देवानां च मनुष्याणामेतावत्सममेव हि ।
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥१॥
कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् ।
फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥२॥
स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये ।
देवानां मार्ग उद्दिष्टो नार्चिरादिर्नचोत्क्रमः ॥३॥
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ॥४॥
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।
कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ॥५॥
जातानां मानुषे लोके देवानां च कदाचन ।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥६॥
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥७॥
क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥८॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥९॥
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥१०॥
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः ॥११॥
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥१२॥
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ॥१३॥
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति पुंसां हि मतयो गुणभेदतः ।
पृथक्पृथक्प्रजायन्ते तमसैवान्यथामतिः ॥१४॥
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः ।
गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः ॥१५॥
साम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ।
बहळा चातिविशदा स्पष्टा चैव श्रियो मतिः ॥१६॥
महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ।
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा ॥१७॥
सूर्यप्रभावदखिलं भासयन्ति निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥१८॥
विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः ।
तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् ।
न तादृशी ब्रह्मणस्तु प्राय एव श्रियो यथा ॥१९॥
मुक्तानां तु तदन्येषां समुद्रतरळोपमा ।
अग्निज्वालावदेव स्यात्स्मृतिगानां दृशो भवः ॥२०॥
एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः ।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥२१॥
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।
ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥२२॥
पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥२३॥
इति तत्केन मानेन मोक्षरूपं प्रदृश्यते ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ॥२४॥
अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥२५॥
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।
उपाधिः प्रतिरूपं हि साधनं तन्नचापरम् ॥२६॥
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ॥२७॥
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ।
नापसिद्धान्तता दोषः प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान्न पसङ्गः क्वचिद्भवेत् ॥२८॥
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।
सोऽपीत्युक्ते वदेत्किं स तस्माद्वेदोदितो भवेत् ॥२९॥
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।
चकार सौगतमतं मोहायैव चकार यत् ॥३०॥
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥३१॥
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥३२॥
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः ।
ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥३३॥
न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा ।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥३४॥
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।
दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता ॥३५॥
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥३६॥
निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥३७॥
अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिदूषितम् ॥३८॥
संसृत्यवस्थं विज्ञेयं संवृत्यैव विशेष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥३९॥
केचित्तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥४०॥
यस्य शून्यैकरसता ज्ञानात्सा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥४१॥
संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥४२॥
बहुजीवमताश्चेति माया तेषां तु संवृतिः ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा ॥४३॥
सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥४४॥
अनृतादेरपोहं तु स्वयमेव हि मन्यते ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥४५॥
प्रामाण्यादि च वेदस्य फलतः सममेव हि ।
अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते ।
अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ॥४६॥
दीर्घभ्रान्तिकरी चेत्स्यादतत्त्वावेदकप्रमा ।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥४७॥
तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् ।
छत्राकारत्वविज्ञानंचन्द्रप्रादेशतामतिः ॥४८॥
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥४९॥
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥५०॥
मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।
धर्मस्तेऽपि न सन्त्येव को विशेषस्ततस्तयोः ॥५१॥
एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् ।
स्वपक्षसादनेनैव नाभाव इति चोक्तितः ॥५२॥
आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः ।
यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ।
कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ॥५३॥
दृश्यमाने विशेषेऽपि यदि चेदविशेषता ।
घटाभावोऽविशेषः स्यात्पाश्चात्यश्चेदनागतः ॥५४॥
न मोक्षो विमतो यस्माददेहो घटशून्यता ।
यथेत्युक्ते वदेत्किं स योऽनुमामात्रमानकः ॥५५॥
न च मायी वदेत्तत्र पूर्वोक्तेनैव वर्त्मना ।
अमानत्वाच्छ्रुतेस्तस्य नचादेहत्ववादिनी ॥५६॥
श्रुतिः काचिददेहत्वमप्राकृतशरीरगा ।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ॥५७॥
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ॥५८॥
दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ।
भेदे सद्वैततैव स्यादित्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः ॥५९॥
एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥६०॥
कालो न केवलज्ञानी कालत्वात्प्रतिपन्नवत् ।
एतयानुमया रोधान्न तादृङ्मोक्षरूपता ॥६१॥
यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ।
किं वक्ष्यति यदावस्थां वदेत्सा पक्षतां व्रजेत् ॥६२॥
अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥६३॥
न काल इति सामान्यनिषेधे कालगप्रमा ।
निरुणद्धि वक्तव्यो नाकालत्वं ततो भवेत् ॥६४॥
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।
कुपिता कालमादाय द्वैतमेवोपपादयेत् ॥६५॥
विमतः प्रपञ्चवान् कालः कालत्वात्प्रतिपन्नवत् ।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ॥६६॥
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।
निराकृतानि तेषां च समत्वात्पक्षदोषयोः ॥६७॥
ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते ।
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ॥६८॥
मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ॥६९॥
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।
निषिद्धान्युक्तभङ्गयैव श्रुतयश्चास्मदुक्तिगाः ॥७०॥
साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् ।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ॥७१॥
तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ।
महानन्दं च भोगं च नियमेन वदन्ति हि ॥७२॥
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ॥७३॥
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ॥७४॥
हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः ।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ॥७५॥
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।
असुरा नैवमेवं च नैवं चाखिलमानुषाः ।
इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥७६॥
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।
धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ॥७७॥
आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।
इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥७८॥
ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् ।
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ।
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ॥७९॥
आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ॥८०॥
येनेदमखिलं वेद विज्ञातारं स्वमेव च ।
केन तं च विजानीयादित्यनिष्टं हि सर्वथा ॥८१॥
नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ॥८२॥
प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि ।
न स्वविज्ञानितायां च विरोधः कश्चनेयते ॥८३॥
कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः ।
कथमेव पदं गच्छेद्विरोधो दृष्टबाधनम् ॥८४॥
सोऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ ।
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ॥८५॥
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥८६॥
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ।
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ॥८७॥
सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् ।
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ॥८८॥
तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ।
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत्पुमान् ॥८९॥
अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥९०॥
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।
युद्धादिदर्शनं यस्मात्सुदुःखेनापि कुवर्ते ॥९१॥
यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।
अपि नैवाजहुर्युद्धरसात्ते नारदादयः ।
इति स्कान्दवचस्तस्मात्सुखाभावस्य को यतेत् ॥९२॥
विमतो दुःखयुग्यस्माच्चेतनः सन् सुखोज्खितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥९३॥
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥९४॥
सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥९५॥
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।
न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः ॥९६॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥९७॥
इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि ।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ॥९८॥
शिरःकराद्यभावश्च न मुक्तस्य भवेत्क्वचित् ।
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥९९॥
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥१००॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥१०१॥
प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥१०२॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥१०३॥
ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः ॥१०४॥
कामान्नरूपी चरतीतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥१०५॥
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥१०६॥
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात्प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥१०७॥
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् ।
भुङ्क्ते स दैवं पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥१०८॥
सेतुः स देवोऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान्मुक्तिगतोऽपि भोगान् ॥१०९॥
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥११०॥
कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित् ॥१११॥
नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥११२॥
इत्थं मतानि भ्रमजानि यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥११३॥
औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥११४॥
व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥११५॥
सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥११६॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥११७॥
व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥११८॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥११९॥
प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतोऽपि युक्तया ।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि ।
महामानी त्वल्पमानी च यस्मात्तच्छब्देनाप्युच्यते तेन सोऽपि ॥१२०॥
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ।
इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ॥१२१॥
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ॥१२२॥
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ॥१२३॥
उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥१२४॥
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ।
ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक्तादृशतामुपैति ॥१२५॥
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥१२६॥
इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥१२७॥
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥१२८॥
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥१२९॥
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥१३०॥
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते ।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्यत एव निर्गताः ।
क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥१३१॥
सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥१३२॥
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं तु सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां पतिः ॥१३३॥
लयो यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥१३४॥
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रळयेऽत्र तिष्ठति ॥१३५॥
सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि ।
भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ॥१३६॥
प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ।
सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ॥१३७॥

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य द्वितीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP