समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ॥१॥
नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥२॥
आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि ।
उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥३॥
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥४॥
सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥५॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥६॥
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥७॥
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥८॥
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥९॥
विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥१०॥
ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥११॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥१२॥
इति भागवते चैव तस्मादात्मा जनार्दनः ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥१३॥
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥१४॥
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥१५॥
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥१६॥
प्रतीकविषयत्वेन न कार्या विष्णुभावना ।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा ॥१७॥
योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥१८॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥१९॥
योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥२०॥
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा ॥२१॥
योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥२२॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति ॥२३॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥२४॥
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥२५॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥२६॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥२७॥
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥२८॥
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥२९॥
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥३०॥
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥३१॥
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥३२॥
आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥३३॥
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥३४॥
यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥३५॥
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥३६॥
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥३७॥
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥३८॥
व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः ।
व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥३९॥
उत नेति विकल्पे तु यदि स्याद्व्यावहारिकम् ।
तस्यापि बाध्यता चेत्स्याद्भेदः स्यात्पारमार्थिकः ॥४०॥
अव्यावहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥४१॥
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥४२॥
न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥४३॥
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥४४॥
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥४५॥
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥४६॥
न च विष्णुः प्रतीकं यत्तस्मान्नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥४७॥
यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना ।
उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥४८॥
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥४९॥
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥५०॥
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥५१॥
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥५२॥
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥५३॥
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥५४॥
ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥५५॥
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥५६॥
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥५७॥
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ॥५८॥
ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।
ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥५९॥
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥६०॥
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥६१॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP