संस्कृत सूची|संस्कृत साहित्य|उपनिषद| शरभोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् शरभोपनिषत् उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद शरभोपनिषत् Translation - भाषांतर सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्वदेवाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयःस्यात्तत्त्वमेव नो ब्रूहीति ।तस्मै स होवाच पितामहश्चहे पैप्पलाद शृणु वाक्यमेतत् ।बहूनि पुण्यानि कृतानि येनतेनैव लभ्यः परमेश्वरोऽसौ ।यस्याङ्गजोऽहं हरिरिन्द्रमुख्यामोहान्न जानन्ति सुरेन्द्रमुख्याः ॥१॥प्रभुं वरेण्यं पितरं महेशंयो ब्रह्माणं विदधाति तस्मै ।वेदांश्च सर्वान्प्रहिणोति चाग्र्यंतं वै प्रभुं पितरं देवतानाम् ॥२॥ममापि विष्णोर्जनकं देवमीड्यंयोऽन्तकाले सर्वलोकान्संजहार ॥३॥स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।नृसिंहं लोकहन्तारं संजघान महाबलः ॥४॥हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥५॥कृपया भगवान्विष्णुं विददार नखैः खरैः ।चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥६॥स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये ।यो ब्रह्मणः पञ्चवक्रहन्तातस्मै रुद्राय नमो अस्तु ॥७॥यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति ।तस्मै रुद्राय नमो अस्तु ॥८॥यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।तस्मै रुद्राय नमो अस्तु ॥९॥यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।तस्मै रुद्राय नमो अस्तु ॥१०॥यो दक्षयज्ञे सुरसङ्घान्विजित्यविष्णुं बबन्धोरगपाशेन वीरः ।तस्मै रुद्राय नमो अस्तु ॥११॥यो लीलयैव त्रिपुरं ददाहविष्णुं कविं सोमसूर्याग्निनेत्रः ।सर्वे देवाः पशुतामवापुःस्वयं तस्मात्पशुपतिर्बभूव ।तस्मै रुद्राय नमो अस्तु ॥१२॥यो मत्स्यकूर्मादिवराहसिंहा-न्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।विविक्लवं पीड्यमानं सुरेशंभस्मीचकार मन्मथं यमं च ।तस्मै रुद्राय नमो अस्तु ॥१३॥एवं प्रकारेण बहुधा प्रतुष्ट्वाक्षमापयामासुर्नीलकण्ठं महेश्वरम् ।तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।नाविधानि दुःखानि जहार परमेश्वरः ॥१४॥एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥१५॥यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥१६॥भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥१७॥अणोरणीयान्महतो महीया-नात्मास्यजन्तोर्निहितो गुहायाम् ।तमक्रतुं पश्यति वीतशोकोधातुःप्रसादान्महिमानमीशम् ॥१८॥वसिष्ठवैयासकिवामदेव-विरिञ्चिमुख्यैर्हृदि भाव्यमानः ।सनत्सुजातादिसनातनाद्यै-रीड्यो महेशो भगवानादिदेवः ॥१९॥सत्यो नित्यः सर्वसाक्षी महेशोनित्यानन्दो निर्विकल्पो निराख्यः ।अचिन्त्यशक्तिर्भगवान्गिरीशःस्वाविद्यया कल्पितमानभूमिः ॥२०॥अतिमोहकरी माया मम विष्णोश्च सुव्रत ।तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥२१॥विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥२२॥विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥२३॥एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥२४॥चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥२५॥ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२६॥शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने ॥२७॥मायावशादेव देवा मोहिता ममतादिभिः ।तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥२८॥परात्परतरं ब्रह्म यत्परात्परतो हरिः ।परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥२९॥एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥३०॥शिव एव सदा ध्येयः सर्वसंसारमोचकः ।तस्मै महाग्रासाय महेश्वराय नमः ॥३१॥पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् ।नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥३२॥दांभिकाय नृशंसाय शठायानृतभाषिणे ।सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥३३॥गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥३४॥स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् ।न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥३५॥एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजःस जन्ममरणेभ्यो मुक्तो भवति ।यो जानीते सोऽमृतत्वंच गच्छति ।गर्भवासाद्विमुक्तो भवति ।सुरापानात्पूतोभवति ।स्वर्णस्तेयात्पूतो भवति ।ब्रह्महत्यात्पूतोभवति ।गुरुतल्पगमनात्पूतो भवति ।स सर्वान्वेदानधीतोभवति ।स सर्वान्देवान्ध्यातो भवति ।स समस्तमहापातको-पपातकात्पूतो भवति ।तस्मादविमुक्तमाश्रितो भवति ।स सततं शिवप्रियो भवति ।स शिवसायुज्यमेति ।न सपुनरावर्तते न स पुनरावर्तते ।ब्रह्मैव भवति ।इत्याहभगवान्ब्रह्मेत्युपनिषत्॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ।ॐ शान्तिः शान्तिः शान्तिः॥इति शरभोपनिषत्समाप्ता॥ N/A References : N/A Last Updated : March 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP