संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
गोपालतापिन्युपनिषत्

गोपालतापिन्युपनिषत्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्शभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
====
१.१
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥

हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्शिणे ॥

मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः कुतो मृत्युर्बिभेति ।
कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति ।
तदुहोवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।
स्वाहेदं विश्वं संसरतीति । तदुहोचुः । कः कृष्णः । गोविन्दश्च
कोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।
तन्माया चेति सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति
सोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहो
तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदुहोवाच हैरण्यो
गोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥१॥

गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥२॥

कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥३॥ इति ॥

तस्य पुना रसनमितिजलभूमिं तु संपाताः । कामादि कृष्णायेत्येकं
पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।
स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म संपद्यत इति । तदेष श्लोकः
क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्शु नान्या
गतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये
नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।

====
१.२
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधा आराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेतत्सुरेताः ॥१॥

वायुर्यथैको भुवनं प्रविष्टो
जन्येजन्ये पञ्चरूपो बभूव ।
कृष्णस्तदेकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥२॥ इति ॥

ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि
रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलं
भवतीति ॥२॥ तदिह श्लोका भवन्ति ।

एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठं येऽनुभजन्ति धीरा
स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥३॥

नित्यो नित्यानां चेतनश्चेतनाना
मेको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरा
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥४॥

एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् ।
तेषामसौ गोपरूपःप्रयत्ना
त्प्रकाशयेदात्मपदं तदेव ॥५॥

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यां तस्मै गोपयति स्म कृष्णः ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्शुः शरणं व्रजेत् ॥६॥

ओङ्कारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्शुरभ्यसेन्नित्यशान्तिः ॥७॥

एतस्मा एव पञ्चपदादभूव
न्गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै
रभ्यस्यन्ते भूतिकामैर्यथावत् ॥८॥

पप्रच्च्हुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टा
मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतो मायानुकूलेन
हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनस्ते सिसृक्शतो मे प्रादुरभूवन् ।
तेष्वक्शरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।
तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्संपातात्तदर्क इति ।
क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः
प्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदं
सकलमिदं सकलमिदमिति ॥३॥

एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।
ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्शुराततम् ।
तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति ॥४॥

तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।
वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥५॥
==
तदत्र गाथाः
यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥१॥

पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥२॥

ततो विशुद्धं विमलं विशोक
मशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥३॥

तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
परमया स्तुत्या स्तोष्यामि ॥
ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥१॥

नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥२॥

नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ॥३॥

बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमोनमः ॥४॥

कंसवंशविनाशाय केशिचाणूरघातिने ।
वृषभध्वजवन्द्याय पार्थसारथये नमः ॥५॥

वेणुनादविनोदाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥६॥

पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥७॥

नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥८॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमोननमः ॥९॥

प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥१०॥

श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥११॥

केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥१२॥

अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच
हैरण्यगर्भः । अमुं पञ्चपदं मनुमार्तयेयेद्यः स
यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्ण एव परमं
देवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् ।

ॐ तत्सदित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्शभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP