सुप्रभेदागमः - लिङ्गलक्षणविधि पटलः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अथातः संप्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् ।
लयङ्गच्छन्ति भूतानि संहारे निखिलं यतः ॥१॥
सृष्टिकाले तथा सृष्टिः तस्माल्लिङ्गमुदाहृतम् ।
त्रिविधं लिङ्गमाख्यात सकलं निष्कलं कलम् ॥२॥
सकलं त्रिविधं तत्र तेषां लक्षणमुच्यते ।
दिक्देशकालरहितो वाङ्मनातीतगोचरः ॥३॥
स एव देवदेवेशः स्वेच्छया गृह्णिते तनुम् ।
परं भावं समालंब्य सर्वज्ञत्वादिभिर्गुणैः ॥४॥
योगिनां लक्षणार्थन्तु शास्त्राणामुद्भवाय च ।
प्राणिनामुपकाराय गृह्णीते विग्रहं शिवः ॥५॥
परात्पर तराद्यस्माच्छिवशक्तेः समुत्भवः ।
द्वितीयं शक्तिमूर्तिश्च बिन्दुनादश्चतुर्थकम् ॥६॥
दिक्देशकालसंबन्ध रहिता वाच्यवाचकौ ।
स्थापनारहितौ शक्त्या मनोगम्ये तु निष्कलौ ॥७॥
एतत् तु निष्कलं लिङ्गं शृणु सकलनिष्कलं ।
निष्कलं हि कलाहीनं सकलन्तु कलान्वितम् ॥८॥
सकलं निष्कलोपेतं तस्मात् सकलनिष्कलम् ।
मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् ॥९॥
निष्कलं लिङ्गमित्याहुः सकलं भाव्यरूपकम् ।
द्विधाभावगतो योऽन्यो बिन्दुनादोद्भवं ततः ॥१०॥
सकलं निष्कलं तस्मान्मुखलिङ्गं द्विरूपतः ।
सकलं निष्कले लिङ्गे पूजयेत् तु सदाशिवम् ॥११॥
तदर्धस्त्वीश्वरः प्रोक्तः सकलं रूपमुच्यते ।
तस्य मध्ये सहस्रांशाद्रुद्रोद्भवमिहोच्यते ॥१२॥
तस्य वामे तु कोट्यंशादेकांशो विष्णुरुद्भवः ।
तस्य दक्षिणभागे तु कोट्यंशात् ब्रह्मणोद्भवम् ॥१३॥
सकलानि तथैतानि अन्यानि तु तथैव हि ।
ईश्वरः सृष्टिसंहार रक्षणे च प्रभु स्मृतम् ॥१४॥
ब्रह्मणा सर्वमुत्पन्नं विष्णुना सर्वपालनम् ।
जगतां सर्वसंहारं शिवस्य परमेष्ठिनः ॥१५॥
यद्वच्छंभोः समुद्भूतं तद्वच्छक्तेः मुद्भवम् ।
अमूर्तञ्चेदमूर्ता तु समूर्तञ्चेत्समूर्तका ॥१६॥
अग्नेरुष्णत्व वच्छक्ति रविनाभाविनीविभोः ।
ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः ॥१७॥
सावित्री श्रीरुमादेवी ईश्वरी च मनोन्मनी ।
लिङ्गे सदाशिवं प्रोक्तं पिण्डिकायं मनोन्मनी ॥१८॥
एवं पञ्चममूर्तीनामुच्यन्ते पञ्चमूर्तयः ।
तस्मात् तदुदयं प्राप्य शक्तिशंभुमयञ्जगत् ॥१९॥
द्विधाभवस्य लिङ्गस्य लक्षणं शृणु सांप्रतम् ।
लिङ्गयोनि प्रभेदानि सैकतादीनिमच्छृणु ॥२०॥
क्षणिकञ्चैव मृल्लोहं रत्नजं दारुजं तथा ।
शैलजञ्चैव विघ्नेश षडङ्गं लिङ्गमुच्यते ॥२१॥
क्षणिका द्वादशप्रोक्ता मृन्मयं द्विविधं पुनः ।
दारुजञ्चाष्टधा प्रोक्तमष्टधालोहजं स्मृतम् ॥२२॥
सप्तधा रत्नजञ्चैव शैलजन्तु चतुर्विधम् ।
पूजान्ते क्षणिकास्त्याज्यास्त्यजेदन्यानि तल्लये ॥२३॥
रत्नजं लोहजञ्चैव बाणलिङ्गञ्चलं स्मृतम् ।
शैलञ्चलाचलं प्रोक्तं मृन्मयं दारवं तथा ॥२४॥
क्षणिकानां फलं वक्ष्ये सैकतं मोक्षकांक्षिणाम् ।
तण्डुलं विभवार्थीनामन्नमन्नप्रदं स्मृतम् ॥२५॥
नदीमृत् भूमिलाभः स्यात् गोमयं रोगनाशनम् ।
नवनीतं मनोह्लादं रुद्राक्षं ज्ञानवर्धनम् ॥२६॥
गन्धं सौभाग्यकांक्षिणां कूर्चं मुक्त्यर्थिनां स्मृतम् ।
आयुष्यवर्धनं पुष्पं गुलमिष्टार्धसिद्धिदम् ॥२७॥
पैष्टं पुष्टि प्रदं प्रोक्तं क्षणिकानां फलं भवेत् ।
एतेषां चैव लिङ्गानां न प्रमाणन्न च स्थितिः ॥२८॥
मृन्मयं राज्यफलदं पक्वापक्वप्रभेदकम् ।
शुद्धदेशेमृदं ग्राह्य पूजाभागं सयोनिकम् ॥२९॥
कृत्वा दग्धमिदं पक्वं तत्रापक्वमिहोच्यते ।
यवगोधूमचूर्णैश्च घृतक्षिरकषायकैः ॥३०॥
सर्जगुल्गुलुग्रीवेष्टकापित्थनिरयासकैः ।
चूर्णैरालोढ्यसु मृदा मासपक्वोषितं तथा ॥३१॥
रत्नबीजसमायुक्तं पक्वलिङ्गं समाचरेत् ।
सुवर्णं रजतं ताम्रं कांसमारकूटं तथा ॥३२॥
आयसं सीसकञ्चैव त्रपुकञ्चेति लोहजम् ।
सौवर्णं श्रीप्रदं प्रोक्तं राजतं राज्यसिद्धिदम् ॥३३॥
ताम्रं पुत्रप्रदञ्चैव विद्वेषं कांसमेव च ।
आरकूटं तथोच्चाटे क्षयकारकमायसम् ॥३४॥
सीसकं रोगहरणं त्रपुरायुष्यवर्धनम् ।
एवन्तु लोहजं प्रोक्तं ततो रत्नजमुच्यते ॥३५॥
मौक्तिकञ्च प्रवालञ्च वैडूर्यं स्फटिकं तथा ।
पुष्यं मरतकं निलं रत्नजं संप्रकीर्तितम् ॥३६॥
स्फाटिकं भुक्तिमुक्त्यर्थमिष्टसिद्धिं तु रत्नजम् ।
लोहरत्नानिके लिङ्गे पूजाभागं सपीठिकम् ॥३७॥
यथा लाभप्रमाणेन स्फटिकादीनि कारयेत् ।
स्फटिकादिषु कर्तव्या त्रिभागैरेव पीठिका ॥३८॥
तदायामसुविस्तारा पिण्डिका शुभदा स्मृता ।
एकाङ्गुलं समारभ्य आचतुर्विंशदङ्गुलान् ॥३९॥
लोहजं लिङ्गमित्याहुर्लक्षणोद्धारणं विना ।
दारवस्यैव शैलस्य वनं गच्छेत् स्थिरो गुरुः ॥४०॥
शुभे दिने तिथौ वारे सुमुहूर्ते विशेषतः ।
आचार्यं शिल्पिमाहूय वस्त्रैर्हेमाङ्गुलीयकैः ॥४१॥
शुक्लमाल्यानुलेपाद्यैर्भक्तियुक्तं सुपूजयेत् ।
कुठारादीनि चिह्नानि पराङ्ग्राह्य विचक्षणः ॥४२॥
आचार्यः शिल्पिभिश्चैव सहायैर्बलवत्तरैः ।
पुण्याहजयशङ्गैश्च शंखभेर्यादिनिस्वनैः ॥४३॥
यथावस्थानकाले तु निमित्तान्युपलक्षयेत् ।
दिव्यान्तरिक्षभौमानि अशुभानि शुभानि च ॥४४॥
सव्येत्वागमनं वामा द्वायसस्य स्वरस्तथा ।
समांसश्येनकस्त्वग्रे दक्षिणाद्वाममार्गतः ॥४५॥
कन्यानां दर्शनञ्चैव गवारोहणमेव च ।
दधिवै पूर्णकुम्भञ्च ब्राह्मणं पुष्पसंयुतम् ॥४६॥
पावकं ज्वलमानञ्च मांसभारं तथैव च ।
वेश्यासं दर्शनञ्चैव वराहं हयमेव च ॥४७॥
शुभान्येतानि सर्वाणि दर्शयित्वा व्रजेत् बुधः ।
उल्कापातं दिशादाहं महावातप्रवर्तनम् ॥४८॥
अशुभं ह्यन्तरिक्षे तु पूर्वोक्त विपरीतकम् ।
तैलाभ्यङ्गञ्च तत् पात्रं मुक्तकेशस्य दर्शनम् ॥४९॥
दर्शनं नवमृत् भाण्डं च्छिन्ननासिकमेव च ।
एते तु भौमजा ज्ञेया परीक्षैवं शुभाशुभम् ॥५०॥
शुभेषु प्रस्थितोया या दशुभे तु निवर्तयेत् ।
अशुभेग्निं समास्तीर्य शिवेनैवशतं हुनेत् ॥५१॥
निमित्तेशोभने गच्छेद् आचार्यः शिल्पिभिः सह ।
संप्रविश्य ततो धीमान्वनान्युपवनानि च ॥५२॥
महेन्द्रे मलये चैव सह्यैविन्ध्ये तथैव च ।
यावच्छिलाद्रुमौ चास्ति तावद्यायाद्विचक्षणः ॥५३॥
शमीमधुकरण्डूक कर्णिकारं तथैव च ।
तिन्दुकार्जुनकौ चैव पिप्पलोदुंबरं तथा ॥५४॥
एते वर्गास्तु चत्वारो ब्राह्मणादि यथा क्रमम् ।
अन्ये च बहवो वृक्षा मध्यवाराः सुशोभनाः ॥५५॥
स्निग्धपत्रा महाकायाः शुभदेशोत्थितास्तु ये ।
अग्निदग्धाश्चतुष्काश्च पक्षिणान्तु निकेतनाः ॥५६॥
लतावल्मीकसंस्थाश्च वर्जयेत् साधकोत्तमः ।
शिलाभापि सुविज्ञेया जातिभेदपरीक्षणैः ॥५७॥
श्वेतरक्ता तथा पीता कृष्णा चैव चतुर्विधा ।
गोक्षीर शंखवर्णाभा ब्राह्मणानां प्रशस्यते ॥५८॥
जपाबन्धूकपुष्पाभा नृपाणां प्रोच्यते क्रमात् ।
रजनी स्वर्ण सदृशा वैश्यानान्तु प्रशस्यते ॥५९॥
माषगुल्गुलु संकाशा शूद्राणान्तु समृद्धिदा ।
सर्वेषान्तु शिलाकृष्णा सर्वसंपत्करी स्मृता ॥६०॥
वसासोषरज क्लिन्ना तप्ताश्चार्कस्यरश्मिभिः ।
अग्निदग्धान्य युक्ता सा वर्जयेत् तां प्रयत्नतः ॥६१॥
तस्याच्छोत्तरपार्श्वे तु स्थण्डिलेग्निमुखङ्कृते ।
शतं हुत्वा शिवास्त्रेण तमग्रे शयने वसेत् ॥६२॥
स्वप्ने माणवकञ्जप्त्वा रात्रौ सुप्त्वा शिवं स्मरेत् ।
अशुभे दर्शने स्वप्ने मूले नैव शतं हुनेत् ॥६३॥
शुभे स्वप्ने तु चेद्धिमान् तदाच्छेदनमारभेत् ।
अभिषिच्य शिवाद्भिस्तु प्रभाते विमलेशुभे ॥६४॥
अघोरास्त्रेण मन्त्रेण छित्वामधुयुतेन च ।
अधोभागमुखं तस्य पृष्ठमूर्ध्नि प्रकल्पयेत् ॥६५॥
पार्श्वयोः पार्श्वमेवन्तु मूलं याम्यापरे विदुः ।
पूर्वे चोत्तरपार्श्वे वा शिरः संकल्प्य बुद्धिमान् ॥६६॥
लाञ्छयित्वा क्षराण्यत्रं ततस्तत् क्षणमारभेत् ।
मूलं पादशिलां ग्राह्य योऽन्या चावृत पार्श्वयोः ॥६७॥
बाला च यौवना वृद्धाज्ञातव्या लक्षणैस्ततः ।
स्निग्धा मृदुतला चैव बालाक्षीण स्वरान्विता ॥६८॥
सुस्वराकान्ति संयुक्ता सा शिला यौवना स्मृता ।
अग्निदग्धा झर्झरूक्षा वृद्धासानिस्वराशिला ॥६९॥
बालां वृद्धान्तु सन्त्यज्य यौवनां संग्रहेत् बुधः ।
शिलागर्भान् परीक्ष्याथ कर्तव्यं विधिचोदितम् ॥७०॥
लिङ्गं प्रक्षिप्यक्षिरेण पिष्टकासैः सगैरिकैः ।
इति तत्त्वे करात्रन्तु लिङ्गं प्रक्षाल्य चांभसा ॥७१॥
बिन्दुरेखा कलंकाश्च शिलादोषाः प्रकीर्तिताः ।
दृश्यते मण्डलं यत्र गर्भं तत्र विनिर्दिशेत् ॥७२॥
सिते तु मण्डले सर्पो रत्ने तु कृकलासह ।
गोधा वै मण्डले पीते माञ्जिष्ठे दर्दुरोत् भवेत् ॥७३॥
कापिले मूषिका प्रोक्ता चित्र वर्णे तु वृश्चिकः ।
श्वेतरक्तविमिश्रे तु गण्डूकोमण्डले भवेत् ॥७४॥
खद्योतं मधुवर्णे तु कापोतौ ग्रहगौलिका ।
गुलवर्णे तु पाषाणं निस्त्रिंशाभेजलं भवेत् ॥७५॥
वर्जिता गर्भयुक्तास्तु विमलैरन्वितास्तथा ।
विमलं हेमकांसाख्यं लोहाख्यञ्च त्रिधा स्मृतम् ॥७६॥
परीक्ष्यैव तु कर्तव्यं लिङ्गं गर्भादिवर्जितम् ।
प्रासादगर्भविस्तारं सूत्रेण समितं तथा ॥७७॥
गर्भविस्तारपञ्चांश स्त्रियं शेनोत्तमं विदुः ।
गर्भन्तु नवधा कृत्वा पञ्चभागन्तु मध्यमम् ॥७८॥
अधमं गर्भमानार्थं त्रिविधन्तु प्रमाणतः ।
कनिष्ठ ज्येष्ठयोर्मध्ये गर्भेऽष्टांश कृते सति ॥७९॥
प्रोक्तन्तु नवधा मानन्तेषु कार्यं यदृच्छया ।
अथवान्य प्रकारेण गर्भन्तु नवधा पुनः ॥८०॥
उत्तमं त्रिणिचोक्तानि मध्यमं त्रिणिचादिशेत् ।
अधमं त्रिणिचोक्तानि नवभेदमुदाहृतम् ॥८१॥
हस्तादि नवहस्तान्तं नवधा हस्तमानकम् ।
त्रितालाद्रुद्रतालान्तं तथा नवविधिं पुनः ॥८२॥
समं वै वर्धमानञ्च शिवाधिकमतः परम् ।
चतुरश्रमधोभागमष्टाश्रं मध्यमं तथा ॥८३॥
तदूर्ध्वं वृत्तमेवस्यात् त्रिभागं सर्वतः समम् ।
समलिङ्गमिति प्रोक्तं वर्तमानमथ शृणु ॥८४॥
चतुर्विंशति चायामे सप्ताङ्गञ्चतुरश्रकम् ।
अष्टाश्रमष्टभागेन नवांशे नैव वृत्तकम् ॥८५॥
वर्धमानमिदं लिङ्गं शिवाधिकमतः परम् ।
आयामं दशधा कृत्वा चतुरश्र त्रिभागतः ॥८६॥
अष्टाश्रञ्च त्रिभागेन चतुरंशेन वृत्तकम् ।
शिवाधिकमिदं शस्तं भुक्तिमुक्तिप्रदं शुभम् ॥८७॥
यस्य लिङ्गस्य चायाम चतुरश्रस्य नाहकम् ।
आयामस्याष्टभागाच्च सप्तांशैर्मध्यनाहकम् ॥८८॥
तत् षडंशैस्तु वृत्तं स्यात् परिणाहं प्रकीर्तितम् ।
लिङ्गाया मे चतुर्विंशद्विष्कंभः पञ्चभागिकम् ॥८९॥
वेदाश्रादिपरीणाहाद्विंशत् षोडश वा नव ।
सर्वेषामेव लिङ्गानां प्रोक्तं वै परिणाहकम् ॥९०॥
धारालिङ्गं मुखंलिङ्गं शृणुवत्ससमाहितः ।
पञ्चधारा सप्तधारा नवधारा द्वादशधारकः ॥९१॥
धाराः षोडशविंशच्च त्रिरष्टावाष्टविंशतिः ।
अष्टाश्रं मूर्तिपर्यन्तं यवार्धं वायवोन्नतम् ॥९२॥
पूर्वभागं त्रिधा कृत्वा प्यूर्ध्वभागे मुखं भवेत् ।
पञ्चमूर्धा चतुर्वक्त्रं ग्रीवाचैका समायुतम् ॥९३॥
श्रोत्राष्टौ च दशोष्ठञ्च सर्वलक्षणसंयुतम् ।
लिङ्गाकारमधस्तस्य पिण्डिकालक्षणं शृणु ॥९४॥
त्रिगुणं लिङ्गविस्तारं त्रिगुणार्धञ्चतुर्गुणम् ।
त्रिविधस्त्वधमादिस्तु पीठविस्तारमुच्यते ॥९५॥
विष्णुभागस्य चोत्सेधं पीठोत्सेधं विधीयते ।
अथवा ब्रह्मभागस्य चाष्टांशेन समन्वितम् ॥९६॥
पद्मपीठं भद्रपीठं वेदिकोपरिमण्डलम् ।
पीठञ्चतुर्विधं प्रोक्तं लक्षणं शृणु सांप्रतम् ॥९७॥
कृत्वा षोडश चोत्सेधं द्व्यंशेन चतुपट्टिका ।
पञ्चभागन्तदूर्ध्वाब्जं दलैः षोडशभिर्युतम् ॥९८॥
दलमध्याङ्गुलोत्सेधं पद्मकुण्डमिहोच्यते ।
द्विभागं मध्य वृद्धन्तु समन्तात् सदृढं दृढम् ॥९९॥
चतुर्भिरूर्ध्व पद्मन्तु द्विभागे नोर्ध्वपट्टिका ।
तदूर्ध्वे तु ततः कुर्यादेकांशं घृतवारिणा ॥१००॥
पीठतार त्रिभागैकं नालं कुर्यात् तथोत्तरे ।
तत्तारस्य चतुर्थांशं तदर्धार्धमथादिकम् ॥१०१॥
द्विगुणं त्रिगुणं मूलं तदमग्रञ्चार्धनाशनम् ।
विस्तारस्य चतुर्धांशादर्धादर्धमथापि वा ॥१०२॥
जलमार्गं त्रिभागैकं कुर्यात् तत्र विशेषतः ।
एवन्तु पद्मपीठं हि भद्रपिठमथशृणु ॥१०३॥
पूर्ववत् षोडशांशन्तु कृत्वोत्सेधं विधानतः ।
भागेनो पानमेकेन चतुर्भिर्जगती भवेत् ॥१०४॥
कुमुदन्तु त्रिभिर्भागैरेके नैव तु पट्टिका ।
कण्ठं कुर्यात् त्रिभिर्भागैरेकांशेन तु पट्टिका ॥१०५॥
महापट्टिकाद्व्यंशा तु एकेन घृतवारिणि ।
भद्रपीठं समाख्यातं वेदिपीठमथोच्यते ॥१०६॥
पीठोत्सेधे नवांशे तु द्वियंशेन तु पट्टिका ।
चतुर्भिः कण्ठ तुङ्गन्तु द्व्यंशे नैवोर्ध्वपट्टिका ॥१०७॥
घृतवार्येकभागन्तु समन्ताच्चतुरश्रकम् ।
वेदीपीठं समाख्यातं परिमण्डलमुच्यते ॥१०८॥
भद्रमेव हि वृत्तं स्यादेतद् वै परिमण्डलम् ।
तेष्वेकांश समं वापि त्रिपादं वार्धमेव वा ॥१०९॥
पीठाङ्गानां प्रवेशञ्च तथा निर्गमनं पुनः ।
सकलानाञ्च लिङ्गानां सामान्यं पीठलक्षणम् ॥११०॥
लिङ्गस्य पीठिकाचेत् तु मध्वष्टाश्र क्रमान्वितम् ।
अवटं कारयेद् धीमान् विष्णुभागसमं यथा ॥१११॥
ब्रह्मभाग प्रवेशार्थं तन्मानाच्चतुरश्रकम् ।
घृतवारि घटान्नालं सकलेत्वासने विना ॥११२॥
नन्द्यावर्त शिलांवक्ष्ये पीठाधस्ताच्चतुः शिला ।
परितस्तालमात्रं वा षडङ्गुलमथापि वा ॥११३॥
पीठविस्तारतोधिक्या नन्द्यावर्तशिलाः शुभाः ।
समन्ताच्चतुरश्रास्तु ब्रह्मभागसमोन्नतः ॥११४॥
अथवा चतुरश्रस्य चाष्टांशत् सप्तमोच्छ्रिताः ।
गर्भस्य नवभागैकं पादाधारशिलाशुभा ॥११५॥
तदर्धमेकमेवं वा तन्नवांशैकमुच्छृतः ।
चतुरश्रस्य चाष्टांशादेकांशं मध्यनिम्नगम् ॥११६॥
लिङ्गतारप्रमाणेन खातविस्तारमानकम् ।
नवनिम्नन्तु तन्मध्ये रत्नन्यासार्धमुच्यते ॥११७॥
ब्रह्मोपलासमोत्तुंगा तत्ताराध्यर्धविस्तृता ।
एवं कूर्मशिला सिद्धा सुदृढा चतुरश्रका ॥११८॥
एवमुक्तास्तु सर्वांगाः किञ्चिन्मानाधिकास्तु वै ।
रथस्योपरि विन्यस्य तत् ग्रामं प्रविशेत् सुधीः ॥११९॥
ग्रामं प्रदक्षिणं कृत्वा वाद्यध्वनि समायुतम् ।
प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं बुधः ॥१२०॥
नीत्वा तन्मध्यमे लिङ्गं प्राक्च्छिरस्कं सुबुद्धिमान् ।
पट्टिकोपरिविन्न्यस्य सूक्ष्मकर्म च कारयेत् ॥१२१॥
आचार्यः शिल्पिभिश्चैव लक्षणेनसहैव तु ।
शिरसावर्तनं कार्यन्तच्चतुर्विधमुच्यते ॥१२२॥
च्छत्राकारन्तु पूर्वञ्च द्वितीयन्त्र पुषाकृतिः ।
कुक्कुटाण्डं तृतीयन्तु चतुर्थंत्वर्धचन्द्रकम् ॥१२३॥
कृत्वा तारन्तु षट्भागं लिङ्गस्य च शिरस्त्वथ ।
भागेन वर्तनङ्कृत्वा यावन्निम्नन्तु मध्यमम् ॥१२४॥
च्छत्राकारमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
तारं कृत्वा तु षट्भागं द्विभागार्धेन वर्तिनम् ॥१२५॥
त्रपुषाकृतिरेवं स्यात् भुक्तिमुक्तिफलप्रदम् ।
कुक्कुटाण्डन्तु तत्रैव विस्तारार्धेन वर्तितम् ॥१२६॥
लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्तितम् ।
अर्धचन्द्रमिदन्तत्र मुक्त्यर्थं प्रोच्यते क्रमात् ॥१२७॥
एवं सदाशिवं प्रोक्तं सर्वसिद्धिकरं परम् ।
अन्यानाव्रतदेवांश्च ध्यानमन्त्रेण पूजयेत् ॥१२८॥
सकलं निष्कलं प्रोक्तं सकलं शृणु सुव्रत ।
इति लिङ्गलक्षणविधिपटलस्त्रयस्त्रिंशत्तमः ॥३३॥
N/A
References : N/A
Last Updated : October 11, 2022
TOP