षोडशकाण्डः - ८६ ते ९०
पैप्पलादसंहिता
८६
कुतः केशान् कुत: स्नाव कुतो अस्थीन्याभरत् ।
अङ्गा पर्वाणि मज्जानं को मांसं कुतो आभरत् ॥१॥
यदा केशानस्थि स्नाव मांसं मज्जानमाभरत् ।
शरीरं कृत्वा पादवत् कं लोकमनु प्राविशत् ॥२॥
संसिचो नाम ते देवा ये संभरैः समभरन् ।
सर्वे संसिच्य मर्त्यं देवा: पुरुषमाविशन् ॥३॥परु
शिरो हस्तावथो बाहू जिह्वां ग्रीवाश्च कीकसाः ।
पृष्टिर्बर्जह्ये पार्श्वे कस्तत् समदधादृषि: ॥४॥
ऊरू पादावष्ठीवन्तौ श्रोणीहस्तावथो मुखम्। उरू
त्वचा प्रावृत्य तत्सर्वं संधा समदधान्मही ॥५॥
यत्तच्छरीरमशयत् संधया संहितं महत् ।
येनेदमद्य रोचते को अस्मिन् वर्णमाभरत् ॥६॥
सर्वे देवा उपाशिक्षन् तदजानाद्वधू: सती ।
ईशा वशस्य या जाया सास्मिन् वर्णमाभरत् ॥७॥
यदा त्वष्टा व्यतृणत् पिता त्वष्टुर्य उत्तर: ।
गृहं कृत्वा मर्त्यं देवा: पुरुषमाविशन् ॥८॥
स्वप्नो वै तन्द्रीर्निऋतिः पाण्मानो नाम देवता:।
जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥९॥
स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो महः।
बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥१०॥
८७
भूतिश्च वा अभूतिश्च रातयोरातयोश्च या: ।
क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥१॥
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२॥
विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
शरीरं ब्रह्मा प्राविशदृच: सामाथो यजुः ॥३॥
आनन्दानन्दा: प्रमुदोभीमोदमुदश्च ये ।
हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥४॥
आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
शरीरं सर्वे प्राविशन्नायुज: प्रयुजो युजः ॥५॥
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।
व्यानोदानौ वाङ्मन: शरीरेण त ईयन्ते ॥६॥
आशिषश्च प्रशिषश्च संशिषो विशिषश्च या: ।
चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥७॥
· · · · · · वै धृतयश्चेडाशी: सूनृतेडा ।
शरीरं सर्वे प्राविशन्नृतरीर्ष्यायुधोमृध: ॥८॥
आस्तेयीश्च वास्तेयीश्च त्वरणा: कृपणाश्च या: ।
गुह्या: शुक्रा आप: स्थूलास्ताबीभत्सुरसादयन् ॥९॥
अस्थि कृत्वा समिधं तदष्टापो असादयन् ।
रेत: कृत्वाज्यं देवा: पुरुषमाविशन् ॥१०॥
८८
या आपो याश्च देवता या विराड ब्रह्मणा सह । .
शरीरं ब्रह्म प्राविशच्छरीरेधि प्रजापतिः ॥१॥
सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
अथास्येतरमात्मानं देवा: प्रायच्छन्नग्नये ॥२॥
तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
सर्वा ह्यस्मिन् देवता: शरीरेधि समाहिता: ॥३॥
संदेश्य स्थानमङ्गेषु पिता लोकाङ् अकल्पयत्।
शरीरं सर्वा देवता यथाङ्गमनु प्राविशन् ॥४॥
अङ्गमङ्ग शरीरस्य सर्वे देवा अनु प्राविशन् ।
पिता ह्येभ्य: प्रायच्छत्तं लोकमपराजितम् ॥५॥
तं लोकमपराजितं सर्वे देवा अनु प्राविशन् ।
प्रजापतिर्यदाभरच्छरीरं बहुधा हितम् ॥६॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे षोडशो ऽनुवाक:)
८९
अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा।
सप्तऋषयो भूतकृतस्ते त्वा मन्दन्तु प्रजया सहेह ॥१॥
कृणुतं धूमं वृषण: सखायोद्रोघाविता वाचमच्छ !
अयमग्नि: पृतनाषाट् सुवीरो येन देवा असहन्तु शत्रून् ॥२॥
अग्नेजनिष्ठा महते वीर्याय ब्रहौदनाय पक्तवे जातवेद: !
सप्तऋषयो भूतकृतस्ते त्वाजीजन्नस्यै रयिं सर्ववीरं नि यच्छ ॥३॥
समिद्धो अग्ने समिधा समिध्यसे विद्वान् देवान् यज्ञियाङ् एह वक्ष: ।
तेभ्यो हव्यं श्रपयं जातवेद स्वर्गं लोकमधि रोहयैनम् ॥४॥
त्रेधा भागं निहितो य: पुरा वो देवानां पितॄणामुत मर्त्यानाम् |
अंशान् जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयति ॥५॥
अग्ने सहस्वानभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृत: कृणोतु ॥६॥
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय।
उर्ध्वो नाकस्थाधि रोह विष्टपं स्वर्गों लोक इति यं वदन्ति ॥७॥
इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
अथ गच्छेम सुकृतामु लोकम् ॥८॥
एतौ ग्रावाणौ सयुजा युङ्गधि चर्माणि निर्भिन्ध्यंशून् यजमानाय साधु }
अवघ्नती नि जहि ये पृतन्यव ऊर्ध्व प्रजामुद्धरन्त्युदूह ॥९
गृहाण ग्रावाणौ सुकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगु ।
त्रय वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥
९०
उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः।
श्रिया समानानति सर्वान् त्स्यामाधस्पदं द्विषतस्पादयेम ॥१॥
इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा: ।
परा पुनीहि य इमां पृतन्यवोस्यै रयिं सर्ववीरं नि यच्छ ॥२॥
परेहि नारि पुनरेहि क्षिप्रमपो त्वा गोष्ठो अध्यरुक्षद् भराय ।
तासां गृह्णीताद्यतमा यज्ञिया असन्विभाज्य धीरीतरा जहीतात् ॥३॥ताषां
एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व !
सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञ: प्रति कुम्भं गृभाय ॥४॥
उर्जो भागो निहितो य: पुरा वो ऋषिप्रशिष्टाप आहरैता: ।
अयं यज्ञो नाथविद् गातुवित् प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥५॥
अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥६॥
शुद्धा आपो योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्रा: ।
ददन् प्रजां बहुलान् पशून् मे पक्तौदनस्य सुकृतामेतु लोकम् ॥७॥
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
अप: प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्ता सुकृतामेतु लोकम् ॥८॥
अभ्यावर्तस्व प्रजया सहैनां प्रत्यङ्नां देवताभि: सहैधि ।
स्वर्गं लोकमभिसंवर्धयैनामादित्यो देव: परमं व्योम ॥९॥
ऊरु : प्रथस्व महता महिम्ना सहस्रपृष्ठ: सुकृतस्य लोके ।
पितामहा: पितर: प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP