दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ॥१॥
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।
स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ॥२॥
न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ।
यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥३॥
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥४॥
अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥५॥
गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ।
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥६॥
ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥७॥
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥८॥
मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥९॥
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥१०॥
नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥११॥
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।
आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः ॥१२॥
विगतच्छादनत्वात्तु गच्छ भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद्यतः ॥१३॥
स्फुटत्वात्फडिति प्रोक्तः कवरक्षण इत्यतः ।
कवचं वतर्ते यस्मात्षड्गुणत्वेन सर्वदा ।
वषट्तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥१४॥
स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते ॥१५॥
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥१६॥
तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥१७॥
अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥१८॥
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्योऽस्ति क इत्यस्यरोभयार्थतः ॥१९॥
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥२०॥
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥२१॥
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥२२॥
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥२३॥
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥२४॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥२५॥
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥२६॥
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥२७॥
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥२८॥
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥२९॥
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥३०॥
तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥३१॥
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥३२॥
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥३३॥
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः ॥३४॥
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥३५॥
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥३६॥
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ॥३७॥
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ॥३८॥
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥३९॥
णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥४०॥
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥४१॥
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥४२॥
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥४३॥
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥४४॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥४५॥
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥४६॥
अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः सर्वथैवास्ति परिणामि जडं यदि ॥४७॥
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥४८॥
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ॥४९॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥५०॥
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥५१॥
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥५२॥
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥५३॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥५४॥
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥५५॥
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः ॥५६॥
निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥५७॥
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥५८॥
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥५९॥
क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतेष्यते ॥६०॥
अङ्गीकृतं तत्पितृवन्नतु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातृणां च विकारिता ॥६१॥
चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥६२॥
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥६३॥
स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥६४॥
ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥६५॥
न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥६६॥
नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥६७॥
सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥६८॥
भागेन परिणामश्चेद्भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥६९॥
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् ।
ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥७०॥
शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥७१॥
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥७२॥
न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥७३॥
उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥७४॥
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥७५॥
सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।
आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥७६॥
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥७७॥
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥७८॥
तस्मादशेषकर्तैको निर्विकारो रमापतिः ।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥७९॥
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ॥८०॥
यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥८१॥
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ।
ब्रह्मणश्चेत्क्व सार्वज्ञ्यमन्यगा चेत्स्वतोऽन्यता ॥८२॥
नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ।
देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥८३॥
किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि ।
भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥८४॥
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥८५॥
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।
बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ॥८६॥
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।
स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः ॥८७॥
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥८८॥
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ॥८९॥
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥९०॥
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥९१॥
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥९२॥
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥९३॥
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥९४॥
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥९५॥
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥९६॥
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥९७॥
तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥९८॥
अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥९९॥
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥१००॥
इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥१०१॥
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥१०२॥
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥१०३॥
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥१०४॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥१०५॥
पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥१०६॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥१०७॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥१०८॥
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च ॥१०९॥
विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥११०॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥१११॥
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥११२॥
इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया ।
उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥११३॥
वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु ।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥११४॥
प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥११५॥
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ॥११६॥
देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति ॥११७॥
एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥११८॥
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥११९॥
विकारत्वविवक्षायां नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च ॥१२०॥
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥१२१॥
तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ।
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥१२२॥
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद्विश्वं पूर्णशेषगुणात्मकः ॥१२३॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमोऽध्यायः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP