षोडशकाण्डः - २६ ते ३०
पैप्पलादसंहिता
२६
अयं पिपान इन्द्रियं रयिं बिभर्ति चेतनीम् ।
अयं धेनु सुदुघां नित्यवत्सां वशं दुहे विपश्चितं परो दिव: ॥१॥
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो नागन् ।
प्रजामस्मभ्यं दधत् रयिं च रायस्पोषमुप सत्ता सदेम ॥२॥
एतं वो युवानं परि दध्मो अत्र तेन क्रीडन्तीश्चरत वशाङ् अनु । क्रिड
मा नो हिंसिष्ट जनुषा सुभागा रायस्पोषैरभि न: सचध्वम् ॥३॥स्पोसै
उपेहोपपर्चना ऽस्मिन् गोष्ठे उप पृञ्चतु ।
उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥४॥
२७
अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वध्य
वीर्यावान् सपत्नहा शूरवीर: परिपाण: सुमङ्गलः ॥१॥
अयं मणि सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक्कृत्या दूषयन्नेतु वीरः ॥२॥
अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान् पराभावयन्मनीषी।
अनेन द्यावापृथिवी उभे अजयदनेनाजयत् प्रदिशश्चतस्रः ॥३॥
अयं स्राक्त्यो मणि: प्रतीवर्त: प्रतिसर: ।
ओजस्वान् विमृधो मणि: सो अस्मान् पातु विश्वत: ॥४॥
तदग्निराह तदु सोम आह बृहस्पति: सविता तदिन्द्र: ।
ते ते देवा: पुरोहिताः प्रतीची: कृत्या: प्रतिसरैरजन्तु अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
उतेमं ब्रह्मणस्पतिम् ॥५॥
ते ते देवा: पुरोहिता: प्रतीची: कृत्या: प्रतिसरैरजन्तु ॥६॥
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
सूर्यो दिवमिवारुह्य वि कृत्या बाधते वशी ॥७॥वाध
स्राक्त्येन मणिन ऋषिणेव मनीषिणा ।
अजैषं सर्वा पृतना वि मृधो हन्मि रक्षस: ॥८॥
या: कृत्या आङ्गिरसीर्या: कृत्या आसुरीरुत ।
कृत्या या: स्वयंकृता या उ चान्येभिराभृता: ।
उभयीस्ता: परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
अस्यै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः वध्न
प्रजापति: परमेष्ठी विराड् वैश्वानर ऋषयश्च सर्वे ॥१०॥
२८
उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्र: श्वपदामिव॥
यमैच्छामाविदाम तं प्रतिस्पाशनमन्तितम् ॥१॥
स इद् व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥२॥
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥३॥
कश्यपत्स्वामसृजत् कश्यपस्त्वा समैरयत् ।
अबिभस्त्वेन्द्रो मानुषे वर्म बिभ्रत् संश्रेषिणे ऽजयत् ॥४॥
मणिं सपत्नं जम्भनं वर्म देवा अबध्नत ।
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यस्त्वा यज्ञैर्जिघांसति ।
प्रत्यक् त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥५॥
अयमिद्वै: प्रतीवर्त: सहस्वान् संजयो मणि: ।
प्रजां धनं च रक्षतु परिपाण: सुमङ्गल: ॥६॥
असपत्नं नो अधरादसपत्नं न उत्तरात् ।
इन्द्रासपत्नं न: पश्चाज्ज्योति: शूर पुरस्कृधि ॥७॥
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नाति विध्यन्ति सर्वे ।
तत्ते तन्वं त्रायतां सर्वतो बृहदायुष्मान् जरदष्टिर्यथासत् ॥८॥
आ त्वा रुक्षद्देवमणिर्मह्या अरिष्टतातये ।
इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥९॥
अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत् ॥१०॥
इन्द्रो बध्नातु ते मणिं जिगीवाङ् अपराजितः सोमपा अभयंकरो वृषा ।
स त्वा रक्षतु सर्वदा दिवानक्तं च विश्वतः ॥११॥
(इति क्षुद्रकाण्डनामषोडषकाण्डे पञ्चमो ऽनुवाकः)
२९
इन्द्रो मन्थतु मन्थिता शक्रः शूर: पुरन्दर: ।
यथा हनाम सेनाममित्राणां सहस्रशः ॥१॥
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमुम् ।
अग्निं धूमं परादृश्य हृत्स्वा दधतां भयम् ॥२॥
पुरुषानमून् पुरुषाह्वः कृणोतु हन्त्वेनान् वधको वधै: ।
क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिता: ॥३॥
अमूनश्वत्थ नि: शृणीहि खादामून् खदिराजिरम् । मुन
ताजभङ्ग इव भज्यन्तां बृहज्जालेन संदिताः ॥४॥
अन्तरिक्षं जालमासीज्जालदण्डा दिशो मही: ।
तेनाभिधाय सेनामिन्द्रो दस्यून् अपावपत् ॥५॥दस्यु
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
तेन न्युब्ज मघवन्नमित्राः शस्वतीभ्य: समाभ्यः ॥६॥
बृहद्धि जालं बृहत: शक्रस्य वाजिनीवत: ।
तेन शतं सहस्रमयुतं जघानेन्द्रो दस्यूनामभिधाय सेनाम् ॥७॥दस्यु
अयं लोको जालमासीच्छक्रस्य महतो महान् ।
तेनाहमिन्द्रजालेन तमसामूनपि दधामि सर्वान् ॥८॥
सेदिरुग्रा वयृद्धिरार्तिश्चानपवाचना ।
श्रमस्तन्द्रीश्च मोहश्च तैरमूनपि दधामि सर्वान् ॥९॥
मृत्यवेमून् प्र यच्छामि मृत्युपाशैरमी सिताः । वेमु
मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्धान् ॥१०॥
३०
मृत्युदूता अमून्नयत यमदूता अपोम्भत:
पर:सहस्रा हन्यन्तां तृणेढ्येनां मत्यं भवस्य ॥१॥
साध्या एकं जालदण्डमुद्यत्य यन्त्वोजसा ।
रुद्रा द्वितीयं वसवस्तृतीयमादित्यैरेक उब्जत: ॥२॥
विश्वे देवा उपरिष्टादुब्जन्तो यन्त्वोजसा ।
मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो वधै: ॥३॥
वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः ।
द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥४॥
गन्धर्वाप्सरसो देवान् सर्पान् पुण्यजनान् पितॄन् ।
दृष्टानदृष्टानिष्णामि यथा सेनाममूं हनन् ॥५॥
मृत्युपाशा इमे युक्ता यानाक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया इदं कूट सहस्रहम् ॥६॥
घर्मः समिद्धो अग्निनायं होमः सहस्रह: ।
भवश्च पृश्निबाहुः शर्व सेनाममूं हतम् ॥७॥
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥८॥
पराजिता: प्र त्रसतामित्रा जिता धावत ब्रह्मणा ।
बृहस्पतिप्रणुत्तानां मामीषां मोचि कश्चन ॥९॥
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
अथैषां बहु बिभ्यतामिषवो घ्नन्तु मर्मणि ॥१०॥
समेनान् क्रोशतां द्यावापृथिवी उभे समन्तरिक्ष सह देवताभि: ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो विघ्नाना उप यन्तु मृत्युम् ॥११॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP