॥
पूजनं पूर्ववत्कुर्यात् प्रायश्चित्ताहुतिं हुवेत्।
शुद्धस्नानं ततः कृत्वा आलयं संप्रवेशयेत् ॥१४५॥
आरोपितपवित्रापि आचार्य स्स्वयमाचरेत्।
द्विजादि सर्ववर्णानां भक्तानां भावितान्मनाम् ॥१४६॥
पवित्रकगणं तद्वत् दापयेच् पृथक् पृथक्।
पवित्रधारणाद्विप्र सर्वपापहरं भवेत् ॥१४७॥
सर्वयज्ञफलं चैव सर्वतीर्थफलं भवेत्।
अपरेऽहनि संप्राप्ते तीर्थपार्श्वं समानयेत् ॥१४८॥
तीर्थदेशं समासाद्य तीर्थस्नानं समाचरेत्।
यथा अवभृतं कुर्यादुत्सवेन सहैव हि ॥१४९॥
गोभूहिरण्यवस्त्राद्यै राचार्य स्संप्रदापयेत्।
आलयं संप्रविश्याथ मण्डपे सन्निवेशयेत् ॥१५०॥
विष्वक्‌सेनं समभ्यर्च्य गर्भगेहे निवेशयेत्।
आचार्यं पूजयेत्पश्चात् रत्नहेमाङ्गुलीयकैः ॥१५१॥
गोभूहिरण्यवस्त्राद्यै राचार्यं संप्रपूजयेत्।
तदर्धमृत्विजाञ्चैव यथाचोत्सववद्भवेत् ॥१५२॥
सर्वशक्तिकरं सर्वं मुख्यं साधनमुत्तमम्।
राज्ञो राष्ट्रस्य सुखदमायुरारोग्यवर्धनम् ॥१५३॥
प्रजानां वासुदेवस्य पवित्राराधनं परम्।
पवित्राराधनं विष्णोः शअरद्धया च करोति यः ॥१५४॥
स याति ब्रह्मणः स्थानं विष्णुसायुज्यमुत्तमम्।
सर्वपापविनिर्मुक्त स्सर्वदुः खविवर्जितः ॥१५५॥
विशेषवचनं वक्ष्ये शृणु गुह्यं महामुने
यथाश्वमेधं विप्राणां राजसूयञ्च भूभुजाम् ॥१५६॥
यथास्वधा पितॄणां च सुराणाममृतं यथा।
नराणां जाह्नवीतोयं देवानामच्युतो यथा ॥१५७॥
तथा हि देवदेवस्य पवित्राराधनं परम्।
अधिवासनकाले तु प्रासादपरिवेष्टनम् ॥१५८॥
पञ्चरंगेण सूत्रेण उक्तसूत्रेण? वा भवेत्।
मण्‍डपञ्च तथावेष्ट्य तथा भूषणपात्रकम् ॥१५९॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
पवित्रारोहणं नाम चतुर्विंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP