संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
एकोनविंशोऽध्यायः

अनिरुद्धसंहिता - एकोनविंशोऽध्यायः

अनिरुद्धसंहिता

भृगुः--
स्नपनं श्रोतुमिच्छामि देवदेवस्य शार्ङ्गिणः
कालं ब्रूहि मम ब्रह्मन् द्रव्याणां विस्तृतीं क्रमात् ॥१॥
श्रीभगवान्--
स्नपनं ते प्रवक्ष्यामि विस्तरेण तवानघ
स्नपनं द्विविधं प्रोक्तं परापरविभेदतः ॥२॥
परं तु त्रिविधं प्रोक्त मपरं द्वादशं भवेत्।
सहस्त्रं तदर्धकञ्च तदर्धन्तु तदर्धकम् ॥३॥
त्रिप्रकारं मया प्रोक्तं परंचैव विशेषतः।
एकं त्रयं तथा पञ्च नवकं द्वादशं तथा ॥४॥
सप्तदशं पञ्चविंशं षट्‌त्रिंशच्च नवोत्तरम्।
चत्वारिंशद्विशेषेण अशीत्येकादशं क्रमात् ॥५॥
अष्टोत्तरशतं चैव एवं द्वादशकं भवेत्।
अयने विषुवे चैव पौर्णमास्यद्वयेऽपि च ॥६॥
द्वादश्यां तु विशेषेण श्रवणे जन्मऋक्षके।
अभिषेकदिनेवापि दमनारोहणादिके ॥७॥
उत्सवाद्यन्तकाले तु पुष्पयागे विशेषतः।
पवित्रारोहणे चैव तावत् पुष्पफलोत्सवे ॥८॥
चतुः स्थानार्चने चैव अनावृष्टिविधौ तथा।
दुर्निमित्ते च संजाते दुर्भिक्षे व्याधिपीडने ॥९॥
विशेषयजने चैव द्रव्याणां पूरणेऽपि च।
स्नपनं कारयेद्विद्वानन्यथा दोषकृद्भवेत् ॥१०॥
सुवर्णं रजतं वापि ताम्रं मृण्मय मेव वा।
पक्वबिम्बफलाकारं मृण्मयं दोषवर्जितम् ॥११॥
आढकंचोत्तमं प्रोक्तं तदर्धं मध्यममं भवेत्।
तदर्धमधमं प्रोक्तं विविधं कारयेद्बुधः ॥१२॥
तद्वयं करकं प्रोक्तं तद्वयं कुम्भमुच्यते।
तद्वयं तु महाकुम्भमेतन्मानं प्रकीर्तितम् ॥१३॥
मानेन निश्चितं सर्वं तस्मान्मानं हि पूरकम्।
मृत्कुम्भे सूत्रवेष्टं स्याल्लोहे तु परिवर्जयेत् ॥१४॥
वस्त्रं कूर्चं शरावं च द्रव्यं सामान्यकं भवेत्।
स्नपनं द्विविधं प्रोक्तं कर्माङ्गं केवलं भवेत् ॥१५॥
कर्माङ्गे तु विशेषेण नाङ्गुरं कौतुकं भवेत्।
केवले तु विशेषेण अङ्कुरं कौतुकं भवेत् ॥१६॥
कर्माङ्गमुत्सवाद्येषु विषुवाद्येषु केवलम्।
मण्डपालंकृतिं कुर्यात् प्रतिष्ठाकर्मवद्‌द्विजः ॥१७॥
केवले तु हि विप्रेन्द्र चतुस्स्थानार्चनं चरेत्।
मण्डलं कारयेद्धीमान् यजमानेच्छया ततः ॥१८॥
मण्डपस्योत्तरे पंक्तौ कुम्भमण्डलकुण्डलम्।
पूर्वादि पश्चिमान्ते तु क्रमेणैव प्रकल्पयेत् ॥१९॥
मण्डपस्य तु मध्ये तु कलशस्थापनं चरेत्।
बिम्बसंस्थापनं पूर्वं सूत्रपातं समाचरेत् ॥२०॥
कलशस्यानुरूपेण एकद्वित्रितयेऽपि वा।
नवकादिषु विप्रेन्द्र सूत्रपातं समाचरेत् ॥२१॥
कोष्ठकोणे विशेषेण व्रीहिप्रस्थं प्रपूरयेत्।
कलशाधिवासनं कुर्यात् पश्चिमे कलशास्पदे ॥२२॥
मार्गत्रयं तथा कृत्वा व्रीहीनास्तीर्य तण्डुलैः।
दर्भैः परिस्तरेत्तत्र प्राङ्मुखः परमेष्ठिना ॥२३॥
तस्योपरि न्यसेत्कुम्भान् पुरुषेणैव देशिकः।
शोषणादिक्रियां कृत्वा अर्घ्याद्यैः परिपूजयेत् ॥२४॥
अधोमुखान् न्यसेत्कुम्भान् विश्वेनैव तु देशिकः।
अक्षतान्विकिरेत्पश्चात् निवृत्तिमन्त्रेण?मन्त्रवित् ॥२५॥
दर्भानुपरि संस्तीर्य सर्पमन्त्रेण मन्त्रवित्।
वाससाच्छादयेत्पश्चात् बलिं दद्यात् समन्ततः ॥२६॥
द्रव्याधिवासनं कुर्यात् तत्काले देशिकोत्तमः।
द्रव्याधिवासने विप्र संपाताज्येन सेचयेत् ॥२७॥
एतत्कर्म विशेषेण सर्वसामान्यकं भवेत्।
अङ्कुरं कौतुकं चैव तथा कुम्भाधिवासनम् ॥२८॥
कर्मारम्भदिनात्पूर्वं सद्यो वा सकलं चरेत्।
द्वारपूजाविधिं चैव पुण्याहं चैव कारयेत् ॥२९॥
कुम्भमण्डलबिम्बाग्निपूजनं तदनन्तरम्।
कलशस्नपनं चैव चूर्णस्नान मनन्तरम् ॥३०॥
शुद्धस्नानं ततः कुर्यात् रजनीस्नानमेव च।
सहस्रधारया स्नानं नीराजनमनन्तरम् ॥३१॥
मण्डपासनकार्यञ्च भोज्यासनमतः परम्।
पूर्णाहुतिं ततः कुर्यात् बलिं दद्यात् समन्ततः ॥३२॥
एतत्कर्म क्रमात्प्रोक्तमस्मिन् भद्रमये प्रभो!
एकबेरविधानेतु तत्रैव स्नपनं भवेत् ॥३३॥
बहुबेरविधाने तु स्नपने स्नपनं भवेत्।
उत्सवे तु तथाभावे तथाभावे तु कौतुके ॥३४॥
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत्।
दर्पणे तदभावे तु तदभावे तु कूर्चके ॥३५॥
कर्माङ्गस्नपने विप्र उत्सवे सर्वमाचरेत्।
अथ द्रव्यनाम---
द्रव्यन्यासमथो वक्ष्ये समासादवदारय ॥३६॥
उदक्कुम्भे घृतं प्रोक्तं पञ्चगव्य मथापि वा।
केवलं गन्धपुष्पं वा निक्षिपेत्तन्त्रवित्तमः ॥३७॥
तृतीये तु विशेषेण पत्रं पुष्पं फलं भवेत्।
पञ्चकुम्भे तु विप्रेन्द्र पञ्चगव्यमथो भवेत् ॥३८॥
गन्धपुष्पफलं चैव पत्रं धान्यं तथैव च।
पञ्चगव्यमथोवापि नवके वक्ष्यतेऽधुना ॥३९॥
घृतादिकमथो वापि नवरत्नोदकं तु वा।
नवगन्धादिकं वापि द्वादशे वक्ष्यतेऽधुना ॥४०॥
द्विधा वाथ त्रिधावापि चतुरादिघृतादिकम्।
धात्राफलोदकञ्चैव लोध्रतोयमनन्तरम् ॥४१॥
रक्तचन्दनतोयं च रजनीनीरमुत्तमम्।
ग्रन्थीफलवचाश्वत्थ तोयं ततः तृणोदकम् ॥४२॥
प्रियङ्गुवारि तदनु मौञ्जीजलमतः परम्।
सिद्धार्थं यवतोयं च सर्वौधिजलं तथा ॥४३॥
पत्रपुष्पोदकं चैव द्वादशैते प्रकीर्तिताः।
अथ सप्तदशे कुम्भे द्रव्यं वक्ष्ये यथाक्रमम् ॥४४॥
घृतमुष्णोदकं चैव रत्नवारि फलोदकम्।
लोहम्मार्जनगन्धं च अक्षतं च यवोदकम् ॥४५॥
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं तथा दधि।
पयो मधु कषायं च क्रमात्सप्तदशं भवेत् ॥४६॥
पञ्चविंशति कुम्भेषु द्रव्यन्यासमथोच्यते।
तन्मध्ये नवके विप्र घृतादीन् परिनिक्षिपेत् ॥४७॥
घृतं पाद्यं दधि चैव अर्घ्यं क्षीर मतः परम्।
आचामं गन्धतोयं च पञ्जगव्यं कषायकम् ॥४८॥
धात्रीफलोदकञ्चैव क्रमाद्‌द्रव्यं विनिक्षिपेत्।
षट्‌त्रिशत्कलशे ब्रह्मन् द्रव्यन्यासं प्रचक्षते ॥४९॥
द्रव्याणां नवकं प्रोक्तं षट्‌त्रिंशत्कलशे परम्।
घृतादि नवकं वापि गन्धादि नवकं तु वा ॥५०॥
चन्दनं कुङ्कुमंचैव कर्पूरमगरुं तथा।
एलालवङ्गतक्कोल मुशीरं कोष्ठमेव च ॥५१॥
एकोनपञ्चाशत्कलशे द्रव्यन्यासं ब्रवीमि ते।
प्रधानसप्तदशकं द्रव्ययोगं क्रमेण च ॥५२॥
मध्यकुम्भे नवं चैव केवलं क्षीरमेव वा।
महादि कुम्भषट्के च घृतमेकं प्रपूरयेत् ॥५३॥
विदिक्कोणचतुष्केषु दधि चैव प्रपूरयेत्।
एकाशीतिघटे ब्रह्मन् द्रव्यन्यासक्रमं शृणु ॥५४॥
अत्रसप्तदशं श्रेष्ठं द्रव्यन्यासं क्रमेण तु।
घृतादिद्रव्यसङ्घं वा केवलं क्षीरमेव वा ॥५५॥
घृतं वा केवलं विप्र अष्टोत्तरशतं शृणु।
द्वात्रिंशकद्रव्यं तेषु मध्ये चैव चतुष्टये ॥५६॥
गन्धं पुष्पं फलं चैव मूलं पत्रं तथाङ्कुरम्।
ह्रस्वमण्डलकंचैव दीर्घस्तंबकमेव च ॥५७॥
अथ दीर्घं च तच्चक्रनवकं परिकीर्तितम्।
चन्दनं कुङ्कुमं चैव कर्पूरं हिमतोयकम् ॥५८॥
चतुर्मध्यमकुम्भेषु आग्नेयादिषु विन्यसेत्।
शतपत्रं तथा जातिर्मल्लिकाबकुलं भवेत् ॥५९॥
पूर्वद्वादशके विप्र मध्ये वै दर्पणे न्यसेत्।
कदलीपनसं चैव लिकुटं चैव दाडिमम् ॥६०॥
आग्नेयद्वादशे कुम्भे न्यसेन्मध्ये तु पूर्ववत्।
कर्पूरं चैव ह्रीबेरमुशीरं च हरिद्रका ॥६१॥
याम्ये द्वादशके विप्र मध्ये कुम्भचतुष्टये
तुलसीबिल्वपत्रञ्च तथावै दन्तिकाद्वयम् ॥६२॥
नैर्ऋते विन्यसेत्पात्रे वारुणे चाङ्कुरं भवेत्।
दूर्वाङ्करं सटा भद्रा विष्णुक्रान्तिर्मही गजम् ॥६३॥
मारुते स्वबलं वक्ष्ये शैवाल मगरुं तथा।
पूर्वमाथर्विकञ्चैव सौम्ये चैव प्रचक्षते ॥६४॥
पुन्नागं पाटलं चैव चूतमारग्बधं तथा।
ईशान्ये वक्ष्यते ब्रह्मन् क्रमुकं नालिकेरकम् ॥६५॥
तालं वै रोलक्रमुकंमध्यमेषु पदेषु च।
अपरैकादशं प्रोक्तं परे त्रिविधमुच्यते ॥६६॥
सहस्रं च तदर्धं च तदर्धं च त्रयं भवेत्।
एकादशघटे? वक्ष्ये विस्तरेण तवानघ ॥६७॥
एकञ्च मध्यमे स्थाप्य यमे च तु चतुष्टयम्।
पञ्चमं दिक्‌चतुष्के च मध्ये चैकं प्रशस्यते ॥६८॥
नवके दिगष्टके प्रोक्तं मध्यमे द्वादशं शृणु।
अष्टदिगष्टकं प्रोक्तं मध्ये चैव चतुष्टयम् ॥६९॥
सप्तदशक्रमे विप्र मध्यमं नवकं भवेत्।
तद्बहि श्चाष्टदेशेषु अष्टकुम्भञ्च विन्यसेत् ॥७०॥
पञ्चविंशघटे विप्र मध्यमे नवके न्यसेत्।
बहिष्षोडशकुम्भं स्यात् षट्‌त्रिंशत्कलशं शृणु ॥७१॥
चतुष्टयं चतुर्दिक्षु नवकोष्ठेषु विन्यसेत्।
शृणु गुह्यमना विप्र चत्वारिंशन्नवोत्तरम् ॥७२॥
नवकं मध्यमे स्थाप्य अष्टदिक्‌पंचकं भवेत्।
एकाशीतिघटे विप्र तत्क्रमं संप्रचक्षते ॥७३॥
नवकं नवकं ब्रह्मन् नवपंक्तिषु विन्यसेत्।
अष्टोत्तरशते ब्रह्मन् स्थापनक्रम उच्यते ॥७४॥
द्वादश द्वादश ब्रह्मन् नव पंक्तिषु विन्यसेत्।
सहस्रकलशे ब्रह्मन् स्थापनक्रम उच्यते ॥७५॥
क्षेत्रमध्यमदेशेषु अष्टादश घटान् न्यसेत्।
नवकोष्ठेषु विप्रेन्द्र द्वितयं द्वितयं न्यसेत् ॥७६॥
तद्बहिस्त्वष्टदेशेषु पञ्चकं पञ्चकं न्यसेत्।
अष्टोत्तरशते कुम्भे तद्बहिश्च दिगन्तरे ॥७७॥
द्वादश द्वादश ब्रह्मन् नवपंक्तिषु बिन्यसेत्।
अष्टोत्तरशतेनैव परितोदिक्षु विन्यसेत् ॥७८॥
एव मष्टादशैः कुंभैः चतुष्षष्ठ्यधिके द्विज।
अष्टोत्तरशते कुम्भे प्रत्येकं नवपंक्तिषु ॥७९॥
ब्रह्मादीशानपर्यन्तं पाक्तौ पंक्तौ च विन्यसेत्।
शेषं षट्‌त्रिंशकं कुम्भं निशाचूर्णैश्च पूरयेत् ॥८०॥
द्विप्रकारं मया प्रोक्तं सहस्रघटवेशने।
पञ्चाशच्चच घटे विप्र स्थापनं कथ्यतेऽधुना ॥८१॥
अष्टोत्तरशत मध्ये परितश्चाष्टदिक्षु च।
एकोनपञ्चाशद्विप्र तत्तद्दिक्षु च विन्यसेत् ॥८२॥
चतुश्शतैश्च कुम्भैश्च अष्टकुम्भविहीनके।
पञ्चाशद्विशतानां च कुम्भानां स्थापनं शृणु ॥८३॥
क्षेत्रेषु च चतुर्मध्ये चत्वारिंशन्नवोत्तरम्।
तद्बहिश्चाष्टकुम्भेषु पञ्चविंशतिकं न्यसेत् ॥८४॥
शतद्वयञ्च परितश्चैकचूर्णघटं? भवेत्।
द्रव्यन्यास मथो वक्ष्ये सहस्रकलशेषु च ॥८५॥
मध्य अष्टादशे कुम्भे नवरत्नं विनिक्षिपेत्।
द्वन्द्वद्वन्द्वप्रयोगेन विन्यसेच्च घटद्वये ॥८६॥
चत्वारिंशद्धटे बाह्ये चैकैकं मौक्तिकं न्यसेत्।
अष्टोत्तरशते चैन्द्रे मूलेन परिपूरयेत् ॥८७॥
ह्रीबेरञ्चैव कर्चूरमुशीरं रजनीं तथा।
मध्ये कुम्भचतुष्केषु विन्यसेत्पावकान्वितम्? ॥८८॥
बहिरष्टघटे विप्र ह्रीबेरं परितो न्यसेत्।
तद्बहि श्चाष्टदेशेषु द्रव्यन्यासं वदामि ते ॥८९॥
रजनीद्वितयञ्चैव शृङ्गिवेर मुशीरकम्।
उत्पलत्रितयंकान्तं कर्चूरं चाष्टकं भवेत् ॥९०॥
अष्टद्वादश कुम्भे तु प्रीतिद्रव्यन्तु विन्यसेत्।
पावकेष्टशते मध्ये चतुष्कं पत्रके न्यसेत् ॥९१॥
तुलसीद्वितयञ्चैव तथा दमनिकाद्वयम्।
पावकादि विनिक्षिप्य शेषं वै तुलसीदलम् ॥९२॥
बहिरष्टपदे विप्र पत्रवृन्दं वदामि ते?
अश्वत्थोदुम्बरवटप्लक्षन्यग्रोधमेव च ॥९३॥
चूतं बिल्वञ्च वकुलं क्रमात्तत्रैव निक्षिपेत्।
याम्याष्टके शते विप्र द्रव्यन्यासं प्रचक्ष्यते ॥९४॥
मध्यमे तु चतुष्कुम्भे चम्पकं वकुलं तथा।
मालती शतपत्रञ्च आग्नेयादिषु विन्यसेत् ॥९५॥
बहिरष्टघटे विप्र विन्यसे च्छतपत्रिकाम्।
तद्बहि श्चाष्टदेशेषु पुष्पपूरं विधीयते ॥९६॥
नन्द्यावर्तञ्च पुन्नागं मालती माधवं तथा।
उत्पलत्रितयञ्चैव केतकीचारकं भवेत् ॥९७॥
एकैकं पूरयेत् सर्वान् कुम्भे कुम्भे पृथक् पृथक्।
नैर्ऋते चाष्टके ब्रह्मन् फलवृन्दं वदामि ते ॥९८॥
कदलीपनसञ्चैव मातृचूतं? तथैव च।
मध्यमे तु चतुष्कुम्भे पूर्वकं विन्यसेत् क्रमात् ॥९९॥
तद्बहि श्चाष्टकुम्भेषु विन्यसेत् कदलीफलम्।
बहिरैन्द्रादियोगेन फलपूरं वदामि ते ॥१००॥
लिकुचं वकुलं चैव दाडिमं मातुलुङ्गकम्।
पारावतं चामलकं नवाङ्गं विश्वमेव च ॥१०१॥
एतद्द्रव्यं क्रमेणैव पूरयेत् पूर्ववत् क्रमात्।
वारुणे केवलं क्षीरं केवलं घृतमेव च ॥१०२॥
वायव्ये संप्रवक्ष्यामि चन्दनं कुङ्कुमं तथा।
कर्पूरमगरुञ्चैव चतुष्कं विन्यसेत्क्रमात् ॥१०३॥
परितश्शिष्टकुम्भेषु केवलं चन्दनोदकम्।
बहिः पूर्वादिके विप्र क्रमाद्द्रव्यमथोच्यते ॥१०४॥
मुरमाञ्जिष्ठकर्चूरं कोष्ठं वा चम्पकं तथा?
एलालवङ्गतक्कोलं क्रमाद्द्रव्यं प्रकीर्तितम् ॥१०५॥
सौम्ये द्वादशकुम्भेषु क्षीरमेकं प्रपूरयेत्।
तद्वच्चाष्ठमदशेषु क्रमाद्द्व्यं प्रचक्ष्यते ॥१०६॥
गोमूत्रं गोमयञ्चैव दधि तक्रं तथैव च।
तैलं सर्षपतैलं च नालिकेरं घृतं गुलम् ॥१०७॥
ईशानकस्थ कुम्भेषु क्रमाद्द्रव्यं निबोध मे।
गुलतोयं चेक्षुतोयं शर्करोदकमेव च ॥१०८॥
पुण्येषु साधकं चैव चतुष्कुम्भेषु विन्यसेत्।
तद्बीजाष्टककुम्भेषु इक्षुसारं प्रपूरयेत् ॥१०९॥
बहिः पूर्वादिकुम्भेषु क्रमाद्द्रव्यं निबोध मे।
तिलं लाजं च मुद्गं च व्रीहिमाषवचान्तथा ॥११०॥
गोधूमं च प्रियङ्गं च क्रमात्कुम्भेषु निक्षिपेत्।
सहस्रमूर्तिमन्त्रेण स्नापयेत्पुरुषोत्तमम् ॥१११॥
ऋग्यजुस्सामाथर्वाद्यैः स्नपयेत्कलशं परम्।
अष्टाक्षरेण वा सर्वं द्वादशाक्षरतोपि वा ॥११२॥
पूर्वादिसोमपर्यन्त मुद्धारक्रम इष्यते।
आग्नेयादीशपर्यन्त मुद्धारंतु द्वितीयकम् ॥११३॥
पूर्वादिमध्यपर्यन्तं सर्वस्योद्ग्रहणं भवेत्।
केवलं क्षीरमेकाङ्गं घृतं वा संभवंभवेत् ॥११४॥
नालिकेरजलैर्वापि कैवलन्तु सहस्रकम्।
सहस्रार्धघटे वक्ष्ये द्रव्यन्यासं क्रमेण तु ॥११५॥
घृतं गन्धं तथा पुष्पं पत्रं मूलं फलं तथा।
पञ्चगव्यं तथा क्षीरं ब्रह्मद्यैशानपश्चिमम्? ॥११६॥
ईशाने दधि विन्यस्य स्नापयेत्पुरुषोत्तमम्।
अधमं स्नपनं वक्ष्ये द्रव्यन्यासक्रमेण तु ॥११७॥
मध्यकुम्भेषु सर्वेषु क्षीरमेकं प्रपूरयेत्।
बहिश्चाष्टपदे विप्र पञ्चविंशतिसंख्यके ॥११८॥
अर्घ्यं पाद्यं तथाचामं तक्रं दधि घृतं मधु।
कषायञ्च क्रमात्प्रोक्तं मृद्धनं पूर्ववद्भवेत् ॥११९॥
द्रव्याणामप्यलाभे तु तद्भागैकं प्रशस्यते।
द्रव्याणां विष्णुदैवत्यं चक्रिकाणां तु गारुडम् ॥१२०॥
सूत्राणां शेषदैवत्यं पात्राणां फणिराजकम्?।
कूर्चैषु ब्रह्मदैवत्य माधारे धर्मदैवतम् ॥१२१॥
वाससां वासवो दैवं सर्वेषां विष्णुदैवतम्।
यस्स्नापयति देवेशं द्रव्ययुक्तघटै र्नर ॥१२२॥
सर्वपापविनिर्मुक्त स्स याति ब्रह्मणः पदम्।
सोऽतुलां श्रिय माप्तोति सर्वतीर्थफलं लभेत् ॥१२३॥
सर्वयज्ञफलञ्चैव सर्वदानफलं भवेत्।
संसारेण प्रतीयाति नात्र कार्या विचारणा ॥१२४॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
स्नपनविधिर्नाम एकोनविंशोऽध्यायः।

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP