अथ क्रियापादः - ग्रामादिलक्षण पटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि ग्रामादीनान्तु लक्षणम् ।
देवानां पूजनार्थन्तु ग्रामादिविन्यसेत् क्रमात् ॥१॥
ग्रामञ्च नगरञ्चैव पत्तनं खर्पटं परम् ।
खेटकं कुटिकञ्चैव शिबिरं राजधानिकम् ॥२॥
सेनामुखं दशैतानि कीर्तितानि क्रमेण वै ।
विप्राणाञ्च ससत्यानां वासोग्राम इति स्मृतम् ॥३॥
स एव विप्रमुख्यानामग्रहार इति स्मृतम् ।
अनेकजातिसंबाधं नानाशिल्पजनैर्युतम् ॥४॥
क्रयविक्रयकैः कीर्णं सर्वदेवैः समायुतम् ।
नगरं त्वितिविख्यातं पत्तनं शृणु सांप्रतम् ॥५॥
दीपान्तरगतद्रव्यं विक्रयक्रयकैर्युतम् ।
पत्तनं त्वब्धितीरे तु तयोर्मिश्रन्तु खर्पटम् ॥६॥
क्रयविक्रयकैर्युक्त नानाजातिसमायुतम् ।
तन्तु वायैः समायुक्तं तत्पुरं त्वितिसंस्मृतम् ॥७॥
शूद्रैरधिष्ठितं यत्तत् खेटकं त्वितिकीर्तितम् ।
तेषां समान्तरे येषां वा संकुटिकमुच्यते ॥८॥
राजसेना च मूनान्तु निवेशं शिबिरं स्मृतम् ।
चतुरङ्गसमाकीर्णं नृपभूतिसमायुतम् ॥९॥
राजवेश्मसमायुक्तं राजधानीति चोच्यते ।
सर्वजातिसमाकीर्णं नृपवेश्मसमायुतम् ॥१०॥
बहुरक्षासमायुक्तं सेनामुखमिति स्मृतम् ।
ग्रामद्वादश साहस्रैर्दशसाहस्रकैरथ ॥११॥
सहस्राष्टकसङ्ग्याभिः कर्तव्यञ्चोत्तमत्रयम् ।
सप्तषट्पञ्चसाहस्रैर्मध्यमत्रयमेव हि ॥१२॥
चतुस्त्रिद्विसहस्रैस्तु कन्यसत्रयमाश्रयेत् ।
एवं नवविधं प्रोक्तमथक्षुद्राणि चोच्यते ॥१३॥
सहस्रमर्धमर्धञ्च क्षुद्रेषु वरमुच्यते ।
द्विशतं त्वर्धमर्धञ्च क्षुद्रमध्यममेव च ॥१४॥
चत्वारिंशदथत्रिंशद्विंशत् क्षुद्रावरं स्मृतम् ।
अष्टादशविधन्तेषु यथा शक्तन्तु कारयेत् ॥१५॥
विद्याचारगुणैर्युक्तान् पत्न्यग्नि गुरुपुत्रकान् ।
दरिद्रां वेदशास्त्रज्ञानाहू या भ्यर्चयेत् क्रमात् ॥१६॥
विप्रनामादिकं गोत्रैस्ताम्र पत्रतलेर्पयेत् ।
ग्रामबीजां विनिच्छित्य तथा प्रत्यकरेणुना ॥१७॥
प्रमाणैर्निश्चितं भूमिं दद्यादुदकपूर्वकम् ।
एवमेव कृते पश्चात् ग्रामविन्यासमारभेत् ॥१८॥
भूमिं समतलङ्कृत्वा खातकर्षणसंयुतम् ।
पञ्चसाहस्र दण्डेन कल्पयेदुत्तमस्य तु ॥१९॥
सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥२०॥
वृत्तं वा चतुरश्रं वा पूर्वायाममथापि वा ।
दक्षिणायतमेवाथ कल्पयेत् तन्त्रवित्तमः ॥२१॥
तन्मध्ये नै-ऋतेभागे दण्डमानेन विस्तृतम् ।
शङ्कुमण्डलमास्तीर्य मध्ये शङ्कुं स लक्षणम् ॥२२॥
खदिरञ्चन्दनं वापि सालयाज्ञकवृक्षजम् ।
द्वादशाङ्गुलमुत्सेधं नाहङ्कृत्वा तदर्धतः ॥२३॥
मूलात् षोडश हीनाग्रं सुदृढमृजुमव्रणम् ।
शङ्कुप्रमाणाद् द्विगुणं त्रिगुणं मण्डलत्रयम् ॥२४॥
ब्रह्माणं मनसाध्यात्वा शङ्कुण्डलमध्यमे ।
न्यस्त्वाच्छायाग्रपतनं दृष्ट्वा संलक्ष्यसुचिना ॥२५॥
पूर्वाह्णे वा पराह्णे वा सूत्रं तत्र प्रसारयेत् ।
एवं पाचीन्तु सङ्कल्प्य मत्स्ये नोदीचिकंबुधः ॥२६॥
एकाशीति पदन्तत्र सूत्रमानेन कल्पयेत् ।
तत्रस्थ देवान् सङ्कल्प्य गन्धपुष्पादिभिः क्रमात् ॥२७॥
ईशानश्चाथफर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्य अभ्रंशा वन्तरिक्षश्च पूर्वगाः ॥२८॥
अग्निः पूषा च वितथोग्रहक्षतयमौ तथा ।
गन्धर्वो भृंगराजस्तु मृगश्चिव तु दक्षिणे ॥२९॥
नि-ऋतिद्वौ वारिकश्चैव सुग्रीवं पुष्पदन्तकः ।
वरुणश्चासुरः शोषः पापयक्ष्मा च पश्चिमे ॥३०॥
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
ऋगोदध्ययनश्चैव द्वात्रिंशत् बाह्यदेवताः ॥३१॥
मरीचिको विवस्वांश्च मित्रश्च पृथिवीतरः ।
आपश्चैवापवत्सश्च सविता सावित्र एव च ॥३२॥
इथे ३३ आणि ३४ नंबरचा श्लोक उपलब्ध नाही..
तदर्धं क्षुद्रविधिना दक्षिणोत्तरमार्गतः ।
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥३५॥
श्रीवत्सन्नाभिवर्तञ्च पार्श्वयुक्तन्तु पद्मकम् ।
नन्द्यावर्तञ्च भद्रञ्च स्वस्तिकञ्च प्रकीर्णकम् ॥३६॥
ग्रामा ग्रहारयोर्न्यासमेवं प्रोक्तं विशेषतः ।
कुम्भवेदिक सिंहाख्या स्त्रिधासेना निवेशनम् ॥३७॥
दण्डकन् त्वितिविख्यातं नागरादिप्रकल्पयेत् ।
वीधयः प्राङ्मुखस्तिस्रः सप्तपञ्च उदङ्मुखाः ॥३८॥
अष्टद्वारन्तु विन्यासं श्रीवत्सन्तु प्रगद्यते ।
ता एव विधयः प्रोक्ता नाभियुक्तञ्च मध्यमे ॥३९॥
पार्श्वयो राजवीधी च नाभिवर्तस्य चोच्यते ।
अनाभिः पूर्ववत् प्रोक्तं पार्श्वयुक्तमिति स्मृतम् ॥४०॥
अष्टद्वारसमायुक्तं प्राङ्मुखं पञ्चवीधिकाः ।
शेषाणि पूर्ववत् कृत्वा नन्द्यावर्तमुदाहृतम् ॥४१॥
द्वारवीधिं यदिप्रोक्ष्यद्रुममध्यम संस्पृशेत् ।
भद्रकं नामनामेति स्वस्तिकञ्च ततः शृणु ॥४२॥
तिर्यग्वीधिरयुग्माश्च प्राङ्मुखाश्चतुरत्थ्यया ।
स्वस्तिकञ्च इति प्रोक्तं पद्मकञ्च ततः शृणु ॥४३॥
नाभिमङ्गलवीधीभ्यामयुग्माः क्षुद्रविधयः ।
परिवेष्टिञ्च तद्वारमेतत् पद्मकमुच्यते ॥४४॥
तथा स्वस्तिकवत् कृत्वा कोणमध्ये च द्वारकौ ।
एतत् तु कर्णिका पद्मं पद्मावर्तमथशृणु ॥४५॥
पद्मवत् प्रोतरत्थ्यान्तं पद्मावर्तमिति स्मृतम् ।
स्वमध्ये नाभियुक्तन्तु तद्युक्ता चान्तवीधिका ॥४६॥
प्रकीर्णकमिति प्रोक्तं कुम्भकञ्च ततः शृणु ।
आवृतञ्चोक्तरत्थ्या च कुम्भकञ्चेति कथ्यते ॥४७॥
इथे ४८ नंबरचा श्लोक उपलब्ध नाही.
सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥४९॥
यथेष्टायतरत्थ्येक द्वारद्वयसमन्वितम् ।
तद्दण्डकमिति प्रोक्तमेतत् ग्रामादिनामतः ॥५०॥
नाभिप्रोक्तं दण्डछेदं सूत्रछेदं न कारयेत् ।
सगर्भा सर्व-ऋद्धिः स्यादगर्भा सर्वनाशिनी ॥५१॥
तस्मादादौ प्रकर्तव्या सगर्भा पृथिवी ततः ।
शतद्वयपलैस्ताम्रैस्तदर्धैर्वा तदर्धकैः ॥५२॥
पलैः फेला प्रकर्तव्या हस्तमात्रप्रमाणतः ।
नवकोष्ठसमायुक्तं सपिधाना समादृढा ॥५३॥
रत्नबीज सम्रध्या तु लोहकन्दानि चैव हि ।
फेलामध्ये यथा न्यस्त्वा सुमुहूर्ते तु विन्यसेत् ॥५४॥
ग्राममध्ये सभास्थाने द्वारदक्षिणपार्श्वके ।
देवालये तथा रामे तटाकस्य तु तीरके ॥५५॥
एवं गर्भं सुविन्यस्य ग्रहश्रेणी समारभेत् ।
त्रिदण्डं पञ्चदण्डं वा सप्तदण्डाधमत्रयम् ॥५६॥
नवैकादशदशकं मध्यमत्रितयं विदुः ।
दशपञ्चाधिकं सप्तदशचैकोनविंशतिः ॥५७॥
उत्तम त्रितयद्वत्र एषामेक तमंबुधः ।
विस्ताराभद्विगुणाधिक्यं दण्डैकमधिकं यथा ॥५८॥
विस्तारादर्द्धमायामं द्विगुणं त्रिगुणायतम् ।
पुरुषस्यप्रधानं हि वासं दक्षिणमुच्यते ॥५९॥
उत्तरेरङ्गमेवं स्यात् स्त्रीणाञ्चेद्विपरीतकम् ।
ईशे महासनं प्रोक्तं मांहेन्द्रे द्वारवेशनम् ॥६०॥
नै-ऋते कल्पयेद् धान्यं फर्ज्जन्येजलनिर्गमम् ।
विधेरभिमुखद्वारं ग्रहाणां तद्विधीयते ॥६१॥
सप्तविंशति दण्डं वा महावीधि प्रमाणतः ।
तत् समन्द्वारमाख्यातं तद्वास्तूक्त पदेषु वै ॥६२॥
तदर्धं क्षुद्र विधिना दक्षिणोत्तरमार्गतः ।
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥६३॥
ईशाने चेश्वर स्थानं सोमेशानान्तरेऽथवा ।
तथैन्द्राशान योर्मध्ये कल्पयेत् तु विचक्षणः ॥६४॥
सहस्रभूसुरादूर्ध्वे ब्रह्मेशो वायुदेशके ।
पञ्चमूर्ति विधानेन स्थापयेद् वै जनार्दनम् ॥६५॥
ऐन्द्रे तु भास्करस्थानं महामोट्यास्तु पावके ।
दुर्गस्थानन्तु याम्यायां महेशि तुश्च नै-ऋते ॥६६॥
विष्णु स्थानन्तु वारुण्यां सुब्रह्मण्यन्तु वायवे ।
विनायक स मातृणां स्थानं सम्यक् तथोत्तरे ॥६७॥
प्राकार परिखाबाह्ये मातृणां स्थानमिष्यते ।
तासां वै चोत्तरद्वारं ग्रामादीनां हिताय वै ॥६८॥
सूर्यस्य पश्चिमद्वारमन्येषां पूर्वतोमुखम् ।
तटाकस्य तु तीरे तु ज्येष्ठा देवीं प्रकल्पयेत् ॥६९॥
बाह्ये चाभ्यन्तरेवापि देवागारं पृथक् पृथक् ।
शिवस्य वास्तु बाह्ये तु प्रासादं प्रोक्तदेशके ॥७०॥
सन्धिमर्मेषु वीध्यग्रे देवानामालयन्न हि ।
ग्रामायामस्य पञ्चांशं परितः कल्पयेत् पृथक् ॥७१॥
पैशाचमिति विख्यातं तत्र देवालयं स्मृतम् ।
शिवस्याराधनं नित्यं भुक्तिमुक्तिप्रदायकम् ॥७२॥
अन्येषां पूजनन्नित्यं ग्राम-ऋद्धिकरं भवेत् ।
देवस्थानं विनायत्र एककालं न वासयेत् ॥७३॥
नित्यपूजाविहीने तु क्रुद्धं पीडां करोति हि ।
तत् पूजकास्तु तत् पार्श्वे तस्यालयसमीपतः ॥७४॥
आवासं संप्रकल्प्यैव न्यसेयुर्निरुपद्रवाः ।
ग्रामादीनान्तु परितः शूद्राणान्तु निवासकम् ॥७५॥
वारिजां पश्चिमेभागे अथवा दक्षिणे दिशि ।
प्राच्याञ्चैव कुलालानां पश्चिमे वा विशेषतः ॥७६॥
पश्चिमे मांसवृत्तीनां वायव्येमत्स्यजीविनाम् ।
दक्षिणे तैल वृत्तीनामुत्तरे पुष्पजीविनाम् ॥७७॥
आग्नेय्यां नापितानान्तु नै-ऋत्यान्तन्तु वायकान् ।
परितः परिघातन्तत् बाह्ये चाप्यन्त्यजनान् पृथक् ॥७८॥
पूर्वे वा पश्चिमे वापि कर्मकारान् प्रकल्पयेत् ।
कारुकाणान्ततो बाह्ये चण्डालानान्ततो बहिः ॥७९॥
ग्रामात् क्रोशमतिक्रम्य नगराणान्तदर्धतः ।
ग्रामस्यैशान दिक्भागे श्मशानन्तु विधीयते ॥८०॥
नद्यास्तीरेऽथवा सोमे कञ्चिद्दूरं समाश्रितम् ।
चतुर्दिक्षु तटाकञ्च कोणे वापि प्रकल्पयेत् ॥८१॥
एवं समासतः प्रोक्तं ग्रामादीनान्तु लक्षणम् ।
शृणुत्वमेव मनसा विभवस्य तु निश्चयम् ॥८२॥
इति ग्रामादिलक्षणपटलस्त्रयोविंशतितमः ॥२३॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP