मुमुक्षुव्यवहारप्रकरणम् - सर्गः १७

योगवासिष्ठः


श्रीवसिष्ठ उवाच ।
एवमन्तर्विवेको यः स महानिह राघव ।
योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीम् ॥१॥
अवदातोऽवदातस्य विचारस्य महाशयः ।
जडसङ्गोज्झितो योग्यः शरदिन्दोर्यथा नभः ॥२॥
त्वमेतया खण्डितया गुणलक्ष्म्या समाश्रितः ।
मनोमोहहरं वाक्यं वक्ष्यमाणमिदं श्रृणु ॥३॥
पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः ।
मुक्तये जायते जन्तोस्तस्येदं श्रोतुमुद्यमः ॥४॥
पावनानामुदाराणां परबोधैकदायिनाम् ।
वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥५॥
मोक्षोपायाभिधानेयं संहिता सारसंमिता ।
त्रिंशद्द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥६॥
दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते ।
आलोकोऽनिच्छतोऽप्येवं निर्वाणमनया भवेत् ॥७॥
स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैकसौख्यदा ।
आप्रेक्ष्य वर्णिता सद्यो यथा स्वर्गतरङ्गिणी ॥८॥
यथा रज्ज्वामहिभ्रान्तिर्विनश्यत्यवलोकनात् ।
तथैतत्प्रेक्षणाच्छान्तिमेति संसारदुःखिता ॥९॥
युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक्पृथक् ।
दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥१०॥
वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् ।
विरागो वर्धते येन सेकेनेव मरौ तरुः ॥११॥
 [ अनुबन्धेन सहितं दिष्टतत्त्वनिरूपणम् ।
सार्धं सहस्रं ग्रन्थस्य यस्मिन्हृदि विचारिते ।
प्रकाशाच्छुद्धतोदेति मणाविव सुमार्जिते ॥१२॥
मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् ।
सहस्रमात्रं ग्रन्थस्य युक्तिग्रन्थेन सुन्दरम् ॥१३॥
स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते ।
अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ॥१४॥
सप्तग्रन्थसहस्राणि विज्ञानप्रतिपादकम् ।
जागती द्रष्टृदृश्यश्रीरहंत्वमितिरूपिणी ॥१५॥
अनुत्पन्नैवोत्थितेव यत्रेति परिवर्ण्यते ।
यस्मिन्श्रुते जगदिदं श्रोतान्तर्बुध्यतेऽखिलम् ॥१६॥
सास्मद्युष्मत्सविस्तारं सलोकाकाशपर्वतम् ।
पिण्डग्रहविनिर्मुक्तं निर्भित्तिकमपर्वतम् ॥१७॥
पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् ।
स्वप्नोपलम्भभावाभं मनोराज्यवदाततम् ॥१८॥
गन्धर्वनगरप्रख्यमर्थशून्योपलम्भनात् ।
द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवर्तनम् ॥१९॥
नौयानलोलशैलाभं सत्यलाभविवर्जितम् ।
चित्तभ्रमपिशाचाभं निर्बीजमपि भासुरम् ॥२०॥
कथार्थप्रतिभासाभं व्योममुक्तावलीनिभम् ।
कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ॥२१॥
यथा नभसि नीलत्वमसदेवोत्थितं सदा ।
अभित्तिरङ्गरहितमुपलब्धिमनोहरम् ॥२२॥
स्वप्ने वा व्योम्नि वा चित्रमकर्तृ चिरभासुरम् ।
अवह्निरेव वह्नित्वं धत्ते चित्रानलो यथा ॥२३॥
दधात्येवं जगच्छब्दरूपार्थमसदात्मकम् ।
तरङ्गोत्पलमालाभं दृष्टनृत्यमिवोत्थितम् ॥२४॥
चक्रचीत्कारपूर्णस्य जलराशिमिवोद्यतम् ।
शीर्णपत्रं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् ॥२५॥
मरणव्यग्रचित्ताभं शिलागृहगुहास्पदम् ।
अन्धकारगुहैकैकनृत्तमुन्मत्तचेष्टितम् ॥२६॥
प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ।
समुत्कीर्णमिव स्तम्भे चित्रं भित्ताविवोदितम् ॥२७॥
पङ्कादिवाभिरचितं सचेतनमचेतनम् ।
ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् ॥२८॥
त्रीणि ग्रन्थसहस्राणि व्याख्यानाख्यायिकामयम् ।
इत्थं जगदहंभावरूपस्थितिमुपागतम् ॥२९॥
द्रष्टृदृश्यक्रमं प्रौढमित्यत्र परिकीर्तितम् ।
दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः ॥३०॥
इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् ।
उपशान्तिप्रकरणं ततः पञ्चसहस्रकम् ॥३१॥
पञ्चमं पावनं प्रोक्तं युक्तिसंततिसुन्दरम् ।
इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता ॥३२॥
इत्थं संशाम्यतीत्यस्मिन्कथ्यते श्लोकसंग्रहैः ।
उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ॥३३॥
प्रभ्रष्टचित्रसेनेव किंचिल्लभ्योपलम्भना ।
शतांशशिष्टा भवति संशान्तभ्रान्तरूपिणी ॥३४॥
अन्यसंकल्पचित्तस्था नगरश्रीरिवासती ।
अलभ्यवस्तुपार्श्वस्थस्वप्नयुद्धचिरारवा ॥३५॥
शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् ।
विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा ॥३६॥
भविष्यन्नगरोद्यानप्रसूवन्ध्यामलाङ्गिका ।
तस्या जिह्वोच्यमानोग्रकथार्थानुभवोपमा ॥३७॥
अनुल्लिखितचित्रस्य चित्रव्याप्तेव भित्तिभूः ।
परिविस्मर्यमाणार्थकल्पनानगरीनिभा ॥३८॥
सर्वर्तुमदनुत्पन्नवनस्पन्दास्फुटाकृतिः ।
भाविपुष्पवनाकारवसन्तरसरञ्जना ॥३९॥
अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ।
निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् ॥४०॥
शिष्टो ग्रन्थः परीमाणं तस्य ज्ञानमहार्थदः ।
बुद्धे तस्मिन्भवेच्छ्रेयो निर्वाणं शान्तकल्पनम् ॥४१॥
अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ।
परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ॥४२॥
निर्वापितजगद्यात्रः कृतकर्तव्यसुस्थितः ।
समस्तजनतारम्भवज्रस्तम्भो नभोनिभः ॥४३॥
विनिगीर्णयथासंख्यजगज्जालातितृप्तिमान् ।
आकाशीभूतनिःशेषरूपालोकमनस्कृतिः ॥४४॥
कार्यकारणकर्तृत्वहेयादेयदृशोज्झितः ।
सदेह इव निर्देहः ससंसारोऽप्यसंसृतिः ॥४५॥
चिन्मयो घनपाषाणजठरापीवरोपमः ।
चिदादित्यस्तपँल्लोकानन्धकारोपरोपमम् ॥४६॥
परप्रकाशरूपोऽपि परमान्ध्यमिवागतः ।
रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः ॥४७॥
नष्टाहंकारवेतालो देहवानकलेवरः ।
कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते ।
जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥४८॥
परमाणौ परमाणौ चिदाकाशः स्वकोटरे ।
जगल्लक्ष्मीसहस्राणि धत्ते कृत्वाथ पश्यति ॥४९॥
विततता हृदयस्य महामते-
र्हरिहराञ्जजलक्षशतैरपि ।
तुलनमेति न मुक्तिमतो यतः
प्रविततास्ति निरुत्तमवस्तुनः ॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे ग्रन्थसंख्यादिवर्णनं नाम सप्तदशः सर्गः ॥१७॥

N/A

References : N/A
Last Updated : July 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP