वैशाखमासमाहात्म्यम् - अध्याय ८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मैथिल उवाच ॥
ब्रह्मन्निक्ष्वाकुतनयो जलाऽदानाच्च चातकः ॥
त्रिवारमभवत्पश्चान्मद्गृहे गोधिका तथा ॥१॥
कर्मानुगुणमेतद्धि युक्तं तस्याकृतात्मनः ॥
सतामसेवनात्तस्य गृध्रत्वं सारमेयता ॥२॥
सप्तवारमिति प्रोक्तं तन्मे भाति च नोचितम् ॥
संतो न दूषितास्तेन न तथा कृपणा अपि ॥३॥
तस्मादसेविनस्तस्य फलाऽभावो भवेद्ध्रुवम् ॥
नानर्थकरणाभावादिदं हि परपीडनम् ॥४॥
अनिमित्तमिदं कस्मात्कुयोनित्वमवाप्तवान् ॥
तदेतं संशयं छिंधि शिष्यस्याऽऽत्मप्रियस्य च ॥५॥
इति राज्ञा सुसंपृष्टः श्रुतदेवो महायशाः ॥
साधुसाध्विति संभाष्य वचो व्याहर्तुमादधे ॥६॥
॥ श्रुतदेव उवाच ॥
शृणु राजन्प्रवक्ष्यामि यत्पृष्टं तु त्वयाऽनघ ॥
शिवायै च शिवेनोक्तं कैलासशिखरेऽमले ॥७॥
सृष्ट्वेमान्सकलाँल्लोकान्पश्चात्तेषामवस्थितिम् ॥
आमुष्मिकीमैहिकीं च द्विविधां पर्यकल्पयत् ॥८॥
हेतुत्रयं च प्रत्येकं हेतुस्थित्यै महाप्रभुः ॥
जलसेवा चान्नसेवा सेवा चैवौषधस्य च ॥९॥
यत्र चैते महाभाग ह्यैहिकस्थिति हेतवः ॥
एवमामुष्मिके राजंस्त्रय एवेरिताः श्रुतौ ॥१०॥
साधुसेवा विष्णुसेवा सेवा धर्मपथस्य च ॥
पुरा सम्पादिता ह्येते परलोकस्य हेतवः ॥११॥
गृहे संपादितं यद्वत्पाथेयं पद्धतौ यथा ॥
ऐहिका हेतवो राजन्सद्यः सं(?)पादितार्थदाः ॥१२॥
किं चेष्टमपि साधूनां मनसो यदि दुस्सहम् ॥
कुतश्चित्कारणाद्राजंस्तच्चानर्थाय कल्पते ॥१३॥
अप्रियं किमु वक्तव्यं दुःखहेतुरिति स्फुटम् ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥१४॥
पापघ्नं महदाश्चर्यं शृण्वतां रोमहर्षणम् ॥
यज्ञदीक्षामुपगतः पुरा दक्षः प्रजापतिः ॥१५॥
आह्वानार्थं भूतपतेरगमद्रजताचलम् ॥
तं दृष्ट्वा नोत्थितः शंभुस्तस्यैव हितकाम्यया ॥१६॥
सर्वामरगुरुश्चाऽहं छन्दोगम्यः सनातनः ॥
भृत्या ह्येते बलिहराश्चन्द्रेन्द्राद्याः सुरेश्वराः ॥१७॥
स्वामी भृत्याय नोत्तिष्ठेत्स्वभार्यायै पतिस्तथा ॥
गुरुः शिष्याय नोत्तिष्ठेदिति शास्त्रविदां मतम् ॥१८॥
न संबन्धो गुरुत्वे च कारणं त्विति वै श्रुतिः ॥
बलं ज्ञानं तपः शांतिर्यत्र चैवाऽधिकं भवेत् ॥१९॥
स गुरुश्चेतरेषां च नीचा ईयुश्च प्रेष्यताम् ॥
