षोडशकाण्डः - १५१ ते १५५

पैप्पलादसंहिता


१५१
वैश्वानर: संतप्यत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।
शिक्षन्त्यस्मा अभिषुण्वन्ति सोममृतेन भ्राजन्नमृतं वस्ते अत्की ॥१॥
रारह्येते नीलयते शीतरूरे तन्वावस्यभीमे ।
रूपाण्येति बहुधा वसानो ग्रहान् कृण्वानस्तन्वः पराची: ॥२॥
पञ्चारे चक्रे परिवर्तमाने समारोहन्ति भुवनानि विश्वा ।
तस्यनाक्षस्तप्यते भूरिभार: सनादेव न छिद्यते सनाभि: ॥३॥
पञ्चाभिस्तप्तस्तपत्येष एतत्सहस्र धामानि मनुतिष्ठन्त्येनम् ।
सप्त त्वा सूर्य हरितो वहन्ति ब्रह्मणादित्य स्त्रिवृता मुखेन ॥४॥
वि द्योतन्ते द्योतत आ च द्यतते अप्स्वन्तरमृतो घर्म उद्यन् ।
हन्ता वृत्रस्य हरितामनीकमनाधृष्टास्तन्वः सूर्यस्य ॥५॥
घर्म: पश्चादुत घर्मः पुरस्तादयोदंष्ट्राय द्विषतोपि दध्म: ।
वैश्वानरः शीतरूरे वसान: सपत्नान् मे द्विषतो हन्तु सर्वान् ॥६॥
ऋतूनृतुभि: श्रपयति ब्रह्मणैकवीरो घर्मः शुचान: समिधा समिद्ध: ।
ब्रह्म त्वा तपति ब्रह्मणा तेजसा च ॥७॥
ब्रह्म जज्ञानं प्रथमं समाददे तज्जायमानं न विभिते न विद्यते । यज्ञा
तदङ्गमानं पितरं व्याहन्ति तस्य नाड्यातता विततास्तता उता: ॥८॥
असयज्जान: स्वराजभारो य इं जजान स्वजासु भर्त्ता ।
प्रजापति: प्रजाभि: सम्विदान: स्त्रिणि ज्योतींषि दधते नपाक:॥९॥तीषिं
प्रजापतिश्चरति गर्भे अन्त: स्वजायमानो बहुधा प्र जायते ।
तस्य पदमभि पश्यन्ति वेधसस्तस्मिन्नार्पिता भुवनानि विश्वा ॥१०॥

१५२
यस्मिन्देवः पितरो मनुष्या अरानाभाविव श्रिताः ।
अपां त्वा पुष्पं पृच्छामि यत्र तन्मायया हितम ॥१॥
यत्रापां पुष्पं निहितं मायया निहितं गुहा ।
यो वै तद्विद्यात् प्रत्यक्षं स विद्याद् ब्राह्मणं महत् ॥२॥
मणिस्त्रिसूत्रो निहित: स्वर्यदूर्ध्वस्त्रियङ् विश एति प्रजानन् ।
स पुमान् पुंसो जनयनृतेन सर्वानन्तान् गच्छति सद्य एव ॥३॥
सर्वां रात्रिं सहोषत्वादित्यो जातवेदसा ।
अग्नेरधि दिवमारोहन्नायुषा समनक्तु मां वर्चसा सं सृजतु माम् ॥४॥
घर्म: साहस्र: समिधा समिद्धोसपत्नाः प्रदिशो मे कृणोतु ।
सपत्नान् सर्वान् मे सूर्यो हन्तु वैश्वानरो हरिः ॥५॥
घर्मस्तप्त प्र दहतु भ्रातृव्यान् द्विषतो वृका ।
आदत्ताञ्छत्रूनादित्य उद्यन्सूर्य: पृतन्यतः ॥६॥
वैश्वानर: प्र दहतु भ्रातृव्यान् द्विषतो वृषा ।
उद्यन् मे शुक्र आदित्यो विमृधो हन्तु सूर्य: ! ॥७॥
शुक्रं सुवर्णं हरिं ब्रह्मभ्राजदजस्रं ज्योतिर्दिवमाततान ।
हरि: सुवर्णः प्रमथिष्णुराशु: सपत्नान् हन्तु महता वधेन ॥८॥
हरि: सुवर्ण: सृजत्वभयंकरो हिरण्यवर्णो दुरितादाप आशुः ।
सपत्नान् सर्वान् मे सूर्य आदित्यं हन्तु रश्मिभि: ॥९॥
महान्तमर्थं परिसद्य एत्यहोरात्रे विततश्च्छुक्र उद्यन् ।
सपत्नान सर्वान मे सूर्यों हन्तु वैश्वानर दहन् ॥१०॥
उद्यन्नद्य चित्रमह: सपत्नान् मेव जहि ।
दिवैनान् रश्मिभिर्जहि रात्र्यैणांस्तमसा वधीस्ते यन्त्वधमं तम: ॥११॥
तेजस्तपांसि मुखतो बिभर्ष्यानन्दं भूतं महसि: प्रतिष्ठाम्॥
पर्यूहमाण: श्रियमेषि सर्वतो मोघं सत्यं यश उद्यतं ते ॥१२॥

१५३
ब्रह्मचारिष्णश्चरति रोदसी उभे यस्मिन् देवा: संमनसो भवन्ति ।
स दाधार पृथिवीं द्यामुतामुं स आचार्यं तपसा पिपर्तु ॥१॥
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्त: ।
तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवा: ॥२॥
ब्रह्मचारिणं पितरो मनुष्या देवजना गन्धर्वा एनमनुयन्ति सर्वे ।
त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वाङ् स देवांस्तपसा पिपर्त्ति ॥३॥त्रयस्त्रीं
इयं समित् पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलावी श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
ब्रह्मचारी समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ॥
स सद्य एति पूर्वादपरं समुद्रं लोकान् संगृभ्य मुहुराचरिक्रत् ॥६॥
ब्रह्मचारी जनयन् ब्रह्मापो लोकान् प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो भूत्वा असुरांस्ततर्हि ॥७॥
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
ते ब्रह्म कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥८॥
आचार्यस्ततक्ष नभसी उभे उर्वी गम्भीरे पृथिवीं दिवं च ।
ते ब्रह्मचारी तपसाभि रक्षति तयोर्देवाः सदमादं मदन्ति ॥९॥
अर्वागन्य: परो अन्यो गुहा निधी निहितौ ब्राह्मणस्य ।
तौ ब्रह्मचारी तपसाभि रक्षति तत् केवलं कृणुते ब्रह्म विद्वान् ॥१०॥

१५४
अर्वागन्यो दिवस्पृष्ठादितो ऽन्य: पृथिव्याग्नी समेतो नभसी अन्तरेमे ।
तयो: श्रयन्ते रश्मयोधि दृढ़ास्ताना तिष्ठति तपसा ब्रह्मचारी ॥१॥
अभिक्रन्दन्नरुणः शितिङ्गो बृहच्छेपोनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्र: ॥२॥
पर्जन्यो मृत्युर्वरुणः सोम ओषधय: पय:॥
जीमूता आसन् सत्वानस्तैरिदं स्वराभरन् ॥३॥
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
तेषामर्चींषि पृथगभ्रे चरन्ति तेषामाज्यं पुरुषो वर्षमश्वः ॥४॥
अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणो यद्यदैच्छत् प्रजापतौ।
तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रो अध्यात्मनः ॥५॥
आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापति: ।
प्रजापतिर्वि राजति विराडिन्द्रोभवद् वशी ॥६॥
ब्रह्मचर्यण तपसा राजा राष्ट्रं वि रक्षति ।
आचार्यो ब्रह्मचर्यण ब्रह्मचारिणमिच्छते ॥७॥
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीर्षति ॥८॥
ब्रह्मचर्येण तपसा देवा मृत्युमुपाजयन् ।
इन्द्रो ह ब्रह्मचर्येणामृतं स्वराभरत् ॥९॥
ओषधयो भूतभव्यमहोरात्रे वनस्पतय: ।
संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिण: ॥१०॥

१५५
पार्थिवा दिव्या: पश्व आरण्या ग्राम्याश्च ये ।
अपक्षा: पक्षिणश्च ये ते जाता ब्रह्मचारिण: ॥१॥रीणः
पृथक् सर्वे प्राजापत्याः प्राणाङ् आत्मसु बिभ्रति ।
सर्वास्तान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२॥
ब्रह्मचारी ब्रह्मभ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोता: ।
स स्नातोः बभ्रुः पिङ्गल: पृथिव्यां बहु रोचते ॥३॥
देवानामेतत् परिपूतमनभ्यारूढं चरति रोचमानम् ।
तस्मिन् सर्वे पशवस्तत्र यज्ञस्तस्मिन्नन्नं सह देवताभिः ॥४॥
प्राणापानौ जनयन्नाद्व्यानं चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् ।
वाचं श्रेष्ठां यशो अस्मासु धेहि ॥५॥
अन्ने रेतो लोहितमुदरं तानि कल्पम् ।
ब्रह्मचारी सलिलस्य पृष्ठे तपोतिष्ठत् तप्यमानः समुद्रे ॥६॥
(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वाविंशति अनुवाकः)
इत्यथर्ववेदे पैप्पलाद संहितायां क्षुद्रकाण्डनाम षोडशकाण्डः समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP