सप्तदशकाण्डः - ५१ ते ५५
पैप्पलादसंहिता
५१
ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु॥
सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥१॥
पितेव पुत्राङ् अभिसं स्वजस्व नः शिवा नो वाता उप वान्तु शग्माः ।
यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥२॥
यद्यत् कृष्ण: शकुन एह गत्वा त्सरं विषक्तं बिल आससाद ।
दासी वा यदार्द्रहस्ता त्समङ्क्त अलूखलं मुसलं शुन्धतापः ॥३॥
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्ष: ।
आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥४॥
वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचाङ् अपबाधमानः । वाध
स उच्छ्रयातैः प्र वदाति वाचं तेन लोकाङ् अभि सर्वान् जयेम ॥५॥
सप्त मेधान् पशवः पर्यगृह्णन् य एषां मेधस्वानुतयश्चकर्श ।
त्रयस्त्रिंशद् देवतास्तान् सचन्ते स नः स्वर्गमभि नेष लोकम् ॥६॥
स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम॥
गृह्णामि हस्तमन्वैत्वत्र मा नस्तारीन्निर्ऋतिर्मो अरातिः ॥७॥
ग्राहिं पाप्मानमति ताङ् अयाम तमो व्यस्य प्र वदासि वल्गु । .
वानस्पत्यः उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥८॥
विश्वव्यचा घृतपृष्ठो भविष्यन् सयोनिर्लोकमुप याहि विद्वान्॥
वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अपि तद् विनक्तु ॥९॥
त्रयो लोकाः संमिता ब्रह्मणेन द्योरेवासौ पृथिव्यन्तरिक्षम्॥
अंशून् गृभीत्वानु संरभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥१०॥
५२
पृथग्रूपाणि बहुधा पशूनामेकरूपो भवति सं समृद्ध्या ।
एतां त्वचं लोहिनीं तां नुदेथां ग्रावा शुन्धाति मलग इव वस्त्रा ॥१॥
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
उखा: कुम्भीर्वेद्यां सं चरन्तां यज्ञायुधैराज्येनातिषक्ता ॥२॥
भूम्यां त्वा भूमिमधिधारयामि तनूः समानी विकृता त एषा ।
यद्यद् द्युत्तं लिखितमर्पणं च तेन मा सुस्त्रोरपि तद् वपामि ॥३॥
अग्नि: पचन् रक्षतु त्वा पुरस्तादिन्द्रो अस्माद् दक्षिणतो मरुत्वान् ।
सोमस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा वरुण: सं ददातै ॥४॥
आ यन्तु दिवः पृथिवी सचन्ते भूम्याः सचन्ते उर्वन्तरिक्षम् ।
शुद्धाः सतीस्ता उत शुन्द्धन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥५॥
पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठा: पात्र आसीक्ताः पर्यग्निरेनाम् ॥६॥
उतेव प्रभ्वीरुत संमितास उत शुक्रा: शुचयश्चामृतास:॥
ता ओदनं दंपतिभ्यां प्रशिष्टा आप: शिक्षन्ती: प्रवता सुनाथा: ॥७॥
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलाञ्च बिन्दून् ।
योषेव दृष्ट्वा पतिमृत्वियायै तैस्तण्डुलैर्भवता समाप: ॥८॥
संख्याता स्तोका: पृथिवीं सचन्ते प्राणापानै: संमिता ओषधीभि:।
असंख्याता ओोप्यमानाः सुवर्णा: सर्वं समापं शुचयः शुचित्वम् ॥९॥
उत्थापय सीदतो बुध्न एनानद्भिरात्मानमपि सं सृजन्ताम् ।
अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥१०॥
५३
प्र यच्छ पर्शुं त्वरया हरन्चहिंसन्त ओषधीर्दान्तु पर्वन् ।
सोमो यासां परि राज्यं बभूवामन्युता वीरुधो मे भवन्तु ॥१॥
नवं बर्हिरोदनाय त्स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । वर्हि
तत्र देवा: सह दैवीर्विशन्त्विमं प्राश्नन्तु दक्षिणतो निषद्य ॥२॥
वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः।
त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३॥
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
तं दंपती जीवन्तौ जीवपुत्रौ उद्वासयातः पर्यग्निधानात् ॥४॥
षष्ठ्या शरद्भिः परि दध्म एतं स्वः पक्वेनाभ्यश्नवातैः ।
उपैनं पुत्रा पितरश्च सीदानिमं स्वर्गं गमयान्तमग्ने: ॥५॥
सर्वान् समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान्।
वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥६॥
उप स्तृणीहि प्रथया पुरस्ताद् घृतेन पात्रमभि धारयेदम् ।
वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिंकराथ ॥७॥
उपास्तरीरकरो लोकमेतमुरु: प्रथतामसमः स्वर्ग: ।
तस्मिन् सुपर्णो महिषच्छ्रयातै देवा एनं देवताभ्यः प्र यच्छान् ॥८॥
यद्यज्जाया पचति त्वत् पर: पर: पतिर्वा जाये त्वत् तिर: ।
सं तत् सृजेथां सह वां तदस्तु संराधयन्तौ सह लोकमेतम् ॥९॥
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः ।
सर्वांस्तान् उप पात्रे ह्वयेथां नाभिं जानाना: शिशव: समायान् ॥१०॥
५४
वसोर्या धारा मधुना समक्ता घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास्ता अव रुन्धे स्वर्गः षष्ठ्यां शरत्सु निधिपा अभीच्छात् ॥१॥
निधिं निधिपा अभ्येनमिच्छादनीश्वरा अभित: सन्त्वन्ये ।
अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्स्वर्गानरुक्षत् ॥२॥
अग्नी रक्षस्तपतु यद् विदेवं क्रव्यात् पिशाच इह मा प्र पास्त ।
नुदाम एनमव रुध्मो अस्मदादित्या नो अङ्गिरसः सचन्ताम् ॥३॥
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयाम: ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्यैनं स्वर्गं सुकृतामयैनम् ॥४॥
इर्द काण्डमुत्तमं प्रापमस्य यस्माल्लोकात् परमेष्ठी समाप ।
आ सिञ्च सर्पिर्घृतवत् समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥५॥
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दध्म एतम् ।
भी नो द्युतेव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् ॥६॥
न किल्बिषमत्र नाधारो अस्ति न यन्मित्रैः समममान एति ।
पक्तारं पक्वः पुनरा विशास्यनूनं पात्रं निहितं न अस्तु ॥७॥
अहं पचाम्यहमिद्ददामि ममेदु कर्मन् करुणेषि जायाः ।
कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ॥८॥
प्रियं प्रियाणां कृणवाम या तत् तमस्ते यन्तु यतमे द्विषन्ति ।
धेनुरनड्वान् वयो आयदन्यत् पौरुषेयमप मृत्युं नुदन्तु ॥९॥
समग्नयो विदुरन्यो अन्यं य ओषधीः सचते यध सिन्धून् ।
यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिर्दधतो बभूव ॥१०॥योति
५५
एषा त्वचां पुरुषे सं बभूवानग्ना: सर्वे पशवो ये अन्ये ।
क्षत्रेणात्मानं परि धापयाथोमोतं वासो मुखमोदनस्य ॥१॥
यदक्षेषु वदति यत् समित्यां यद्वा धने अनृतं वित्तकाम्या ।
समानं तन्तुं सह संविदानौ तस्मिन् सर्वं शमलं सादयाथः ॥२॥
वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।
विश्वव्यचा विश्वकर्मा स्वर्ग: सयोनिर्लोकमुप याह्येतम् ॥३॥
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम् ।
अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥४॥
प्राच्यै दिशे अग्नयेधिपतयेसिताय रक्षित्र आदित्यायेषुमते एतं परि दध्म: ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम ॥५॥
दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे वसुभ्य इषुमद्भ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम ॥६॥
प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे मित्रायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम ॥७॥
उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे वातायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वथा पक्वेन सह सं भवेम ॥८॥
ध्रुवायै दिशे विष्णवेधिपतये कल्माषग्रीवाय रक्षित्रे वीरुद्भ्य इषुमद्भ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम ॥९॥
ऊर्ध्वायै दिशे बृहस्पतयेधिपतये श्वित्राय रक्षित्रे अशनिभ्य इषुमतीभ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम ॥१०॥
(इति एकानृचनाम सप्तदशकाण्डे अष्टमो ऽनुवाकः)
इत्यथर्ववेदे पैप्पलादसंहितायां एकानृचनाम सप्तदशकाण्ड: समाप्त:
N/A
References : N/A
Last Updated : May 12, 2021
TOP