क्रियापदः - तरुणालयलक्षण पटलः
सुप्रभेदागमः
अथातः संप्रवक्ष्यामि तरुणालयलक्षणम् ।
आद्यं द्वितीयमेवन्तु द्विविधन्तरुणालयम् ॥१॥
मूलस्थानस्य यत् पूर्वन्तदाद्यन्तरुणालयम् ।
पूनः प्रासादकरणे भिन्नेच्छिन्नेन वीकृते ॥२॥
यत् कृतन्तत् द्वितीयाख्यन्तरुणालयमुत्तमम् ।
अन्यानि सर्वकर्माणि समानमिति भाषितम् ॥३॥
मूलस्थानं विनिश्चित्य बालस्थानन्तु कारयेत् ।
बाललिङ्गं प्रतिष्ठाप्य पश्चान्मूलं प्रतिष्ठयेत् ॥४॥
बालस्थानं विनापूर्वं मूलस्थानं न कारयेत् ।
बालस्थानं विना यत्र पुत्रपौत्र विनाशनम् ॥५॥
तस्मात् सर्वप्रयत्नेन बालस्थानन्तु कारयेत् ।
यस्मिन् काले यदा क्षेत्रे कृते भूमिपरिग्रहे ॥६॥
तस्याग्रे चोत्तरेवापि अग्रे वामेग्रदक्षिणे ।
ईशाने वापि शेषेण कारयेत् तरुणालयम् ॥७॥
पञ्चसप्त नवाहे वा रात्रौ कृत्वाङ्कुरार्पणम् ।
लोहजं शैलजं लिङ्गं दारुजं मृन्मयन्तु वा ॥८॥
कारयेत् तु विशेषेण लक्षणोक्तेन देशिकः ।
शमीबिल्वमधूकैश्च अश्वत्थोदुंबरैस्तहा ॥९॥
बाललिङ्गं प्रकर्तव्यं मृन्मयञ्चेत् सुपक्वकम् ।
द्वादशाङ्गुलमुत्सेधमुत्तमं परिकीर्तितम् ॥१०॥
सप्ताङ्गुलमधोत्सेधमधमामधमेव हि ।
तस्मात् द्व्यङ्गुल वृध्या तु बाललिङ्गा नवस्मृताः ॥११॥
स्वधामकुण्डली भूतं सर्ववृत्तमिहोच्यते ।
छत्राकारं शिरः कुर्याल्लक्षणोद्धारणं विना ॥१२॥
स्वयोनिं कारयेत् पीठमथवा चेष्टकामयम् ।
सप्तपञ्च त्रिहस्तं वा कर्तव्यन्तरुणालयम् ॥१३॥
एवमाद्यं समाख्यातं द्वितीये तरुणालये ।
पूजाभागसमायामं त्रिपादं वार्द्धमेव वा ॥१४॥
आयाम सदृशन्नाहं लक्षणोधारणं विना ।
नतौ विष्णु विरिञ्चांशौ तश्चिरोन्मूललिङ्गवत् ॥१५॥
लिङ्गमेवं समापाद्य मूलगर्भार्धमानतः ।
त्रियंशं वा चतुर्थाशं प्रोक्तं बालग्रहं त्विह ॥१६॥
बालगेहान्तरे पिठं बाललिङ्गसमोन्नतम् ।
उच्छ्रायसमविस्तारं सावटं सप्रणालकम् ॥१७॥
लिङ्गायामं त्रिधा कृत्वा भागं पीठे निवेशयेत् ।
वृत्तं वा चतुरश्रं वा षोडशांशेन योजितम् ॥१८॥
रत्नन्यासं न कर्तव्यं पादशैलानिकानि च ।
प्रतिलिङ्गं न कर्तव्यं सूत्रञ्चैव तथा भवेत् ॥१९॥
तद्विमानाग्र भागे तु मण्डपं सुविशेषतः ।
दशाष्ट नवहस्तं वा सप्तहस्तमथापि वा ॥२०॥
षोडशस्तंभसंयुक्तं सर्वालङ्कारसंयुतम् ।
तन्मध्ये वेदिकां कुर्यात् नवभागैक भागतः ॥२१॥
हस्तमात्रसमुत्सेधां दर्पणोदरवत् समाम् ।
गोमयालेपनङ्कृत्वा ब्राह्मणान् भोजयेत् ततः ॥२२॥
पुण्याहन्तत्र कर्तव्यं वास्तुहोमं विशेषतः ।
तद्धोमं विधिवत् कृत्वा पर्यग्निकरणं तथा ॥२३॥
वस्त्रैः सशालिभिर्युक्तं सदर्भैः पुष्पसंयुतम् ।
पीठस्य मध्यमे न्यस्त्वा कण्ठमात्रे जले तथा ॥२४॥
उषितं लिङ्गमुत्थाप्य स्नानवेद्यु परिन्यसेत् ।
सौवर्णं राजतं वापि क्षौमङ्कार्पासमेव वा ॥२५॥
कौतुकं हृदये नैव कृत्वा घृतशिरोर्पणम् ।
शयने शाययेल्लिङ्गं प्राक् शिरस्कं सयोनिकम् ॥२६॥
गन्धपुष्पाक्षतैश्चैव संपूज्यशयनो परि ।
वस्त्रेणाच्छादनङ्कृत्वा हृदिना पुष्पदर्भकैः ॥२७॥
सर्वलक्षणसंयुक्तं शयनं संप्रकल्पयेत् ।
त्रिरात्रमेक रात्रं वा जले चैवाधिवास्य च ॥२८॥
वस्त्रेण वेष्टयित्वा तु कुम्भं सूत्रेण वेष्टितम् ।
पञ्चरत्नसमायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥२९॥
व्योमवद् व्यापिनं देवं ध्यात्वारूपं सदाशिवम् ।
विन्यसेत् कुम्भमध्ये तु शिवमन्त्रं समुच्चरन् ॥३०॥
संपूज्यगन्धपुष्पाद्यैर्हृदयेन तु मन्त्रतः ।
तस्य वामे तु वर्धन्यां गौरीं विन्यस्य मन्त्रतः ॥३१॥
हैमवस्त्रसमायुक्तां वर्धनीं पूर्ववद्यजेत् ।
मूललिङ्गे तु देवेशं द्वितीयश्चेत् समावहेत् ॥३२॥
विज्ञाप्य देवदेवेशं क्षणकालं विचक्षणः ।
एकाब्दात् द्वादशाब्दान्तं बालस्थाने स्थिरो भव ॥३३॥
एत योरब्दयोर्मध्ये कुर्यान्मूलप्रवेशनम् ।
विज्ञापयेत् द्वितीये तु चाद्ये विज्ञापनं विना ॥३४॥
विद्येशोमा शिवाख्येषु कलशेषु पृथक् पृथक् ।
तत्तद्रूपमनुस्मृत्य स्वस्वमन्त्रेण विन्यसेत् ॥३५॥
सकूर्चान् वस्त्रसंयुक्तान् सर्वलक्षणसंयुतान् ।
गन्धपुष्पादिना पूज्य हृदयेन विचक्षणः ॥३६॥
दिशा स्वध्ययनं कुर्या दृग्यजुः सामाधर्वकैः ।
नवपञ्च तथा त्रीणि एकहोममथापि वा ॥३७॥
कृत्वाग्निमुखसंस्कारं पूर्वोक्तविधिना ततः ।
खदिरं वटबिल्वौ च प्लक्षाश्वत्थावुदुंबरम् ॥३८॥
शमीवैकं ततञ्चैव समित् पूर्वादितः क्रमात् ।
पलाशस्तु प्रधानस्य होमयेद्धृदयेन तु ॥३९॥
औदुंबरसमिद्भिर्वा सर्वेषाञ्चैव कारयेत् ।
समिदाज्यान्नकैर्मन्त्रैर्होमङ्कृत्वा पृथक् पृथक् ॥४०॥
समिधं हृदये नैव मूले नैव घृतं हुनेत् ।
शिवगायत्रि मन्त्रेण चरुंहुत्वा विशेषतः ॥४१॥
स्पर्शा हुतिं शिवाङ्गेन हुत्वाङ्गानि च संस्पृशेत् ।
प्रभाते विमले होमङ्कृत्वा पूर्णां शिवेन तु ॥४२॥
आचार्यं पूजयित्वा तु मूर्तिपानथ पूजयेत् ।
दैवज्ञं पूजयित्वा तु अध्ये तॄन् परिचारकान् ॥४३॥
उत्थाप्यशयनाल्लिङ्गन्तरुणालय मध्यमे ।
संस्थाप्य लिङ्गं सुस्निग्धं पीठस्या वटमध्यमे ॥४४॥
कुम्भस्थ देवदेवेशं शिवमन्त्रेण विन्यसेत् ।
शिवाङ्गानि न्यसेत् पश्चात् पिण्डिकायां मनोन्मनीम् ॥४५॥
अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् ।
विद्येशोमा शिवाख्यैस्तु कुम्भैरस्त्राभिषेचनम् ॥४६॥
अर्चनोक्तमथाभ्यर्च्य नैवेद्यं दापयेत् क्रमात् ।
द्वारादिपीठपर्यन्तं विन्यसेत् तु यथा विधि ॥४७॥
स्नपनन्तत्र कुर्वीत यथा शक्त्या विशेषतः ।
उत्सवन्तु यथा शक्ति द्वितीये तरुणालये ॥४८॥
बल्यन्तः पूजयेन्नित्यमुत्सवन्न समाचरेत् ।
बालस्थान विधिः प्रोक्ता शृणुष्वालयवास्तुकम् ॥४९॥
इति तरुणालयलक्षण पटलः सड्विंशतितमः ॥२६॥
N/A
References : N/A
Last Updated : October 08, 2022
TOP