उत्तिष्ठन्ति च स्वाम्याद्या भृत्यादीन्यदि चाऽऽग्रहात् ॥२०॥
आयुर्वित्तं यशस्तेषां सद्यो नश्यति सन्ततिः ॥
तस्मादहं तु नोत्तिष्ठे प्रियोऽयं श्वशुरो मम ॥२१॥
इति तस्य हितान्वेषी नोच्चचालाऽऽसनाद्विभुः ॥
नोत्थितं तु मृडं दृष्ट्वा कुपितोऽभूत्प्रजापतिः ॥२२॥
अनिंदद्बहुधा तस्मै पुरतो गिरिजापतेः ॥
अहो दर्पमहो दर्पं दरिद्रस्याऽकृतात्मनः ॥२३॥
यस्य वित्तं बहुवया वृषश्चर्मावशेषितः ॥
अत एव कपालास्थिधरः पाखण्डगोचरः ॥२४॥
वृथाऽहंकारिणो दैवं कुतो दास्यति मंगलम् ॥
लोके कृत्येन कर्माणि शुचीनीति विदो विदुः ॥२५॥
धत्ते दरिद्रः शीतार्तः पवित्रं च गजाजिनम् ॥
वेश्म श्मशानं यस्य स्याद्भुजंगः किल भूषणम् ॥२६॥
न धीरताऽपि च ज्ञानं वृकात्तस्मात्पलायिते ॥
भूतप्रेतपिशाचादि दुर्जनैः संगतोऽनिशम् ॥२७॥
न कुलं श्रूयते क्वाऽपि नाऽसौ वै साधुस म्मतः ॥
वृथा विश्रंभितः पूर्वं नारदेन दुरात्मना ॥२८॥
येनाऽहं बोधितः प्रादां कन्यां चैतां सतीं मम ॥
पृथग्धर्मगता चैषा सुखं वसतु तद्गृहे ॥२९॥
नास्माभिः श्लाघनीयोऽसौ मत्सुताऽपि कथंचन ॥
यथा कुलालकलशश्चंडालस्य वशं गतः ॥३०॥
इति दक्षो विमूढात्मा ह्युमां नाहूय तं मृडम्॥
बहुधा तं विनिर्भर्त्स्य तूष्णीमेव गृहं ययौ ॥३१॥
यज्ञवाटं ततो गत्वा ऋत्विग्भिर्मुनिभिः सह॥
ईजे यज्ञविधानेन निंदन्नेव महाप्रभुम् ॥३२॥
ब्रह्मविष्णू विहायैव सर्वे देवाः समागताः ॥
सिद्धचारणगन्धर्वा यक्षराक्षसकिन्नराः ॥३३॥
तदा देवी सती पुण्या स्त्रीचाञ्चल्यात्प्रलोभिता ॥
उत्सुका चोत्सवं द्रष्टुं बन्धूंस्तत्र समागतान् ॥३४॥
निवार्यमाणा रुद्रेण तरला स्त्रीस्वभावतः ॥
प्रत्युक्ताऽपि पुनश्चैव गन्तव्यमिति निश्चिता ॥३५॥
स निन्दति सभामध्ये सदा मां वरवर्णिनि ॥
तच्चासह्यं च त्वं श्रुत्वा कायं सत्यं प्रहास्यसि ॥३६॥
असह्यमपि सोढव्यं मयाऽपि गृहमिच्छता ॥
मया यथा कृतं देवि तथा त्वं नैव वर्तसे ॥३७
तस्मान्मा गच्छ शालां वै न शुभं तु भवेद्ध्रुवम्॥
इत्येवं बोधिता देवी चापल्यं पुनरागमत् ॥३८॥
निश्चक्राम सती गेहादेकाकी पादचारिणी ॥
तां दृष्ट्वा वृषभस्तूष्णीं पृष्ठे देवीमुवाह सः ॥३९॥
कोटिशो भूतसंघाश्च ह्यनुजग्मुः सतीं तदा ॥
यज्ञवाटं तु सा गत्वा पत्नीशालां ययौ पुरा ॥४०॥
तूष्णीमास सतीं दृष्ट्वा खेदात्तस्माद्विनिर्गता ॥
पतिवाक्यं तु संस्मृत्य जगामोत्तरवेदिकाम् ॥४१॥
पिता सभ्याश्च तां दृष्ट्वा स्थितास्तूष्णीं हताशिषः ॥
सा रुद्राहुतिपर्यंतं पश्यन्ती पितृचेष्टितम् ॥
त्यक्त्वा रुद्रं च जुह्वंतमुवाचाऽश्रुकुलेक्षणा ॥४२॥
॥ देव्युवाच ॥
महदुल्लंघनं पुंसां न प्रायः श्रेयसे भवेत् ॥
लोककर्ता लोकभर्ता सर्वेषां प्रभुरव्ययः ॥४३॥
एवंभूतस्य रुद्रस्य कथं नो दीयते हविः ॥
जातां न किं ते दुर्बुद्धिं हरंत्यन्ये समागताः ॥४४॥
न चेदृशा महात्मानः किमेषां विमुखो विधिः ॥४५॥
इत्येवं भाषमाणां तां पूषा देवो जहास ह ॥
श्मश्रूणां चालनं चक्रे भृगुर्हतशुभस्तथा ॥४६॥
भुजपादोरुकक्षा णां स्फालनं चक्रिरे परे ॥
बहुधा निन्दनं चक्रे तत्पिता हतभाग्यवान् ॥४७॥
तच्छ्रुत्वा रुद्रभार्या सा कोपाकुलितमानसा ॥
प्रायश्चित्तं श्रुतेः कर्तुं देहं तत्याज सा सती ॥
होमाग्नौ वेदिकामध्ये सर्वेषामेव पश्यताम् ॥४८॥
हाहाकारो महानासीद्दुद्रुवुः प्रमथा द्रुतम् ॥
आचख्युर्देवदेवाय वृत्तान्तमखिलं तदा ॥४९॥
तच्छ्रुत्वा सहसोत्थाय रुद्रः कालांतकोपमः ॥
जटामुत्पाट्य हस्तेन भूतले तामताडयत् ॥५०॥
ततोऽभवन्महाकायो वीरभद्रो महाबलः ॥
सहस्रबाहुरभवत्कालांतकसमप्रभः ॥५१॥
बद्धांजलिपुटो भूत्वा व्याजहार हरं तदा ॥
मत्सृष्टिस्तु यदर्थं ते तदर्थं मा नियोजय ॥५२॥
इत्युक्तः प्राह तं क्रुद्धो धूर्जटिश्च पुरः स्थितम् ॥५३॥
हन त्वं निन्दकं दक्षं यदर्थे मत्प्रिया हता ॥
भूतसंघास्तु गच्छन्तु सहैतेन महाबलाः ॥५४॥
इत्यादिष्टा भगवता ययुर्यज्ञसभां तदा ॥
जघ्नुः सर्वान्महावीरान्देवासुरनरादिकान् ॥५५॥
पूष्णश्च हसतो दंताञ्जटाभूश्च बभञ्ज ह ॥
श्मश्रूण्युत्पाटयांचक्रे भृगोस्तस्य दुरात्मनः ॥५६॥
यद्यदास्फालितं पूर्वं तत्तच्चिच्छेद वीर्यवान् ॥
ततो दक्षशिरो हर्तुं बहूद्योगं चकार ह ॥५७॥
मुनिमंत्रप्रगुप्तं तु नैव कृंतति तद्बलात् ॥
हरो ज्ञात्वा तु चिच्छेद स्वयमेत्य दुरात्मनः ॥५८॥
एवं मखगतान्हत्वा साऽनुगः स्वालयं ययौ ॥
हतावशिष्टाः केचित्तु ब्रह्माणं शरणं ययुः ॥५९॥
तैरन्वितो ययौ ब्रह्मा कैलासं तु शिवालयम् ॥
ततो रुद्रं सान्त्वयित्वा वचोभिर्विविधैरपि ॥६०॥
तेनैव सहितः प्रागाद्यज्ञवाटं महाप्रभुः ॥
तेनैवोज्जीवयामास सर्वान्यज्ञसमागतान् ॥६१॥
ख्यात्यै प्रादादजमुखं दक्षस्य तु तदा शिवः ॥
अजश्मश्रूण्यदाच्छंभुर्भृगवे तु महात्मने ॥६२॥
पूष्णश्च दंतान्न प्रादात्पिष्टादं च चकार ह ॥
तदङ्गानां व्यतिकरं केषांचिदपि वै शिवः ॥६३॥
शिवमापुश्च ते सर्वे ब्रह्मणा च शिवेन च ॥
पुनः प्रवर्तितो यज्ञो यथापूर्वं महात्मनः ॥६४॥
यज्ञान्ते सर्वदेवाश्च जग्मुस्ते स्वस्वमालयम् ॥
नैष्ठिकं ब्रह्मचर्यं तु कृत्वा रुद्रो महातपाः ॥६५॥
तेपे गंगातटे रुद्रः पुन्नागतरुमूलगः ॥
दक्षात्मजा सती देवी त्यक्तदेहा पतिव्रता ॥६६॥
जज्ञे हिमाद्रेर्मेनक्यां ववृधे तस्य वेश्मनि॥
एतस्मिन्नेव काले तु तारकाख्यो महासुरः ॥६७॥
स तीव्रतपसाऽऽराध्य ब्रह्माणं परमेष्ठिनम् ॥
अवध्यत्वं वरं वव्रे देवासुरनरोरगैः ॥६८॥
आयुधैरस्त्रसंघैश्च सर्वैरेव महाबलैः ॥
रुद्रपुत्रं विना दैत्य ह्यवध्यः सकलैरपि ॥६९॥
इति तस्मै वरं प्रादाद्ब्रह्मा लोकपितामहः ॥
अस्त्रीकत्वादपुत्रत्वाद्रुद्रस्येति तथास्त्विति ॥७०॥
वरं गृहीत्वा स्वगृहं प्राप्य लोकान्बबाध ह ॥
दासा देवा मार्जनादौ दास्यो देव्यश्च तद्गृहे ॥७१॥
ततस्तत्पीडिता देवा ब्रह्माणं शरणं ययुः ॥
तैः पीडां वर्णितां श्रुत्वा वेधाः प्राह सुरानिदम् ॥७२॥
वरप्रदानकालेऽहं रुद्रपुत्रं विना सुराः ॥
नख्यैवध्य इति प्रादां वरं तस्मै दुरात्मने ॥७३॥
पुरा सती रुद्रपत्नी सत्रे त्यक्तकलेवरा ॥
जाता हिमवतः पुत्री पार्वतीति च यां विदुः ॥७४॥
रुद्रो हिमवतः पृष्ठे तपश्चरति दुश्चरम् ॥
योजयध्वं च पार्वत्या रुद्रं लोकेश्वरं प्रभुम् ॥७५॥
पुनर्देवेन्द्रसदने संगतैरमरेश्वरैः ॥
धिषणेनाऽपि सम्मंत्र्य देवेंद्रः पाकशासनः ॥७६॥
सस्मार च स कार्यार्थं नारदं स्मरमेव च ॥
तत्राऽऽगतौ ततस्तौ तु बलभिद्वाक्यमब्रवीत् ॥७७॥
हिमवन्तं भवान्गत्वा वचसा तं निबोधय ॥
पुत्री तव प्राग्दक्षस्य हरपत्नी सुता सती ॥७८॥
तपश्चरति ते शृंगे वियुक्ता दशकन्यया ॥
मृडस्तस्य सपर्यायै विनियोजय तत्प्रियाम् ॥७९॥
तस्यैव पत्नी भविता स एव भविता पतिः ॥
इत्याऽऽदिष्टो मघोना च नारदोपेत्य तं गिरिम् ॥८०॥
तथैव कारयामास देवेन्द्रेणोदितं यथा ॥
पश्चात्कामं समाहूय मघवानिद माह च ॥८१॥
देवानां च हितार्थाय तथा मृडहिताय च ॥
वसन्तेन समायुक्तो गत्वा रुद्रतपोवनम् ॥८२॥
गुणान्विजृम्भ यित्वा तु वासं तान्हृच्छयावहान् ॥
यदा सन्निहिता देवी पार्वती तु मृडस्य च ॥८३॥
तदा प्रयुज्य त्वं वाणान्मोहयस्व महाप्रभुम् ॥
तयोस्तु संगमे जाते कार्यं नोऽद्धा भविष्यति ॥८४॥
इत्यादिष्टः स्मरस्तूर्णं प्रतस्थे बाढमित्यथ ॥
सवसंतः सरतिकः सानुगस्तद्वनं ययौ ॥८५॥
अकाले तु वसंतर्तुं जृंभयित्वा स्वशक्तितः ॥
तद्वने सर्वतो रम्ये मन्दाऽनिलनिषेविते ॥८६॥
कदाचिद्देवदेवोऽपि पार्वत्याश्च सपर्यया ॥
प्रीतः स्वाङ्कं समारोप्य किंचिद्व्याहर्तुमारभत् ॥८७॥
प्राणप्रिया सङ्गमस्य कालोऽयमिति निश्चितः ॥
पेशलं धनुरादाय स तस्थौ हरपृष्ठतः ॥८८॥
कृत्वा जवनिकां वृक्षं बाणमेकं मुमोच ह ॥
द्वितीयमपि संधाय चक्रे मोक्तुं महोद्यमम् ॥८९॥
अथ क्षुब्धमना भूत्वा मृडश्चिंतामवाप ह ॥
न मे मनश्चलेत्क्वापि केन वा कश्मलीकृतम् ॥९०॥
इति चिन्ताकुलो वामे पार्श्वे कामं ददर्श ह ॥
क्रुद्धोन्मील्य ललाटाक्षं स्वाङ्काद्देवीमपास्य च ॥९१॥
तस्याक्ष्णः समभूदग्निस्तीक्ष्णो लोकविभीषणः ॥
तेन दग्धोऽभवत्सद्यो मन्मथः सशरासनः ॥९२॥
कार्यसिद्धिं च पश्यंतो दुद्रुवुश्चामरा दिवम् ॥
शंकमानाः स्वदण्डं च वसन्तो रतिरेव च ॥९३॥
निमील्य लोचने भीता देवी दूरं प्रदुद्रुवे ॥
सन्निधानं स्त्रियो हर्तुं मृडोप्यंतरधीयत ॥९४॥
रुद्रस्येष्टं प्रकुर्वाणो देवश्च मनसो हितम् ॥
लेभेऽनर्थमनिर्वृत्तं विप्रियं कुर्वतस्तु किम् ॥९५॥
तस्मादिक्ष्वाकुतनयः साधूनामप्रियः सदा ॥
तस्मादात्महितां सेवां नाऽकरोन्मन्दधीः सताम् ॥९६॥
अनुभूतं महद्दुःखं तस्माद्दुर्योनिरेव च ॥
तस्मात्कुर्यात्तु साधूनां सेवां सर्वार्थसाधिनीम् ॥९७॥
रुद्रस्याऽप्रियकारित्वात्स्मरो भाविनि जन्मनि ॥
दुःखं तु बहुलं लेभे जन्मकाले महाप्रभुः ॥९८॥
इतिहासमिमं पुण्यं ये शृण्वन्ति दिवानिशम् ॥
जन्ममृत्युजरादिभ्यो मुच्यंतेनाऽत्र संशयः ॥९९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाक्षायण्यपमाने दक्षयज्ञविध्वंसपूर्वकपार्वती जन्मादिकामदहनवर्णनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP