॥ नादबिन्दूपनिषत् ॥ ऋग् वेद,योग उपनिषद्
वैराजात्मोपासनया सञ्जातज्ञानवह्निना । दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्टितम् ।
आविरावीर्म एधि । वेदस्य मा आणीस्थः ।
श्रुतं मे माप्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु ।
अवतु मामवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥१॥
पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः ॥२॥
भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि । सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥३॥
जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः । भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥४॥
सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः । एवमेतां समारूढो हंसयोगविचक्षणः ॥५॥
न भिद्यते कर्मचारैः पापकोटिशतैरपि । आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥६॥
भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा । परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥७॥
कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः । एष ओङ्कार आख्यातो धारणाभिर्निबोधत ॥८॥
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा । पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥९॥
पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते । सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥१०॥
नवमी महती नाम धृतिस्तु दशमी मता । एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥११॥
प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते । भरते वर्षराजासौ सार्वभौमः प्रजायते ॥१२॥
द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् । विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका ॥१३॥
पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । उषितः सह देवत्वं सोमलोके महीयते ॥१४॥
षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् । अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥१५॥
नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् । एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥१६॥
ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् । सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥१७॥
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥१८॥
तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् । संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥१९॥
ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः । तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥२०॥
आत्मानं सततं ज्ञात्वा कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥२१॥
उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥२२॥
देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः । कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥२३॥
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् । स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥२४॥
अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः । उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥२५॥
अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता । यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥२६॥
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः । रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ॥२७॥
अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः ॥२८॥
अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते । ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥२९॥
ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः । स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥३०॥
सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् । शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा ॥३१॥
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् । पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥३२॥
श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् । वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥३३॥
आदौ जलधिमूतभेरीनिर्झरसम्भवः । मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥३४॥
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः । इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥३५॥
महति श्रूयमाणे तु महाभेर्यादिकध्वनौ । तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥३६॥
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥३७॥
यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते ॥३८॥
विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः । एकीभूयाथ सहसा चिदाकाशे विलीयते ॥३९॥
उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी । उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥४०॥
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसंदध्यान्नादे चित्तं विलीयते ॥४१॥
मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा । नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥४२॥
बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः । नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥४३॥
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥४४॥
नियामनसमर्थोऽयं निनादो निशिताङ्कुशः । नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ॥४५॥
अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च । ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥४६॥
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् । तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते ॥ ४७॥
निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते । नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी ॥४८॥
सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् । सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ॥४९॥
निरञ्जने विलीयेते मनोवायू न संशयः । नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥५०॥
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके । सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥५१॥
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः । शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन ॥५२॥
काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् । न जानाति स शीतोष्णं न दुःखं न सुखं तथा ॥५३॥
न मानं नावमानं च संत्यक्त्वा तु समाधिना । अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥५४॥
जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥५५॥दृष्टिः स्थिरा यस्य विना सदृश्यम्
चित्तं स्थिरं यस्य विनावलम्बम्स ब्रह्मतारान्तरनादरूपः ॥५६॥
इत्युपनिषत् ॥ ॐ वाङ्मे मनसीति शान्तिः ॥
इति नादबिन्दूपनिषत्समाप्ता ॥