तृतीयस्थानम् - द्वाविंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
रक्तवातसमुद्भूतान्दोषाञ्छृणु महामते
कट्यूरुजानुमध्ये तु जायते बहुवेदना ॥१॥
गृध्रसीति विजानीयात्तेन नोक्तञ्च लक्षणम् ॥२॥
जानुमध्ये भवेच्छोफो जायते तीव्रवेदना
वातरक्तसमुद्भूता विज्ञेया कोष्ठशीर्षिका ॥३॥
कण्डरा बाहुपृष्ठे च अंगुल्यभ्यन्तरेषु च
करक्रमक्षयकरी सा विज्ञेया विपश्चिता ॥४॥
पादहर्षो भवेच्चात्र पादयोर्लोमहर्षणम्
कफवातप्रकोपान्ते प्रस्वेदः करपादयोः ॥५॥
पित्तवातान्वितं चान्ते उष्णत्वं करपादयोः
अमीषां रुधिरस्रावं ततः स्वेदं च कारयेत् ॥६॥
अभ्यङ्गे वातहृत्तैलं पानं रास्नायाः पञ्चकम्
शतावरी बले द्वे च पिप्पली पुष्कराह्वयम् ॥७॥
चूर्णमेरण्डतैलेन गृध्रसीमपकर्षति
अजमोदादिकं चूर्णमामवाते प्रकीर्त्तितम् ॥८॥
तदत्र योजनीयं च गृध्रसीनां निवारणम्
एतैर्नजायते सौख्यं दहेल्लोहशलाकया ॥९॥
पादरोगेषु सर्वेषु गुल्फे द्वे चतुरङ्गुले
तिर्यग्दाहं प्रकुर्वीत दृष्ट्वा पादे शिरां दहेत् ॥१०॥
वातरोगेषु प्रोक्तानि पथ्यानि चात्र योजयेत् ॥११॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गृध्रसीचिकित्सा नाम द्वाविंशोऽध्यायः ॥२२॥
N/A
References : N/A
Last Updated : February 24, 2021

TOP