४६
परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥१॥
इमे जीवा वि मृतैराववृत्रन्नभूद् भद्रा देवहूतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२॥
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
ज्योग्जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥३॥
यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति साकम् ।
यथा नु पूर्वमपरो जहात्येवा त्वष्टरायूंषि कल्पयैषाम् ॥४॥
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यजमाना यति स्थ ।
तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥५॥
अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखाय: ।
अत्रा जहीत ये असन्दुरेवा अनमीवानुत्तरेमाभि वाजान् ॥६॥
उत्तिष्ठता प्र तरता सखायोश्मन्वती स्यन्दते नदीयम् ।
अत्रा जहीत ये असन्नशिवा: शिवान् स्योनानुत्तरेमाभि वाजान् ॥७॥
वैश्वदेवीं सूनुतामा रभध्वं शुद्धा भवन्त: शुचय: पावका:॥
अतिक्रामन्तो दुरितानि विश्वा शतं हिमा: सर्ववीरा मदेम ॥८॥
उदीचीनै: पथिभिर्वायुमद्भिरतिक्रामन्तोवरान् परेभि: ।
त्रिः सप्तः कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥९॥
मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थे ऽथ जीवासो विदथमा वदेम ॥१०॥

४७
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥१॥
इमे वीरा अविधवाः सुजानय आञ्जनेन सर्पिषा सं स्पृशंताम् ।
अनश्रवोऽनमीवाः सुरत्नाः स्योनाद्योनेरधि तल्पं रुहेयुः ॥२॥
व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्सृजामि ॥३॥
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
मय्यहं तं प्ररि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥४॥
अपावृत्याग्निं गार्हपत्यं क्रव्यादा: प्रेत दक्षिणा: ।
प्रियं पितृभ्य आत्मने ब्रह्मणे कृणुत प्रियम् ॥५॥
द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
अग्नि: पुत्रस्य ज्येष्ठस्य य: क्रव्यादनिराहितः ॥६॥
यत् कृषते यद् वनुते यच्च वस्नेन विन्दते ।
सर्व मत्र्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥७॥
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे।
छिनत्ति कृषिं गां धनं यं क्रव्यादनुवर्त्तते ॥८॥
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य च।
क्रव्यादमग्निरन्तिकादनुविद्वान् वितावति ॥९॥
ग्राह्या गृहाः सं सृज्यन्ते यत् स्त्रिया म्रियते पतिः ।
ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥१०॥

४८
यद् रिप्रं दुरितं चकृम यच्च दुष्कृतम् ।
आपो मा तस्माच्छुन्धन्त्वग्नेः संकसुकाच्च यत् ॥१॥
ता अधरादुदीचीराववृत्रन् प्रजानतीः पथिभिर्देवयानैः ।
पर्वतस्य ऋषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ।
अग्ने अक्रव्यान् निष्क्रव्यादं नुदा: देवयजनं वह ॥२॥
इमं क्रव्यात् प्रविवेशायं क्रव्यादमन्वगात् ।
व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥३॥
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयानन्तरा श्रित: ।
जीवानामग्ने प्र तिर दीर्घमायुः पितॄणां लोकमुपयन्तु ये मृताः ॥४॥
सुगार्हपत्यो वितपन्नरातीरुषामुषा श्रेयसीं श्रेयसी दधत् ।
सर्वानग्ने सहमान: सपत्नानैषामूर्जं रयिमस्मासु धेहि ॥५॥
इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्विद्वान् विजहाति मृत्युम् ।
तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥६॥
अहोरात्रे अन्वेषि बिभ्रत् क्षेम्यस्तिष्ठन् प्रतरण: सुवीरः ।
अनातुरा: सुमनसस्तल्प बिभ्रज्ज्योगेव न: पुरुषगन्धिरेधि ॥७॥
ते देवेष्वा वृश्चन्ते पापं जीवन्ति सर्वदा ।
क्रव्याद् यमग्निरन्तिकादनुविद्वान्वितावति ॥८॥
प्रेव मनसा पतति मुहुरा वर्तते पुनः।
क्रव्याद्यमग्निरान्तिकादश्व इवानुवपते नडम् ॥९॥

४९
ये ऽश्रद्धया धनकाम्या क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं पर्यादधतु सर्वदा ॥१ ॥पर्जा
इषीकां जरतीं इष्ट्वा तिल्पिञ्जं दण्डनं नडम्।
तानिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥२॥
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादुत चन्द्रं त आहुः ।
माषा: पिष्टा भागधेयं हव्यं ते अरण्यान्या गह्वरं सचस्व ॥३॥
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याचकार ।
परामीषामसून् दिदेश दीर्घेणायुषा समधादिहेमाम् ॥४॥
अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद् दुरितादवद्यात् ।
आ रोहत सवितुर्नावं हिरण्यैः षड्भिरुर्वीभिरमतिं तरेम ॥५॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वान् ।
वयं राजान: प्रथमा धनानामरिष्टासो वृजनीभिस्तरेम ॥६॥
पूर्णं नारि प्र हराभि कुम्भमपां रसमोषधीनां घृतस्य ।
इमान् पातॄनमृतेना समङ्गधि स्थिरा वीराः सुमनसो भवन्तु ॥७॥
(इति एकानृचनाम सप्तदशकाण्डे सप्तमो ऽनुवाकः)

५०
पुमान् पुंसो अधि तिष्ठ चर्म तत्र ह्वयस्व यतमा प्रिया ते ।
यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥
तावद्वां तेजस्तति वीर्याणि तावच्चक्षुस्ततिधा वाजिनानि ।
अग्नि: शरीरं सचते यदैधो अधा पक्वान् मिथुना सं भवाथः ॥२॥
समस्मिल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
पूतौ पवित्रैरुप तदु ह्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥
आपः पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
तासां भजध्वममृतं यमाहुर्यमोदनं पचति वो जनित्री ॥४॥
यं वः पिता पचति यं च माता रिप्रान्निर्मुक्त्यै शमलाच्च वाच:॥
स ओदनः शतधार: स्वर्ग उभे व्याप नभसी महित्वा ॥५॥
उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधाना: सचन्ते । प्रदीश
मिमाथां पात्रं तद्वां पूर्णमस्तु स वां पक्वः पितृयाणेन्यायत् ॥७॥
दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत् ।
तस्मै वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात् ॥८॥
प्रतीची दिशामियमिद् वरं वां यस्यां सोमो अधिपा मृडिता च ।
तस्यां मिमाथां सुकृत: परेथामधा पक्वेन सह सं भवेम ॥९॥
उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशामुदीची कृणवन्नो अग्रम् ।
पाङ्क्तं छन्द: परुषो बभूव विश्वैर्विश्वाङ्गै: सह सं भवेम ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP