सप्तदशकाण्डः - २६ ते ३०
पैप्पलादसंहिता
२६
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥१॥
वाता पवमानौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥२॥
इन्द्राग्नी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥३॥
मित्रावरुणौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥४॥
भवाशर्वौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥५॥
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥६॥
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥७॥
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥८॥
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥९॥
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१०॥
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥११॥
देवीरापो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: ॥१२॥
देव विष्णो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१३॥
देव त्वष्टर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१४॥
देव धातर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१५॥
देव सवितर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम्॥
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥१६॥
देव पूषन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१७॥
देव बृहस्पते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१८॥
देव प्रजापते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥१९॥
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥२०॥
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: ॥२१॥
(इति एकानृचनाम सप्तदशकाण्डे पञ्चमो ऽनुवाको )
२७
इन्द्रो वज्रमसिञ्चत वृत्राय हन्तवे ।
त्वष्टा वज्रमसिञ्चत वृत्राय हन्तवे ॥१॥
यो वज्रः सो विश्वानरो यत् ते अग्नेर्वीर्यं स विश्वाषाड् यन्ति आरम्भणं
स वैश्वानर: ॥२॥
एतद् वा इदं सर्वं यत् एतानि त्रीणि ॥३॥
विश्वानरो वैश्वानरो विश्वाषाट् ॥४॥
सर्वाण्येव पुण्याल्लोकानवरुन्द्धे सर्वाश्व देवता य एवं विद्वाननडुहो व्रतं बिभर्ति ॥५॥
२८
तमादत्त तमुदैङ्गयत् तमुपामिमीत प्र भराणीति ।
सोम्यहस्तादमुच्यत दैवो वज्रः क्षुर: पविः सहस्रपृष्टिर्दिवस्पृशः ॥२॥
स संसिजानोतिष्ठद्धरुहरा भवन्नेतदिच्छन् ॥३॥
स समुद्रं प्राविशत् स समुद्रमदहत् ॥४॥
तस्मात् समुद्रो दुर्गरपि व वैश्वानरेण हि दग्धः ॥५॥
स शक्र उदक्रामत् सोध्यायदसौ वज्रै: आसुरैः सपद्यदेवासुरक्षति व्रतं चराणीति स व्रतमचरत् ॥६॥
सो ऽणु: कृशो भवति तस्मादणु: कृशो व्रतचारी भवत्यवडुयि कृशो भूत्वेन्द्रो असुरानुपावृङक्त ॥७॥
स परमेष्ठिन् उपाधावत् ।
स प्रजापतिम् उपाधावत् ।
स विष्णुम् उपाधावत् ।
स गृहपतिम् उपाधावत् ।
स विराजम् उपाधावत् ।
स स्वराजम् उपाधावत् ।
स सम्राजम् उपाधावत् ।
सो ऽहरात्रे उपाधावत् ।
सो ऽर्धमासान् उपाधावत् ।
स मासान् उपाधावत् ।
स ऋतून् उपाधावत् ।
स आर्त्तवान् उपाधावत् ।
स ऋषीन् उपाधावत् ।
स आर्षेयान् उपाधावत् ।
सो ऽङ्गिरसान् उपाधावत् ।
सो आङ्गिरसान् उपाधावत् ।
सो अथर्वणम् उपाधावत् ।
सो आथर्वणान् उपाधावत् ॥८॥
विश्वान्देवान् मरुद्गणान् तमन्दसान्दवं स्तोम प्रथमोथेन्द्राग्नी ।
तमुपामन्त्रयेते पुण्यया वाचा क्रूरया वाचा हहिष्या वाचा स सावित्न्यन् ।
अथैषा मोपचामे निष्यसीति ।
स उपशाम्यत् ।
तस्माद् यो ब्रह्म वेदोतापस्स तं शमयति दोहयत् एवैनाम् ॥९॥
तमृक्सामाभ्यां उतभितो यजुषा यज्ञेन गायत्रेण वामदैव्येन च॥१०॥
एतद् वा इदं सर्वं यद् ऋक्सामौ एताविन्द्रस्य बाहू ।
तमादत्त तं परूंष्या धत्ते ।
प्रजा वै समृद्धिमक्षतिं पशवः परूंषि ।
प्रजामेव समृद्धिमक्षतिमव रुन्द्धे य एवं वेद ॥११॥
२९
स दिक्षु प्रत्यतिष्ठत् ॥१॥
दिश एवानु प्रति तिष्ठति य एवं वेद ॥२॥
३०
स विश्वामाह्यक्रमात ।
एष वै विश्वाषाड्यौरेवासी ॥१॥
एते वै सर्वे पुण्यलोकाः सर्वाश्च देवताः स नाधारयत् ॥२॥
सर्वानेव पुण्याल्लोकानवरुन्द्धे ॥३॥
सर्वाश्च देवता य एवं वेद ॥४॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP