मुमुक्षुव्यवहारप्रकरणम् - सर्गः ९

योगवासिष्ठः


श्रीराम उवाच ।
भगवन्तत्वधर्मज्ञ प्रतिष्ठामलमागतम् ।
यल्लोके तद्वद ब्रह्मन्दैव नाम किमुच्यते ॥१॥
श्रीवसिष्ठ उवाच ।
पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥२॥
दैवं न किंचित्कुरुते न भुङ्ते न च विद्यते ।
न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥३॥
सिद्धस्य पौरुषेणेह फलस्य फलशालिना ।
शुभाशुभार्थसंपत्तिर्दैवशब्देन कथ्यते ॥४॥
पौरुषोपनता नित्यमिष्टानिष्टस्य वस्तुनः ।
प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ॥५॥
भावी त्ववश्यमेवार्थः पुरुऽषार्थैकसाधनः ।
यः सोऽस्मिँल्लोकसंघाते दैवशब्देन कथ्यते ॥६॥
ननु राघव लोकस्य कस्यचित्किंचिदेव हि ।
दैवमाकाशरूपं हि करोति न करोति च ॥७॥
पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।
इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ॥८॥
इत्थं ममाभवद्बुद्धितिथ मे निश्चयो ह्यभूत् ।
इति कर्मफलप्राप्तौ योक्तिस्तद्दैवमुच्यते ॥९॥
इष्टानिष्टफलप्राप्ताविदमित्यस्य वाचकम् ।
आश्वासनामात्रवचो दैवमित्येव कथ्यते ॥१०॥
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसंचितम् ।
तद्दैव दैवमित्युक्तमपमृष्ट कथं त्वया ॥११॥
श्रीवसिष्ठ उवाच॥
साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥१२॥
या मनोवासना पूर्व बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नृणां परिणतिं गता ॥१३॥
जन्तुर्यद्वासनो राम तत्कर्ता भवति क्षणात् ।
अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥१४॥
ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस्तत्र स स प्रयतते सदा ॥१५॥
यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा ।
तदेव दैवशब्देन पर्यायेणेह कथ्यते ॥१६॥
एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥१७॥
यदैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि षुरुषस्तस्माद्दैव नास्तीति निश्चयः ॥१८॥
एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् ।
कृतं तत्तदवाप्नोति स्वत एव हि दैवतः ॥१९॥
मनश्चित्तं वासना च कर्म दैवं च निश्चयः ।
राम दुर्निश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ॥२०॥
एवंनामा हि पुरुषो दृढभावनया यथा ।
नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ॥२१॥
एवं पुरुषकारेण सर्वमेव रधूद्वह ।
प्राप्यते नेतरेणेह तस्मात्स शुभदोऽस्तु ते ॥२२॥
श्रीराम उवाच ।
प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥२३॥
श्रीवसिष्ठ उवाच ।
अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥२४॥
द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।
प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥२५॥
वासनौघेन शुद्धेन तत्र चेदद्य नीयसे ।
तत्क्रमेण शुभेनैव पदप्राप्स्यसि शाश्वतम् ॥२६॥
अथ चेदशुभो भावस्त्वां योजयति संकटे ।
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥२७॥
प्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः ।
अन्येन चेतसा तत्ते चेत्यत्वं क्वेव विद्यते ॥२८॥
अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः ।
क इमं चेतयेत्तस्मादनवस्था न वास्तवी ॥२९॥
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥३०॥
अशुभेषु समाविष्टं शुभेष्वेवावतारय ।
स्वं मनः पुरुषार्थेन बलेन बलिनां वर ॥३१॥
अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
जन्तोश्चित्तं तु शुवित्तन्मुहूश्चतूयेद्गलात् ॥३२॥
समता सांत्वनेनाशु न द्रागिति शनेशनेः ।
पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् ॥३३॥
वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः ।
शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु ॥३४॥
प्रागभ्यासवशाद्याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥३५॥
इदानीमपि ते याति घनतां वासनानघ ।
अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ॥३६॥
पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना ।
वर्धिष्यते तु नेदानीमपि तात सुखी भव ॥३७॥
संदिग्धायामपि भृशं शुभामेव समाहर ।
अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥३८॥
यद्यदभ्यस्यते लोके तन्मयेनैव भूयते ।
इत्याकुमारं प्राज्ञेषु दृष्टं संदेहवजितम् ॥३९॥
यूभासना युक्तस्तदत्र भव भूतये ।
परं पोरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥४०॥
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥४१॥
ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।
शुभोप्यसौत्वया त्याज्यो वासनौघो निराधिना ॥४२॥
यदतिसुभगमार्यसेवितं
च्छुभमनुसृत्य मनोज्ञभावबुद्ध्या ।
अधिगमय पदं सदा विशोक
तदनु तदप्यवमुच्य साधु तिष्ठ ॥४३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे कर्मविचारो नाम नवमः सर्गः ॥९॥

N/A

References : N/A
Last Updated : July 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP