प्रथमोध्यायः - प्रथमः पादः
ब्रह्मसूत्रम् अनुभाष्यम्
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥१॥
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥२॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥३॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥४॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥५॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥६॥
अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।
स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥७॥
तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥८॥
ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् ।
स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥९॥
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥१०॥
स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।
ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥११॥
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥१२॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥१३॥
नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥१४॥
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥१५॥
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥१६॥
मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् ।
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥१७॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥१८॥
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥१९॥
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥२०॥
तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥२१॥
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥२२॥
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥२३॥
वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥२४॥
यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥२५॥
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥२६॥
असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥२७॥
अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते ।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥२८॥
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेतः ॥२९॥
मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते ।
नचाअवरणमज्ञानमसत्ये तेन चेष्यते ॥३०॥
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥३१॥
अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने ।
अनवस्थितिस्तथाच स्यादन्योन्याश्रयताथवा ॥३२॥
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत्स्यादात्मापि हि तादृशः ॥३३॥
अतोऽधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥३४॥
सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।
न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥३५॥
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥३६॥
सार्वज्ञ्यादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥३७॥
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्त्यैक्ययोरपि ॥३८॥
सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्यतः ।
अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥३९॥
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥४०॥
अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।
यथा दृष्टया प्रसन्नः सन् राजा बन्धापनोदकृत् ॥४१॥
एवं दृष्टः स भगवान् कुर्याद्बन्धविभेदनम् ।
कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥४२॥
कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥४३॥
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥४४॥
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।
मुख्येष्यं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥४५॥
प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।
यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥४६॥
इत्यादिवाक्यैराकाङ्क्षासन्निधिर्योग्यता यतः ।
अस्मिन्नेव समस्तस्येतीष्ये व्युत्पत्तिरिष्यते ॥४७॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥४८॥
बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्टयैव व्युत्पत्तेः सम्भवे सति ॥४९॥
एष्यदानयनायायं कुत एव प्रतीक्षते ।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥५०॥
पुनर्दृष्ट्यैव शब्दश्रुत्पश्चात्व्युत्पत्तिमेष्यति ।
वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥५१॥
आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।
दृष्ट्या ज्ञातपदार्थस्य पदाकाङ्क्षा भविष्यति ॥५२॥
व्युत्पत्तिः प्रथमा तस्माद्वतर्माने गते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥५३॥
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
क्वापि चेष्या तदर्था स्यादत्तिर्हि रसवित्तये ॥५४॥
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
न च स्रुकस्रुववह्नयादावतात्पर्यं श्रुतेर्भवेत् ॥५५॥
यत्किञ्चित्करणरस्यापि यज्ञतैवान्यथा भवेत् ।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥५६॥
इति शब्दोन्नयेऽग्नावित्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥५७॥
आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥५८॥
वाक्यभेदो न युक्तः स्याद्योगश्च स्यान्महाफले ।
इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥५९॥
कल्पनागौरवं चेत्स्यात्पृथक्तात्पर्यसम्भवे ।
कल्पनागौरवादेव पदार्था न स्युरेव हि ॥६०॥
प्रमाणावगतत्वं चेत्तात्पर्याणशं तथैव हि ।
तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥६१॥
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥६२॥
अङ्गीकृतत्वादपि तैः पदार्थानां पृथक्पृथक् ।
क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥६३॥
प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात् ।
अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥६४॥
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥६५॥
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥६६॥
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥६७॥
न मानमपि वेदानामङ्गीकार्या हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥६८॥
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥६९॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥७०॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥७१॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥७२॥
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।
नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥७३॥
एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।
उक्तं विद्यापृथक्तवात्तु सङ्क्षेपेणात्र सूचितम् ॥७४॥
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥७५॥
ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥७६॥
उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥७७॥
यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥७८॥
चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥७९॥
तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः ।
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥८०॥
स विष्णुराह हीयन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥८१॥
मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥८२॥
दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।
गुणा नारा इति ज्ञेयस्तद्वान्नारायणः स्मृतः ॥८३॥
ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।
अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥८४॥
सिद्धत्वाद्ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।
अम्भस्यपार इत्युक्तो नारायणपदेरितः ॥८५॥
आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।
कामतो विधिरुद्रादिपददातृया स्वयं श्रिया ॥८६॥
योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।
यस्मिन् देवा अधीत्युक्तवा समुद्रं स्थानमेव च ॥८७॥
नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।
यतः प्रसूतेत्युक्तवा च तदेव ब्रह्म चाब्रवीत् ॥८८॥
अन्तःसमुद्रगं विश्वप्रसूतेः कारणठ तु यत् ।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥८९॥
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥९०॥
यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।
श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥९१॥
अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।
गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥९२॥
प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥९३॥
तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।
न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥९४॥
दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः ।
न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥९५॥
अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।
अज्ञानं पारतन्त्र्यं च प्रळयेऽभाव एव च ॥९६॥
अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।
जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥९७॥
अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।
कृष्णद्धयानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥९८॥
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।
न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥९९॥
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।
निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥१००॥
भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥१०१॥
सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।
न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥१०२॥
निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा ।
लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥१०३॥
इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।
ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥१०४॥
भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।
भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥१०५॥
स्वनिर्वाहकता चेत्स्याद्बाह्यं बाहकमित्यपि ।
पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥१०६॥
सत्यज्ञानादिकेऽप्येव न व्यावृत्त्या प्रयोजनम् ।
व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ।
निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥१०७॥
अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।
विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥१०८॥
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥१०९॥
विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥११०॥
अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।
एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥१११॥
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।
तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥११२॥
ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ।
अप्रामाण्यानुमा च स्यान्न पृथक्चानुमेश्वरे ॥११३॥
पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ।
शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥११४॥
नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥११५॥
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।
किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥११६॥
वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ।
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥११७॥
वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।
उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥११८॥
त एवान्वयनामानस्तैः सम्यक्प्रविचारिते ।
मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥११९॥
ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा ।
लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ॥१२०॥
माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।
वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥१२१॥
नावाच्यं तेन किञ्चित्स्याद्यत इत्यादिकैर्वदन् ।
अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥१२२॥
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।
एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥१२३॥
महती जायते लज्जा यत्र तत्राखिला रवाः ।
अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥१२४॥
आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।
जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥१२५॥
वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।
कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥१२६॥
आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।
आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥१२७॥
स्यात्सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥१२८॥
अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।
अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥१२९॥
अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥१३०॥
असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥१३१॥
इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥१३२॥
तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।
उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥१३३॥
परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥१३४॥
इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥१३५॥
पदं च निर्गुण इति कथं गौणं वदिष्यति ।
गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥१३६॥
अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।
कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥१३७॥
न च साङ्खयनिराकृत्यै सूत्राण्येतान्यचीकॢपत् ।
भगवान्नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥१३८॥
समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात्तदभावे कुतोऽन्वयः ॥१३९॥
कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।
योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥१४०॥
जन्मादिकारणे साक्षादाह देवः समन्वयम् ।
उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥१४१॥
कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।
मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥१४२॥
अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।
तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥१४३॥
वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥१४४॥
निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।
अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥१४५॥
अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा ।
अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥१४६॥
जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।
वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥१४७॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥१४८॥
प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन ।
सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥१४९॥
वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा ।
विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥१५०॥
अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।
अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥१५१॥
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।
आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥१५२॥
तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ।
शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ॥१५३॥
गुणवाचिनां च प्रथममाह देवः समन्वयम् ।
समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥१५४॥
तदेव ब्रह्म परममिति सावधृतिर्जगौ ।
यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥१५५॥
योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥१५६॥
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।
उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥१५७॥
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।
पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥१५८॥
सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।
आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥१५९॥
समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।
ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥१६०॥
ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥१६१॥
दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥१६२॥
विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।
विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥१६३॥
समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।
कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥१६४॥
ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।
स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥१६५॥
स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥१६६॥
पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥१६७॥
ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।
विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥१६८॥
तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।
ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥१६९॥
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ।
ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥१७०॥
इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।
आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥१७१॥
तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।
अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥१७२॥
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ॥१७३॥
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ।
इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥१७४॥
मुख्यं ब्रह्म हरिस्तस्मात्प्रस्तावः परमित्यपि ।
मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥१७५॥
असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।
प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥१७६॥
भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।
महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥१७७॥
महाप्राणो महाबोधो महाविज्ञानवानपि ।
विशेषसामान्यतया विज्ञानं मन इत्यपि ॥१७८॥
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।
अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥१७९॥
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् ।
ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥१८०॥
ब्रह्मतर्कवचोऽप्येवमत एकः स पञ्चधा ।
उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ॥१८१॥
प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।
प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥१८२॥
उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।
महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥१८३॥
उक्तः श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् ।
करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ॥१८४॥
इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।
दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥१८५॥
सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ।
प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान् ॥१८६॥
ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।
तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥१८७॥
लक्षितं तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि ।
उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥१८८॥
अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ।
सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥१८९॥
इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ।
ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ॥१९०॥
विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।
अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥१९१॥
प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।
आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥१९२॥
उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता ।
प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ॥१९३॥
नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।
अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥१९४॥
अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।
क्रियते परया यस्मादितरोऽत्र न कथ्यते ॥१९५॥
पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।
इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥१९६॥
पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ।
महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥१९७॥
स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।
तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ॥१९८॥
सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ।
इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥१९९॥
ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।
तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥२००॥
भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ।
हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥२०१॥
आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।
बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ॥२०२॥
आप आपालनाच्चैव पृथिवी प्रथितो यतः ।
उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥२०३॥
ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ।
पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥२०४॥
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।
आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥२०५॥
अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।
एवं देहादिपर्यन्तमागतं हरिमेव तु ॥२०६॥
परामृशति तस्यैव पञ्चरूपत्ववित्तये ।
त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥२०७॥
स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।
सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥२०८॥
इति तं रसशब्देन विशिनष्टि शरीरगम् ।
इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥२०९॥
शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।
तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥२१०॥
आदित्ये पुरुषे चायमिति भेदोपदेशतः ।
नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ॥२११॥
विमतानि शरीराणि मद्भोगायतनानि यत् ।
शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥२१२॥
प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्खिता ।
अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ॥२१३॥
जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः ।
घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥२१४॥
न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता ।
वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ।
योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति ।
स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥२१५॥
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥२१६॥
अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥२१७॥
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।
येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥२१८॥
उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।
स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥२१९॥
तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।
अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥२२०॥
आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः ।
उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ॥२२१॥
वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।
सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ॥२२२॥
तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।
न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ॥२२३॥
चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।
वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥२२४॥
तच्च वाघूलशाखायामष्टरूपमुदाहृतम् ।
विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥२२५॥
आवापोद्वापतष शाखा यत आहुः परं पदम् ।
यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥२२६॥
लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः ।
दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥२२७॥
इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् ।
अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥२२८॥
साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।
समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥२२९॥
भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।
एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।
तदन्येषां मतमपि सत्संसत्सु न भासते ॥२३०॥
अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥२३१॥
अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।
अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥२३२॥
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥२३३॥
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।
शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥२३४॥
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥२३५॥
रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।
अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥२३६॥
विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ।
तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥२३७॥
समन्वयं साधयति देवानां तत्र शक्तताम् ।
आशङ्कय तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥२३८॥
समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वाभिदां तैश्च पुनरेव न्यवारयत् ॥२३९॥
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥२४०॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥२४१॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपि वरीयस्त्व पूर्वाल्लिङ्गाद्धरेर्भवेत् ॥२४२॥
प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः ।
लिङ्गं बलवदेव स्यात्प्रेरकोऽस्यापि यद्धरिः ॥२४३॥
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।
कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥२४४॥
इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।
तादृशत्वाच्च तच्छक्तेर्बाहुल्ये श्रुतिलिङ्गयोः ॥२४५॥
अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥२४६॥
प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥२४७॥
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः ॥२४८॥
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।
अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥२४९॥
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥२५०॥
बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥२५१॥
ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः ।
तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥२५२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः॥
N/A
References : N/A
Last Updated : July 03, 2021
TOP